This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
तम् । इदानीं तु कादम्बरीमनुनेतुं त्वं शरणम्' इति संदिश्य मत्समी-
पमचैत्र प्रत्युषसि प्रेषितवान् । ततो मया गुरुवचनगौरवेण सखीप्रेम्णा
च क्षीरोदेन सार्वे सा तरलिका 'सखि कादम्बर, किं दुःखितमपि
जनमतितरां दुःखयसि । जीवन्तीमिच्छसि चेन्माम्, तत्कुरु गुरुवच-
नमवितथम्' इति संदिश्य विसर्जिता । नातिचिरं गतायां च तस्याम्,
अनन्तरमैत्रेमां भूमिमनुप्राप्तो महाभाग : " इत्यभिधाय तूष्णीमभवत् ।
 
,
 
अत्रान्तरे लाञ्छनच्छलेन विडम्बयन्निव शोकानलदग्धमध्ये
महाश्वेताहृदयम्, उद्हन्नित्र कुमारवधमहापातकम्, उदगात्तारका-
राजः । क्रमेण चोद्गते शशाङ्कमण्डले चन्द्रापीड: सुप्तामालोक्य
महाश्वेताम्, पलत्रशयने शनैः शनैः समुपाविशत् । 'अस्यां वेलायां
किं नु खलु मामन्तरेण चिन्तयति वैशम्पायन:, किं वा वराकी पत्र-
लेखा, किंवा राजपुत्रलोकः' इति चिन्तयन्नेत्र निद्रां ययौ ।
 
ww
 
अथ क्षीणायां क्षपायाम् उषसि मंध्यामुपास्य शिलातलोपवि-
टायां पवित्राण्यवमर्पणानि जपन्त्यां महाश्वेतायाम् निर्वर्तितप्राभाति-
कविधौ चन्द्रापीडे, तरलिका षोडशवर्षत्रयसा सावष्टम्भाकृतिना गन्ध-
वेदारकेण केयूरकनाम्नानुगम्यमाना प्रत्युपस्येव प्रादुरासीत् । आगत्य च
'कोऽयम्' इत्युपजातकुतूहला चन्द्रापीडं मुचिरमालोक्य, महाश्वेताया:
समीपमुपसृत्य कृतप्रणामा सविनयमुपात्रिशत् । अनन्तरं चातिदू-
रानतेनोत्तमाङ्गेन प्रणम्य, केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमी-
पवर्ति शिलातलं भेजे। समुपविष्टश्च तत्र तमदृष्टपूर्वी रूपातिशयं
चन्द्रपीडस्य दृष्टा विस्मयमापदे ।
 
परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरटिकाम् - 'किं त्वया