कादम्बरीसङ्ग्रहः /108
This page has not been fully proofread.
१०२
कादम्बरीसंग्रहः ।
समागमा: । परसुखोपपादनपराधीनश्च भवादृशां गुणोदय:' इत्युक्तवतीं
च चन्द्रापीड: 'भगवति, दर्शनात्प्रभृति परवानयं जनः । कर्तव्येषु
यथेष्टमशङ्किततया नियुज्यताम्' इत्यभिधाय तया सहैवोदचलत् ।
क्रमेण च गत्वा हेमकूटम्, आसाद्य गन्धर्वराजकुलम्, समतीय
काञ्चन तोरणानि सप्त कक्षान्तराणि, कन्यान्तः पुरद्वारमवाप । महाश्वेता-
दर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन प्रतीहारज-
नेनोपदिश्यमानमार्गः प्रविश्य, असंख्येयनारीशतसहस्रसंबाधम्, इय-
त्तां ग्रहीतुमेकत्र त्रैलोक्यस्त्रैणमित्र संहतम्, अपुरुषमिव सर्गान्तरम्,
अनेककल्पकल्पनार्थमुत्पाद्यस्थापितमिवाङ्गनाकोशम्, शृङ्गारमयमिव
सौन्दर्यमयमित्र कुतूहलमयमिव कुमार कुमारीपुराभ्यन्तरं ददर्श ।
यत्र च कन्यकाजनस्य लोचनान्येव कर्णोत्पलानि, निःश्वासा
एवाधिवासगन्धयुक्तयः, आलापा एव तन्त्रीनिनादा, करतलान्येव
लीलाकमलानि, निजदेहप्रभैवांशुकावगुण्ठनम्, कोमलाङ्गुलिराम एव
चरणालक्तकरसः । यत्र चालक्तकरसोऽपि चरणातिभार: अवतंस-
कुसुमधारणमपि श्रमः, सखीदर्शनेष्वकृतहस्तावलम्बनमुत्थानम् अति-
साहसम्, कुसुमावचयेषु द्वितीयकुसुमग्रहणमध्ययुवतिजनोचितम्,
कन्यकाविज्ञानेषु माल्यग्रधनम् असुकुमारजनव्यापारः ।
तस्य चैवंविधस्य किंचिदभ्यन्तरमतिक्रम्य, इतश्चेतश्च परिभ्रमतः
कादम्बरीप्रत्यासन्नस्य परिजनस्य तांस्तानतिमनोहरानालापान् शृण्व-
नेव, कादम्बरीभवनसमीपमुपययौ
9
।
पुलिनायमानमुपवनलतागलितकुसुमरेणुपटलैः काञ्चनद्वीपा-
,
यमानं चम्पकदलोपहारै:, सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीज-
-