This page has not been fully proofread.

#1
 
कादम्बरीसंग्रहः ।
 
त्रभङ्गमकरकोटिपाटितांशुकपटानामु, गमनप्रणामलालसानामहमहमि-
कया, वक्षःस्थलप्रेङ्खोलितहारलतानाम् उत्तिष्ठतामासीदतिमहा-सं-
भ्रमो महीपतीनाम् । इतश्चेतश्च निष्पतन्तीनां स्कन्धदेशावसक्तचामराणां
चामरग्राहिणीनां पदे पदे रणितमणीनां मणिनूपुराणां निनादेन,
प्रतीहारीणां च पुरः ससंभ्रमं समुत्सारितजनानां भवनप्रासादकुञ्जेषू-
चरितप्रतिशब्दतया दीर्घतामुपगतेनालोकशब्देन, प्रचलितजन चरणश-
तसंक्षोभभयादपहाय कुसुमप्रकरमुत्पतता च मधुट्टिहां हुंकृतेन, संक्षा-
'भादतित्वरितपदप्रवृत्तैरवनिपतिभिः केयूरकोटिताडितानां क्वणितमुख-
ररत्नदानां च मणिस्तम्भानां रणितेन सर्वतः क्षुमतमि तदास्थान-
भवनमभवत् ।
 

 
-
 
अथ विसर्जितराजलोकः 'विम्यतात्' इति स्वयमेवाभिधाय तां
चाण्डालकन्यकाम्, 'वैशम्पायनः प्रवेश्यतामभ्यन्तरम्' इति ताम्बू-
लकरङ्कवाहिनीमादिश्य कतिपयाप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तर
प्राविशत् । अपनीताशेषभूषणश्च दिवसकर इत्र विगलितकिरणजाल.
समुपाहृतसमुचित व्यायामोपकरणा व्यायामभूमिमयासीत् । स तस्यां च
समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः, तत्कालं विरलजनेऽपि
राजकुले समुत्सारणाधिकारमुचितमाचरद्भिर्दण्डिभिरुपदिश्यमानमार्गः,
 
गन्धोदकपूर्णकनकमयजलद्रोणीसनाथुमध्याम् उपस्थापितस्फाटिक-
स्नानपीठाम्, एकान्तनिहितैरतिसुरभिगन्धसलिलपूर्णे: स्नानकलशै-
रुपशोभिता स्नानभूमिमगच्छत्
 
www
 
ततश्च तत्र निर्वर्तिताभिषेको विपधरनिर्मोकपरिघुनी धवले
परिवाय धोतवाससी, अतिधवलजलघरच्छेदशुचिना ढुकूलपटपल्लवेन