This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१०७
 
ताम्बूलदानोद्यतां महाश्वेता तामभाषत- सखि कादम्बरि, संप्रतिपन्न-
मेव सर्वाभिरस्माभिरयमभिनवागतश्चन्द्रापीड आराधनीय: । तदस्मै
तावदीयताम्' इत्युक्ता च किंचिद्विवर्तितावनमितमुखी शनैरव्यक्तमिव
'प्रियसखि, लज्जेऽहमनु पजातपरिचया प्रागल्भ्येनानेन । गृहाण, त्वमे-
वास्मै प्रयच्छ' इत्युवाच सा ताम् । पुनः पुनरभिधीयमाना च
तया कथमपि ग्राम्येव चिराद्दानाभिमुखं मनश्च । महाश्वेतामुखा-
दनाकृष्टदृष्टिरेव साध्वसपरवशा पतामीति लगितुमित्र कृतप्रयत्ना
प्रसारयामांस ताम्बूलगर्भ हस्तपत्रम् । चन्द्रापीडस्तु जयकुञ्जर-
कुम्भस्थलास्फालनसंक्रान्तसिन्दूरमिव स्वभावपाटलं प्रसारितवान्पा-
णिम् । तत्र च सा तेनानिबद्रलक्षशून्यप्रसारितेन हस्तेन स्वेद-
सलिलपातपूर्वकम् 'गृह्यतामयं मन्मथेन दत्तो दासजन:' इत्यात्मान-
मिव प्रतिग्राहयन्ती ताम्बूलमदात् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै
 
-
 
प्रायच्छत् ।
 
अथ सहसैव त्वरितगतिः, त्रिवर्णरागमिन्द्रायुवमिव कुण्डली
कृतं कण्ठेन वहता मन्थरगतेन शुकेनानुबध्यमाना, शारिका सक्रो-
धमवादीत् – 'भर्तृदारिके कादम्बरि, कस्मान्न निवारयस्येनमली-
कसुभगाभिमानिनमतिदुर्विनीतं मामनुबघ्नन्तं विहंगापशदम् । यदि
मामनेन परिभूयमानामुपेक्षसे, ततोऽहं नियतमात्मानमुत्सृजामि । सत्य
शपामि ते पादपङ्कजस्पर्शेन' इत्येवमभिहिता तथा कादम्बरी
स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता 'किमियं वदति' इति
मदलेखां पप्रच्छ। सा चाकथयत् – 'एषा भर्तृदुहितुः सखी काद-
म्बर्या: कालिन्दीति नाम्ना शारिका । इयमस्य च परिहासनाम्नः शुक-
T