This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
रतिपरिवादिनीरत्न कोणचारुणा च नासावंशेन गतिप्रसरनिरोधिश्रवण-
कोपादिव किंचिदारक्तापाङ्गेन लोचनयुगलेन च विराजमानाम्, उन्मद-
यौवनकुञ्जरमदराजिभ्यां भ्रूलताभ्यां मनःशिलापङ्कलिखितेन च वदन-
लग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टहेमतालीपट्टाभरण-
मयं कर्णपाशं दोलायमानमरकतमाणिक्यकुण्डलं दधतीम्, पाटली-
कृतललाटेन सीमन्तचुम्बिनचूडामणे: क्षरतांशुजालेन प्रक्षाल्यमान-
दीर्घकेशकलापाम्, रजनिजागर ग्विन्नस्य परिचितचक्रवाक मिथुनस्य
स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिर्बालपुलिनानि कारयन्तीम्,
आत्मसंवर्धितलताप्रथमकुसुम निर्गम निवेदनागतामुद्यानपालीम शेषाभर-
दानेन' संमानयन्तीम्, उपनीत त्रिविधवनकुसुमफलपूर्णपत्रपुटामवि-
ज्ञायमानालापतया हासहेतुं पुनः पुनः क्रीडापर्वतपत्रशबरीमालापय-
न्तीम्, गौरीमित्र श्वेतांशुकरचितोत्तमाङ्गाभरणाम्, दिनमुखलक्ष्मीमिव
भास्वन्मुक्तांशुभिन्नपद्मरागप्रमाधनाम्, कल्पतरुलतामित्र कामफलप्र-
दाम्, पुर: समीपे संमुखोपविष्टम् ' कोऽसौ ? कस्य वापत्यम् ? किम-
मिधानो वा ? कीदृशमस्य रूपम् ? कियद्वा वय: ? किमभिधत्ते भवता
किमभिहित: ? किरिं दृष्टस्त्वया ? कथं चास्य महाश्वेतया सह परि-
चय उपजात : ' किमयमत्रागमिष्यति ?' इति मुहुर्मुहुश्चन्द्रापीडसंबद्धा-
लापं तदूपवर्णनामुखरं केयूरकं पृच्छन्तीं कादम्बरी ददर्श ।
 
,
 
तस्य तु दृष्टकादम्बरीवदन चन्द्रलेखालक्ष्मीकस्य सागरस्येवा-
मृतमुल्लास हृदयम् । आसीञ्चास्य मनसि — 'शेषेन्द्रियाण्यपि मे वेध-
सा किमिति लोचनमयान्येव न कृतानि । कि वानेन कृतमवदातं
कर्म चक्षुषा, यदनिवारितमेनां पश्यति । अहो चित्रमेतदुत्पादितं वेधसा
 
w