2023-10-24 12:32:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[ कथामुखे -:
 
लाक्षालोहितकौशेयपरिधानम्
 
अकारणेऽपि
 
मालानस्तम्भयुगलमुपहसन्तमिवोरुदण्डद्वयेन,
लाक्षालोहितकौशेय-परिधानम्, अकारणेऽपि [^१]क्रूरतया बद्ध [^२]त्रिपताकोदग्र- भ्रुकुटिकराले
 
ललाटफै [^३]फलके प्रबलभक्त्याराधितया मस्पत्प- रिग्रहोऽय-
मिति कात्यायन्या त्रिशूलेनेवाङ्कितम्, उपजातपरिचयै- रनुगच्छद्भिः श्रमवशाद्दूरविनिर्गताभिः
स्वभावपाटलतया शुष्काभिरपि हरिणशोणितमिव क्षरन्तीभिर्जिह्वाभिरावेद्यमान- खेदैर्विवृत-
मुखतया स्पष्टदृष्टद् [^५]दन्तांशून्दंष्ट्रान्तराललग्नकेसरि- [^६]सटानिव सृक्कभागानुद्वहद्भिः स्थूलवराटकमा-
लिकापरिगत- कण्ठै- र्महावराहदंष्ट्रा प्रहारजर्जरैरल्पकायैरपि महाशक्तित्वादनुप- जात केसरैरिव
केसरिकिँ [^७]किशोरकैर्मृगवधू [^८]वैधव्यदीक्षादा- नदक्षैरनेकवर्णैः श्वभिरतिप्रमाणाभिश्च केसरिणामभयप्र
 
६६
 
."
 
कादम्बरी ।
 

 

 

 
[ टि ]--
श्रमस्तनात्राभ्यासः पुनः पुनः करणं तस्मादुल्लिखितं [^1]चिह्नितेमुदरं यस्य स तम् । इभेति । ऊर्वोर्यद्दण्डद्वयं

तेनेभो गजस्तस्य मदो दानवारि तेन मलिनं श्याममालानं गजबन्धनस्तम्भस्तयोर्युगलं द्वन्द्वमुपहसन्तमिव
तिरस्कुर्वन्तमिव । लाक्षेति । लाक्षया जतुना लोहितं रक्तीकृतं यत्कौशेयं कृमिकोशोत्थं तदेव परिधानम-
धोंशुकं यस्य स तथा तम् । अकारेति । अकारणेऽपि क्रोधाभावेऽपि क्रूरतया दुष्टतयां बद्धा त्रिपताका त्रिवलि-
र्ययैवंभूता या भ्रुकुटिर्भृकुटिस्तया कृत्वा कराले विकराले ललाटफलकेऽलिकपट्टे प्रबलभक्त्याराधितयात्युत्कृष्टभ-

क्तिवशीकृतया कात्यायन्या भवान्या मत्परिग्रहोऽयमिति मदीयोऽयमिति त्रिशूलेन शस्त्रविशेषेणाङ्कितमिव
चिह्नितमिव । श्वभिरिति । श्वभिः श्वानैरनुगम्यमानमनुव्रज्यमानम् । शुनो विशेषयन्नाह - उपेति । उप-
जातः समुत्पन्नः परिचयः सांगत्यं यैस्ते तथा तैः । अन्विति । अनु पश्चात् गच्छद्भिः गामिभिः । आवे-
द्येति । आवेद्यमानोऽन्येभ्यो ज्ञाप्यमानः खेदो विषण्णता यैः । काभिः जिह्वाभी रसनाभिः । एता विशि-
नष्टि – श्रमेति । श्रमवशात्खेदमाहा- त्म्यान्मुखाद्दूरं विनिर्गताभिर्निःसृताभिः । स्वभावेति । स्वभावो जाति-
स्वभावस्तेन पाटलतया श्वेतरक्ततया शुष्काभिरपि निर्लेपाभिरपि हरिणशोणितं मृगरुधिरं क्षरन्तीभिरिव

स्रुवन्तीभिरिव । किं कुर्वद्भिस्तैः । विवृतेति । विवृतं विदीर्णं यन्मुखं तस्य भावस्तत्ता तया सृक्कभागा-
नौ
नोष्ठप्रान्तदेशान् । 'दन्तवस्त्रं चं तत्प्रान्तौ सृक्किणी' इति कोशः । उद्वहद्भिरुत्प्राबल्येन वहमानैः । तान्विशेषय-
न्नाह – स्पष्टमिति । स्पष्टं प्रकटं दृष्टा अवलोकिता दन्तांशवो दशनत्विषो येषु ते तथा तान् । कामिव ।
दंष्ट्रान्तराले दाढामध्ये लग्ना या केसरिसटा सिंहस्कै [^2]स्कन्धकेसरा तामिव । स्थूलेति । स्थूला स्थविष्ठा ये वराटकाः
कपर्दकास्तेषां मालिका मालास्ताभिः परिगतः सहितः कण्ठो येषां ते तथा तैः । महेति । महावराहा वनक्रो-
डास्तेषां दंष्ट्रा दाढास्तासां प्रहारा अभिघातास्तैर्जर्जरैः शिथिलाङ्गैः । अल्पेति । अल्पकायैः स्ल्प- शरीरैरपि
महाशक्तित्वात्प्रौढपराक्रमत्वादनुपजात केसरै- रनुत्पन्नसटैः केशरिकिशोरकैरिव सिंहशावकैरिव । मृगेति । मृगव-
धूनां हरिणपत्नीनां यद्वैधव्यदीक्षादानं विगतभर्तृकात्वव्रतदानं तत्र दक्षैर्निपुणैः । अनेकेति । अनेके बहवो
वर्णा रक्तपीतादयो येषु ते तथा तैः पुनः काभिः । अतीति । अतिप्रमाणाभिः प्रचण्डाभिः केसरिणां
सिंहानामभयप्रदानं जीवरक्षणं तस्य याचना प्रार्थना तदर्थं आगताभिः प्राप्ताभिः सिंहीभिरिव कौलेयककुटु-
टिप्प० –

 
 
[^
1]F. कृशत्वेन उल्लेखयोग्यीकृतं कृशमित्यर्थः ।
[^
2]F. कीदृशान् सुलसृक्कभागान् ? येषु दुन्तांशवः
स्पष्टं हृददृश्यमानाः सन्ति । अत एव ते ईदृशाः प्रतीयन्ते यथा एषां दंष्ट्रान्तरादे कले केसरिणः सदैटैव लग्ना
भवेत् । दन्तकिरणेषु लग्नायाः केसरसटाया उत्प्रेक्षेत्याशयः ॥
 
VI
 
पाठा० -

 
 
[^
]G. क्रूरजातितया ..
[^
]G. त्रिपताकाग्रञ्जुभ्रुकुटि .
[^
]G. पट्टे.
[^
]G. दर.
[^
]G. दृष्टदष्टांशुभ्शून्दन्तान्तराल .
[^
][G. सटानिव..

[^
]G. किशोरैः.
[^
]G. वैषण्धव्यदान.