This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
मिदमवगन्तव्यं भगवत्या । चिरप्रवृत्त एष पन्थाः । तथा हि —
अर्जुनमश्वमेधतुरगानुसारिणम्, आत्मजेन बभ्रुवाहननाम्ना समरशिरसि
शरापहृतप्राणम्, उलूपी नाम नागकन्यका सोच्छामकरोत् । अभि-
मन्युतनयं च परीक्षितमश्वत्थामास्त्रपावक परिप्लुष्टम्, उदरादुपरतमेव
निर्गतम्, उत्तराप्रलापोपजनितकृपो भगवान्वासुदेवो दुर्लभानसून्प्रापि-
तवान् । अत्रापि कथंचिदेवमेव भविष्यति । तथापि कि क्रियते । क
उपालभ्यते । प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आत्मे-
च्छया न शक्यमुच्छ्रसितुमपि । अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य
दैवहतकस्य विलसितानि न क्षमन्ते दीर्घकालमव्याजरमणीयं प्रेम ।
प्रायेण च निसर्गत एवानायतस्वभावभगुराणि सुखानि । आयत-
स्वभावानि च दुःखानि । तथा हि — कथमप्येकस्मिञ्जन्मनि समा-
गमः, जन्मान्तरसहस्राणि च विरहः प्राणिनाम् । अतो नार्हस्य-
निन्द्यमात्मानं निन्दितुम् । आपतन्ति हि संसारपथमतिगहनमवती-
र्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम्' इत्येवंविधैरन्यैश्च मृदु-
भिरुपसान्त्वनैः संस्थाप्य ताम्, पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेन
अनिच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत् ।
 
-
 
अत्रान्तरे च श्रुतमहाश्वेतांवृत्तान्तोपजातशोक इव समुत्सृष्ट-
दिवसव्यापारो रविरपि भगवानधोमुखतामयासीत् । अथ क्षीणे
दिवसे, महाश्वेता मन्दं मन्दमुत्थाय, भगवतीमुपास्य पश्चिमां संध्याम्,
कमण्डलुजलेन प्रक्षालितचरणा, वल्कलशयनीये सखेदमुष्णं च नि:-
श्वस्य निषसाद । चन्द्रापीडोऽप्युत्थाय कृतसंध्याप्रणाम:, तस्मिद्वितीय
शिलातले मृदुभिर्लतापलवैः शय्यामकर पयत्। उपविष्टश्च तस्याम्
 
,