This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
चन्द्रापीडोsपि प्रविश्य मणिगृहम्, शिलातलास्तीर्णायाम् उभयत
उपर्युपरिनिवेशितबहूपधानायां कुथायां निपत्य केयूरकेणोत्सङ्गे गृहीत
चरणयुगल:, ताभिर्यथादिष्टेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परि-
वृतः, दोलायमानेन चेतसा चिन्तां विवेश — 'कि ताबदस्या गन्धर्व-
राजदुहितु: कादम्बर्या: सहभुव एते बिलासा एवेशा: स्कल-
लोकहृदयहारिणः । आहोस्विदनाराधितप्रसन्नेन भगवता मकरकेतुना
मयि नियुक्ताः । येन मां सास्त्रेण सरागेण कूणितत्रिभागेण चक्षुषा
तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव
लज्जयात्मानमावृणोति । पुनश्चाचिन्तयत् -- 'प्रायेण मानुष्यकसुलभा
लघुता मिथ्यासंकल्पसहस्स्रैरेवं मां विप्रलभते । लुप्तविवेको यौवनमदो
मदयति मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं
महत्पश्यति । स्नेहलवोऽपि वारिणेव यौवनमन दूरं विस्तार्यते ।
स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किंचिन्नो-
त्प्रेक्षते । निपुणमन्मथगृहीता चित्रवर्तिकेत्र तरुणचित्तवृत्तिर्न किंचिन्ना-
लिखति । संजातरूपाभिमाना कुलटेवात्मसंभावना न क्वचिन्नात्मान-
मर्पयति । स्वप्न इवाननुभूतमपि मनोरथो दर्शयति । इन्द्रजाल-
पिच्छिकेवासंभाव्यमपि प्रत्याशा पुरः स्थापयति' । भूयश्च चिन्तित -
- 'किमनेन वृथैव मनसा खेदितेन । यदि सत्यमेवेयं धवले-
क्षणा मय्येवं जातचित्तवृत्ति:, तदा नचिरात्स एवैनामप्रार्थितानुकूलो
मन्मथ: प्रकटीकरिष्यति । स एवास्य संशयस्य च्छेत्ता भविष्यति'
इत्यवधार्योत्थायोपविश्य च, ताभि: कन्यकाभिः सहाक्षैर्गेयैश्च विपञ्ची-
वाद्यैश्व सासंदेहविनादेश गुभाषितगोडीभिश्चान्यैश्च तैस्तैरालापैः
 
वान्
 
११२