This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१११
 
-
 
सख्यो वा, राजकुलसंचारचतुरो वा नित्यमिङ्गितशः परिजन: । ईदृशे-
ध्वति निपुणतरदृष्टयोऽन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या ।
मरणं मेऽद्य श्रेयः, न लज्जाकरं जीवितत् । श्रुत्वैतं वृत्तान्तं किं वक्ष्य-
त्यम्बा तातो वा गन्धर्वलोको वा । किं करोमि । कोऽत्र प्रतीकारः ।
केनोपायेन स्खलितमिदं प्रच्छादयामि । कस्य वा चापलमिदमेतेषां
दुर्बिनीतानामिन्द्रियाणां कथयामि । क्त्र बानेन दग्धहृदयेन गृहीता
गच्छामि । तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता । तथा प्रियसखीनां
पुरो मन्त्रितम् । तथा च केयूरकस्य हस्ते संदिष्टम् । न खलु जानामि
मन्दभागिनी - शठविधिना वा पूर्वकृतापुण्यसंचयेन वा मृत्युहतकेन
वान्येन वा केनाध्ययमानीतो मम विप्रलम्भकश्चन्द्रापीड: । कोऽपि वा,
न कदाचिदृष्टो नानुभूतो न च श्रुतो न चिन्तितो नोत्प्रेक्षितो मां
विडम्बयितुमुपागतः; यस्य दर्शनमात्रेणैव संयम्य दत्तेवेन्द्रियैः, गृहीत -
गुणपणेन विक्रीतंवं हृदयेनोपकरणीभूतास्मि । न मे कार्ये तेन चपलेन'
'इति क्षणमिव संकल्पमकरोत् । कृतसंकल्पा तत्परित्यागसंकल्पस-
मकालप्रस्थितेन कण्ठलग्नेन पृष्ठेव जीवितेन, 'अविशेषज्ञे, पुनरपि प्रक्षा-
लितलोचनया दृश्यतामसौ जनः प्रत्याख्यानयोग्यो न वा' इति तत्का-
लागतेनाभिहितेव बाष्पेण, पुनरपि तथैव चन्द्रापीडाभिमुखहृदया
बभूव । तदेवमस्तमितप्रतिसमाधानबला जालवातायनेन तमेव क्रीडा-
पर्वतमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्वि-
मेव स्मृत्या ददर्श, न चक्षुषा । अगुलीगलितस्वेदपरामर्शभीतेव
चिन्तया लिलेख, न चित्रतृलिकया । तत्संगमकालातिपातासहेव मनो
गमनाय नियुक्तवती, न परिजनम् ।
 
,
 
-