This page has not been fully proofread.

१००
 
कादम्बरीसंग्रहः ।
 
दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तदस्मद्वचनम्"
इति । अथ सा तरलिका विनयावनतमौलि:, ईपदालम्चितकर्णपाशम्,
अतिमधुरया गिरा व्यजिज्ञपत् - 'भर्तदारिके, दृष्टा खलु मया भर्तृदा -
रिका कादम्बरी । सर्वत: कुशलिनी । विज्ञापिता च निखिलं भर्तदु-
हितुः संदेशम्। आकर्ण्य च यत्तया संततमुक्त स्थूला श्रुविन्दुवर्षे रुदित्वा
प्रतिसंदिष्टम्, तदेष तयैव विसर्जितः, तस्या एव वीणावाहक: केयू-
रकः कथयिष्यति' इत्युक्त्वा विरराम । विरतवचसि तस्यां केयूरको
ऽब्रवीत्—'भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढदत्तकण्ठग्रहा त्वा
विज्ञापयति — यदियमागत्य मामवदत्तरलिका, तत्कथय, किमयं गुरु-
जनवचनानुरोध:, किमिदं मच्चित्तपरीक्षणम्, कि गृहनिवासापराध-
निपुणोपालम्भः, किं प्रेमविच्छेदाभिलाष:, कि भक्तजनपरित्यागोपाय:,
किं वा प्रकोपः । जानास्येव मे सहजप्रेमनिस्यन्दनिर्भरं हृदयम् । एव
मतिनिष्ठुरं संदिशन्ती कथमसि न लजिता । तथा मधुरभाषिणी
केनासि शिक्षिता वक्तुमप्रियम् । स्वस्थोऽपि तावत्क इव सहृदय: कनी-
यस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत् । किमुतातिदुःखाभिहत-
हृदयोऽस्मद्विधो जनः। सुहृद्दुःखखेदिते हि मनसि कैव सुखाशा, कैव
निर्वृतिः, कीदृशा भोगाः, कानि वा हसितानि । येनेदृशीं दशामुप-
नीता प्रियसखी, कथमतिदारुणं तमहं विपमिवाप्रियकारिणं कामं
सकामं कुर्याम् । दिवसकरास्तमयविधुरासु नलिनीपु सहवासपरिचया-
चक्रवाकयुवतिरपि पतिसमागमसुखानि परित्यजति । किमुत नार्यः ।
अपि च, यत्र भर्तृविरहविधुरा परिहृतपरपुरुषदर्शना दिवानिशं निव-
सति प्रियसली, पाथमित्र तन्नम दुश्वमपर प्रविशेजनः । यत्र च