This page has not been fully proofread.

१०८
 
कादम्बरीसंग्रहः ।
 
>
 
स्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता । अद्य चाय-
मनया प्रत्युषसि कादम्बर्यास्ताम्बूलकरङ्कवाहिनी मिमां तमालिकामेका-
किनीं किमपि पाठयन्दृष्टो यतः, ततः प्रभृति, संजातंर्ष्या कोपपं-
राङ्मुखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति, सर्वा-
भिरस्माभिः प्रसाद्यमानापि न प्रसीदति' इति । एतदाकर्ण्य, स्फुट-
स्फुरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत् 'अस्त्येषा
कथा, श्रूयत एवैतद्राजकुले कर्णपरंपरया, परिजनोऽप्येवमामन्त्रयते,
बाहेरपि जनाः कथयन्त्येवम् दिगन्तरेष्वप्ययमालापो वर्तत एव,
अस्माभिरप्येतदाकर्णितमेव; यथा किल देव्याः कादम्बर्यास्ताम्बूल-
वाहिनीं तमालिकां कामयमानः परिहासनामा शुको मदनपरत्रशो
गतान्यपि दिनांनि न वेत्तीति । तदयमास्तां तावद्वामाचार: परित्यक्त-
निजकलत्रो निस्त्रपोऽनया सह । देव्यास्तु कादम्बर्याः कथमेतयुक्तम्-
यन्त्र निवारयतीमां चपलां दुष्टदासीम् । अथवा देव्यापि कथितैव
निःस्नेहता प्रथममेव बराकीमिमां कलिन्दीमीदृशाय दुर्बिनीताय विहं-
गाय प्रयच्छन्त्या । किमिदानीमियं करोतु? यदेतत्सापत्न्यकरणं
नारीणां प्रधानं कोपकारणम्, अग्रणीर्विरागहेतुः परं परिभवस्थानम् ।
इयमेव केवलमतिवीरा, यदनयानंन दौर्भाग्यगरिम्णा जातवैराग्यया
विषं वा नास्वादितम्, अनलो वा नासादितः अनशनं वा नाङ्गी-
कृतम् । न ह्येवं वेधमपरमस्ति योषितां लघिम्न: कारणम् । यदि
चेयमीदृशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति, तदा धिगिमाम् ।
अलमनया, दूरतो वर्जनीयेयमभिभवनिरस्या । क एनां पुनरालाप-
यिष्यति, को वावलोकयिष्यति, को वास्या नाम गृहीष्यति' इत्येव-
}
 
4