कादम्बरीसङ्ग्रहः /120
This page has not been fully proofread.
११४
कादम्बरीसंग्रहः ।
कादम्बरीप्रतीहार्या वामपाणिना वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुख
चन्दनानुलेपनसनाथं नालिकेरसमुद्द्रकमुद्वहन्त्या दक्षिणकरेण दत्तह-
स्तावलम्बाम्, केयूरकेण च निश्वासहायें निर्मोकशुचिनी धौत कल्प-
लतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरत
ल्या च तमालिकयानुगम्यमानामागच्छन्तीं मदलेखाम्; तस्याश्च समीपे
तरलिकाम्; तया च सितांशुकोपच्छदे पटलके गृहीतम् सहमुवमिव
चन्द्रमस:, हासमिव श्रियः, प्रतिमातारागणमिव जलनिधिजलादुद्धृ-
तम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्, शरच्छशिनमिव
घनमुक्तांशुनिवहधवलित दिङ्मुखम्, प्रभावर्षिणमतितारं हारम् ।
दृष्ट्वा चायमस्य चन्द्रापीडश्चन्द्रातपद्युतिमुषो धवलिम्नः कारणमिति
मनसा निश्चित्य, दूरादेव प्रत्युत्थानादिना समुचितेनोपचारक्रमेण मद-
लेखामापतन्तीं प्रतिजग्राह। सा तु तस्मिन्नेव मरकतग्रावणि मुहूर्तमुप-
त्रिश्य, स्वयमुत्थाय, तेन चन्दनाङ्गरागेणानुलिप्य, ते च द्वे दुकूल
परिधाप्य, तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा, तं हारमादाय,
चन्द्रपीडमुवाच 'कुमार, तवेयमपहस्तिताहंकारकान्ता पेशलता.
प्रीतिपरवशं जनं किमिव न कारयति । प्रश्रय एव ते ददात्यवका रामे-
वंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी । अनेन
चाकारणाविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वमध्यारोपयसि ।
एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यतामुत्पादयति । कं
वा न समाश्वासयन्त्यमी स्वभावसुकुमारवृत्तयो भवद्गुणाः । त्वन्मूर्ति-
रेवात्रोपालम्भमर्हति, या प्रथमदर्शन एव वित्रम्भमुपजनयति । इतरथा
हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवा-
-8.