This page has not been fully proofread.

१०६
 
कादम्बरीसंग्रहः ।
 
7
 
त्रिमहृदयो विदग्धजनः । यतो दृष्टेममहमित्र त्वमपि निर्माणकौ--
शलं प्रजापते:, नि:सपत्नतां च रूपस्य स्थानाभिनिवेशित्वं च
लक्ष्म्याः, सद्भर्तृतासुखं च पृथिव्याः, सुरलोकातिरिक्ततां च मर्त्यलो-
कस्य, सफलतां च मानुषीलोचनानाम् एकस्थानसमागमं च सर्व-
कलानां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहु-
प्रकारं प्रियसखी । तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुप-
जातपरिचय इत्युत्सृज्यावित्रम्भताम् अविज्ञातशील इत्यपहाय शङ्-
काम्, यथा मयि, तथात्रापि वर्तितव्यम् । एष ते मित्रं च, बान्धवश्च,
परिजनश्च' इत्यावेदिते तया, चन्द्रापीड : प्रणाममकरोत् ।
 
कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निष-
साद । ससंभ्रमं परिजनोपनीतायां च हेमपादाङ्कितायां पीठिकायां
चन्द्रापीड: समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरी -
चित्ताभिप्रायाः संवृतमुखन्यस्त हस्तदत्तशब्दनिवारणसंज्ञा प्रतिहार्य:,
वेणुरवान्वीणाघोषान्गीतध्वनीन्मागधीजयशब्दांश्च सर्वतो निवारयां-
चक्रुः। त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय
महाश्वेतायाश्चरणौ प्रक्षाल्य, उत्तरीयांशुकेनापमृज्य, पुन: पर्यङ्कमारु-
रोह । चन्द्रापीडस्यापि कादम्बर्या: सखी रूपानुरूपा जीवितनिर्विशेषा
सर्ववित्रम्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि प्रक्षालितवती
चरणौ । महाश्वेता तु कर्णाभरणप्रभावर्षिण्यंसदेशे सप्रेभ पणिना
स्पृशन्ती, चामरपवनविधुतिपर्यस्तां चालकवल्लरीमनुष्वजमाना काद-
म्ब्ररीमनामयं पप्रच्छ । सा तु सखीप्रेम्णा गृहनिवासेन कृतापराधेवा-
नामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । मुहूर्तापगमे च
 
W