This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
११५
 
सर्वरमणीयानामेकं धाम । कुत एते रूपातिशयपरमाणवः समासा-
दिताः । तन्नूनमेनामुत्पादयतो विधे: करतलपरामर्शक्लेशेन ये विग-
लिता लोचनयुगलादश्रुबिन्दवः, तेभ्य एतानि जगति कुमुदकमल-
कुघलय सौगन्धिकवनान्युत्पन्नानि' इत्येवं चिन्तयत ण्वास्य तस्या
नयनयुगले निपपात चक्षुः । तदा तस्या अपि 'नूनमयं स
केयूरकेणावेदितः' इति चिन्तयन्त्या रूपातिशय विलोकन विस्मय स्मेरं
निश्चल निबद्धलक्षं चक्षुस्तस्मिन्सुचिरं पपात । दृष्टा च प्रथमं रोमो-
गमः, ततो भूषणरत्रः, तदनु कादम्बरी समुत्तस्थौ । अथ तस्याः
कुसुमायुध एव स्वेदमजनयत् ; ससंभ्रमोत्थानश्रमो व्यपदेशोऽभवत् ।
ऊरुकम्प एव गति रुरोध; नूपुररवाकृष्टहंसमण्डलमपयशोभे ।
निश्वासप्रवृत्तिरेत्रांशुकं चलं चकार ; चामरानिलो निमित्ततां ययौं ।
आनन्द एवाश्रुजलमपातयत् ; चलितकर्णावतंसकुसुमरजो व्याज
आसीत् । लज्जैव वक्तुं न ददौ; मुखकमलपरिमलागतालिबृन्द
द्वारतामगात् ।
 
कादम्बरी 'तु कृच्छादिव दत्तकतिपयपदा महाश्वेतां स्नेहनिर्भरं
चिरदर्शन जातोत्कण्ठां सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतर-
दत्तकण्ठग्रहा तामवादीत् - 'सखि कादम्बरि, भारते वर्षे राजा
रक्षितप्रजापीडस्तारापीडो नाम । तस्यायं निजभुजशिलास्तम्भविश्रा-
न्तविश्वविश्वंभरापीडश्चन्द्रापीडो नाम सुनुर्दिग्विजयप्रसङ्गेनानुगतो भूमि-
मिमाम् । एष च दर्शनात्प्रभृति प्रकृत्या में निष्कारणबन्धुतां गतः ।
परित्यक्तसकलसङ्गनिष्ठुरामपि मे सविशेषैः स्वभावसरलैर्गुणैराकृष्य
चित्तवृत्ति वर्तते । दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमक-

 
-