This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
Pizz
 
स्तनयुगमञ्जुस्नातं समीपतरवर्ति हृदयशोकाग्नः ।
चरति विमुक्ताहारं व्रतमित्र भवतो रिपुस्त्रीणाम् ॥
राजा तु तां श्रुत्वा संजातविस्मय: 'सहर्षमासन्नवर्तिनम तिवय-
समग्रजन्मानम खिलमन्त्रिमण्डले प्रधानममान्यं कुमारपालितनामानम
ब्रवीत् — श्रुता भवद्भिरस्य विहंगमस्य स्पष्टता वर्णोच्चारणे, स्वरे च
मधुरता ? प्रथमं ताबदिदमेव महदाश्चर्यम्, यदयमसकीर्णवर्णप्रविभागा-
मभिव्यक्तमात्रानुस्वारसंन्कारयोगा विशेषसंयुक्तां परिस्फुटाक्षरा गिरसुदीर-
यति । तत्र पुनरपरम् अभिमतविषये तिरश्रोऽपि मनुजस्येव संस्कार-
तो बुद्धिपूर्वा प्रवृत्ति । तथा हि - अनेन समुत्क्षिप्तदक्षिणचरणेनाकार्य
जयशब्दमियमार्या मामुद्दिश्यानिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः
पशवश्च भयाहारनिद्रासंज्ञामानवेदिनां भवन्ति । इदं तु महञ्चित्रम्'
इत्युक्तवति मूभुजि कुमारपाचित: किचित्स्मितवदनो नृपमवादीत्-
'देव, किमत्र चित्रम् । एते हि गुफशारिकाप्रभृतयो विहंगम विशेषा
यथाश्रुता वाचमुकारयन्तीत्यधिगतमेव देवेन । तत्राप्यन्यजन्मोपात्तसं-
स्फारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति
नातिचित्रम् । अन्यत् - एतेषामपि पुरा पुरुषाणा मित्रातिपरिस्फुटाभि-
वाना वागासीत् । अग्निशापात्वपरिस्फुटालापता शुकानामुपजाता,
करणाच जिह्वापरिवृत्तिः' इति । एवमुचारयत्येव तस्मिन्नशिशिरकिर-
णुमम्बरतलस्य मध्यमारूढ मावेदयाडिकाच्छेदमहतपटुपटहनादानसारी
मथ्याङ्कुशङ्खध्वनिरुदतिष्ठत् । तमाफर्ण्य च समासन्नस्नानसमयो
विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ ।
 
अथ चलति महीपतावन्योन्यमतिर मससंचलनचालिताङ्गदुपु-
43
 
44