This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
क्रीडापर्वतमणिमन्दिरमगात् । गते च तस्मिन्गन्धर्वराजपुत्री विसर्ज्य
सकलं सखीजनं परिजनं च परिमितपरिचारिकाभिरनुगम्यमाना,
प्रासादमारुरोह । तत्र च शयनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः
परिचारिकाभिर्विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मि-
न्काले 'चपले, किमिदमारब्धम्' इति निगृहीतेव लज्जया, 'गन्धर्व-
राजपुत्रि, कथमेतद्युक्तम्' इत्युपोलब्धेव विनयेन, 'भीरु, नायं कुल-
कन्यकानां क्रमः' इति गर्हितेव महत्त्वेन, 'दुर्विनीते, रक्षाविनयम्'
इति तर्जितेवाचारेण, 'मूढे मदनेन लघुतां नीतासि' इत्यनुशासिते-
बाभिजात्येन, 'कुतस्तत्रेयं तरलहृदयता' इति धिक्कतेव धैर्येण, 'स्वच्छ-
न्दचारिणि, अप्रमाणीकृताहं त्वया' इति निन्दितेव कुलस्थित्या, अति-
गुर्वी लज्जामुवाह ।
 
११०
 
समचिन्तयञ्चैत्रम्–'अगणितसर्वशङ्कया तरलहृदयतां दर्श-
यन्त्याद्य मया किं कृतमिदं मोहान्धया हताशया । तथा हि
'अदृष्टपूर्वोऽयम्' इति साहसिकया मया न शङ्कितम् । 'लघुहृदयां
मां लोक: कलयिष्यति' इति निकया नाकलितम् । 'कास्य चित्त-
वृत्तिः' इति मूढया न परीक्षितम् । 'दर्शनानुकूलाहमस्य न वा' इति
तरलया न कृतो विचारक्रम: । प्रत्याख्यानवैलक्ष्यान्न भीतम् । गुरु-
जनान्न त्रस्तम्। लोकापवादान्नोद्विग्नम् । तथा च 'महाश्वेता दुःखिता'
इति निर्दाक्षिण्यया नापेक्षितम् । 'आसन्नवर्ती सग्वीजनोऽप्युपलक्षयति'
इति मन्दया न लक्षितम् । 'पार्वस्थित परिजनः पश्यति' इति
नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युति विभाव-
येयुः, किमुतानुभूतमढनवृत्तान्ता महाश्वेता, सकलकलाकुशलाः