This page has not been fully proofread.

,
 
मभिहितवति तस्मिन्
जहसुरङ्गनाः ।
 
कादम्बरीसंग्रहः ।
 
१०९
 
सर्वास्ताः सह कादम्बर्या क्रीडालापभाविता
 
परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद
 
'धूर्त राजपुत्र,
 
निपुणेयम् । न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि
बुध्यत एवैतावतीर्वक्रोक्ती: । इयमपि जानात्येव परिहासजल्पितानि ।
अस्या अपि राजकुलसंपर्कचतुरा मति: । विरम्यताम् । अभूमिरेषा
भुजंगभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं
च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः' इति ।
 
अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् – 'आयुष्मति,
देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमायतः' इत्येवमभिहिता च
गन्तुकामा 'सखि, चन्द्रापीड: क्वास्ताम्' इति कादम्बरीमपृच्छत् ।
असौ तु 'ननु पर्याप्तमेवानेकस्तीहृदयसहस्रावस्थानमनेन' इति मनसा
विहस्य प्रकाशमवत् - 'सखि महाश्वेते, किं त्वमेवमभिदधासि ।
दर्शनादारभ्य शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य, विभवस्य,
परिजनस्य वा । यत्रास्मै रोचते, प्रियसखीहृदयाय वा, तत्रायमा-
स्ताम्' इति । तच्छ्रुत्वा महाश्वेता 'तदत्रैव त्वत्प्रासादसमीपवर्तिनि
प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम्' इत्यभिधाय, गन्धर्वराजं
द्रष्टुं ययौ ।
 
A
 
चन्द्रापीडोsपि तयैव सह निर्गत्य, विनोदार्थ वीणावादिनीभिश्र
वेणुवाद्यनिपुणाभिश्च सुभाषितपाठिकाभिश्च कादम्बरीसमादिष्टप्रतीहारीप्रे-
षिताभिः कन्याभिरनुगम्यमानः, पूर्वदृष्टेन केयूरफेणोपदिश्यमानमार्गः,