कादम्बरीसङ्ग्रहः /104
This page has not been fully proofread.
९८
कादम्बरीसंग्रहः ।
पुनः पुनस्तमेव मनसा महाश्वेतावृत्तान्तमन्वभावयत् । पुन: पप्रच्छ
चैनाम् – 'भगवति, सा तव परिचारिका वनवासव्यसनमित्रं दुःख-
सब्रह्मचारिणी तरलिका क्व गता' इति ।
अथ साकथयत्-
"महाभाग, यत्तन्मया कथितममृतसंभव-
मप्सरसां कुलम्, तस्मान्मदिरेति नाम्ना मदिरायतेक्षणा कन्यकाभूत् ।
तस्याश्चासौ देवश्चित्ररथः पाणिमग्रहीत् । तयोश्च दुहितरत्नमुदपादि
कादम्बरीति नाम्ना । सा च मे जन्मनः प्रभृति एकासनशयनपाना-
शना परं प्रेमस्थानमखिलविस्त्रम्भधाम द्वितीयमिव हृदयं बालमित्रम् ।
एकत्र तया मया च नृत्यगीतादिकलासु कृताः परिचया: । शिशु-
जनोचिताभिश्च क्रीडाभिर नियन्त्रण निर्भरमपनीतो बालभावः । सा
चामुनैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत्
'नाहं कथंचिदपि सशोकायां महाश्वेतायाम्, आत्मनः पाणि ग्राहयि-
ष्यामि' इति । सखीजनस्य पुरत: सशपथमभिहितवती च
कथमपि मामनिच्छन्तीमपि बलात्तात: कदाचित्कस्मैचिद्दातुमिच्छति,
तदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मा-
नमुत्स्रक्ष्यामि' इति । सर्वे च तदात्मदुहितुर्निश्चलभाषितं कर्णपरं-
परया गन्धर्वराजश्चित्ररथः स्वयमशृणोत् । गच्छति काले, समुपा-
रूढ निर्भरयौवनामालोक्य स तामू बलवदुपतापपरवश: क्षणमपि न
धृतिमलभत । एकापत्यतया च अतिप्रियतया च न शक्त: किंचिदपि
तामभिधातुम् अपश्यंश्चान्यदुपायान्तरम्, 'इदमत्र प्राप्तकालम्' इति
मत्वा, तया महादेव्या मदिरया सहावचार्य, क्षीरोदनामानं कबुकिनम्
'वत्से महाश्वेत, त्वद्व्यतिरेकेणैव दग्धहृदयानामिदमपरमस्माकमुपस्थि-
'यदि
:
3