This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१०३
 
नेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत् ।
तेन चान्तर्निपतितमाभरणकिरणालोकं संपिण्डितं नदीवेणिकाजलप्र-
वाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतिहारी-
मण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श ।
 
तत्र च मध्यभाग, पर्यन्तरचितमण्डलोपविष्टेन चानेकसहस्रसं-
ख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृ-
ताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नातिमहतः पर्यङ्कस्योपाश्रये धव-
लोपधानन्यस्त द्विगुणभुजलतावष्टम्भेनावस्थिताम्, निपतितप्रतिबिम्ब-
तयाधस्तान्मणिकुमेषु नागैरिवापहियमाणाम् उपान्ते च रत्नभित्तिपु
दिक्पालैरिव नीयमानाम् उपरि मणिमण्डपेष्वमरैरिवोत्क्षिप्यमाणाम्,
अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, पादाभरणरत्नांशुलेखा संदेहदायि-
नीभिरतिकोमलतया नखविवरेण वमन्तीभिरिव रुधिरधारावर्षमगु-
लिभिरुपेताभ्यां विमरसनदीमित्र चरणाभ्यां प्रवर्तयन्तीम्, प्रजापति -
करदृढ निष्पीडितमध्यभागगलितं जघनशिलातलप्रतिघाताल्लावण्यजल-
स्रोत इव द्विधागतमूरुद्वयं दधानाम्, सर्वतः प्रसारितदीर्घमयूखमण्ड-
लेनेर्ष्यया परपुरुपदर्शनमिव निरुन्धता काञ्चीदाम्ना, नितम्बबिम्बस्य
विरचितपरिवेषाम्, प्रजापते: स्पृशत: सौकुमार्यादङ्गुलिमुद्रामिव
निमग्नां नाभिमण्डलीमावर्तिनीमुद्वहन्तीम्, नखकिरणविसरवर्षिणा च
माणिक्यवलयगौरवश्रमवशात्स्वेदजलधाराजालकमिव मुञ्चता करयुगलेन
समुद्भासिताम् अभिनवयौवनपवनक्षोभितस्य रागसागरस्य तरङ्गा-
भ्यामित्रोद्गताभ्यां विद्रुमलतालोहिताभ्यामवराभ्यां रक्तावदात स्वच्छ-
कान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन
 
3
 
."