This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१०१
 
,
 
भर्तृविरह विधुरा तीव्रव्रतकर्शिताङ्गी प्रियसखी महत्कृच्छ्रमनुभवति, तत्रा-
हमवगणय्यैतत् कथमात्मसुखार्थिनी पाणि ग्राहयिष्यामि । कथं वा
मम सुखं भविष्यति । त्वत्प्रेम्णा चास्मिन्वस्तुनि मया कुमारिकाजन-
विरुद्धं स्वातन्त्र्यमालम्ब्य, अङ्गीकृतमयशः, समवधीरितो विनय:, गुरु-
वचनमतिक्रान्तम्, न गणितो लोकापवाद: वनिताजनस्य सहजमा-
भरणमुत्सृष्टा लज्जा । सा, कथय, कथमिव पुनरत्र प्रवर्तते । तदयम-
अलिरुपरचितः, प्रणामोऽयम्, इदं च पादग्रहणम् । अनुगृहाण माम्,
वनमितो गतासि मे जीवितेन सह । मा कृथा: स्वप्नेऽपि पुनरिमम
मनसि' इत्यभिधाय तूष्णीमभूत् ।
 
,
 
महाश्वेता तु तन्छ्रुत्वा, सुचिरं विचार्य, 'गच्छ, स्वयमेवाहमा -
गत्य यथार्हमाचरिष्यामि' इत्युक्त्वा केयूरकं प्राहिणोत् । गते च
केयूरके, चन्द्रापीडमुवाच – 'राजपुत्र, रमणीयो हेमकूट: । चित्रा
च चित्ररथराजधानी । बहुकुतूहल: किंपुरुषविषय: । पेशलो गन्धर्व-
लोकः । सरलहृदया महानुभावा च कादम्बरी । यदि नातिखेदकर-
मित्र गमनं कलयसि, नावमीदति वा गुरु प्रयोजनम्, अदृष्टचरवि-
पयकुतूहलि वा चेतः, मद्वचनमनुरुध्यते वा भवान्, ततो नार्हसि
निष्फलां कर्तुमभ्यर्थनामिमाम् । इतो मयैव सह गत्वा हेमकूटमति-
रमणीयतानिधानम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्, अपनीय
तस्याः कुमतिमनोमोहविलसितम्, एकमहो विश्रम्य, श्वोभूते प्रत्याग -
मिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभा-
राक्रान्तेन महत: कालादुच्छ्रसितमिव चेतसा । श्रावयित्वा स्ववृत्ता-
न्तमिमं सह्यतामित्र गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जन-