कादम्बरीसङ्ग्रहः /100
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
w
स्यति । तेन तत्प्रत्यागमनकालावधयोऽपि तावद्भियन्ताममी प्राणा: "
इत्यभिदधाना पादयोमें न्यपतत् । अहं तु सकललोकदुर्लङ्घतया
जीविततृष्णायाः, क्षुद्रतया च स्त्रीस्वभावस्य, तया च तद्वचनोपनी-
तया दुराशामृगतृष्णिकया, कपिञ्जलप्रत्यागमनकाङ्क्षया च, तस्मि-
न्काले तदेव युक्तं मन्यमाना, नोत्सृष्टवती जीवितम् । आशया हि
किमिव न क्रियते । तां च पापकारिणीं कालरात्रिप्रतिमां वर्षसहस्रा-
यमाणां नरकमयी मित्राग्निमयीमिव उत्सन्ननिद्रा, तथैव क्षितितले विचे-
टमाना, तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपां क्षपितवती ।
,
cl
प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा, कृतनिश्चया, तत्प्री-
त्या तमेव कमण्डलुमादाय, तान्येव च वल्कलानि तामेव चाक्षमालां
गृहीत्वा, बुद्धा निःसारतां संसारस्य दृष्ट्वा च निष्ठुरतां दैवस्य,
चिन्तयित्वा चातिबहुलदुःखतां स्नेहस्य, अवधार्य चाकाण्डभगुरतां
सर्वसुखानाम्, अविगणय्य तातमम्बां च, परित्यज्य सह परिजनेन
सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि,
गृहीतब्रह्मचर्या, तस्य जनस्याश्रमोक्षमात्रेण किल कृतज्ञतां दर्श-
यन्ती, तदनुरागकुशमिदमपुण्यबहुलमस्त मितलजममङ्गलभूतमनेकक्ले-
शायाससहस्रनिवासं दग्धशरीरकं बहुविधैर्नियमशतैः शोषयन्ती,
वन्यैश्च फलमूलवारिभिर्वर्तमाना, त्रिसंध्यमत्र सरसि स्नानमुपस्पृशन्ती
शरणार्थिनी प्रतिदिनमर्चयन्ती देवमनाथशरणं त्र्यम्बकम् अस्यामेव
गुहायां तरटिकया सह दीर्घशोकमनुभवन्ती चिरमवसम् । साहमेवं-
विधा पापकारिणी, निर्लक्षणा, निर्लज्जा, निःस्नेहा च, नृशंसा च, गर्ह-
शीया, निष्प्रयोजनोत्पन्ना, निष्फलजीविता, निरवलम्बना, निःसुखा