कादम्बरी /99
This page has not been fully proofread.
[ कथामुखे -:
लाक्षालोहितकौशेयपरिधानम्
अकारणेऽपि
मालानस्तम्भयुगलमुपहसन्तमिवोरुदण्डद्वयेन,
क्रूरतया बद्धत्रिपताकोदभ्रुकुटिकराले
ललाटफैलके प्रबलभक्त्याराधितया मस्परिग्रहोऽय-
मिति कात्यायन्या त्रिशूलेनेवाङ्कितम् उपजातपरिचयैरनुगच्छद्भिः श्रमवशारविनिर्गताभिः
स्वभावपाटलतया शुष्काभिरपि हरिणशोणितमिव क्षरन्तीभिर्जिह्वाभिरावेद्यमान खेदैर्विवृत-
मुखतया स्पष्टदृष्टद्न्तांशून्दंष्ट्रान्तराललग्नकेसरिसटानिव सृक्कभागानुद्वहद्भिः स्थूलवराटकमा-
लिकापरिगतकण्ठैर्महावराहदंष्ट्रा प्रहारजर्जरैरल्पकायैरपि महाशक्तित्वादनुपजातकेसरैरिव
केसरिकिँशोरकैर्मृगवधूवैधव्यदीक्षादानदक्षैरनेकवर्णैःश्वभिरतिप्रमाणाभिश्च केसरिणामभयप्र
६६
."
कादम्बरी ।
१
।
श्रमस्तनाभ्यासः पुनः पुनः करणं तस्मादुल्लिखितं चिह्नितेमुदरं यस्य स तम् । इभेति । ऊर्वोर्यद्दण्डद्वयं
तेनेभो गजस्तस्य मदो दानवारि तेन मलिनं याममालानं गजबन्धनस्तम्भस्तयोर्युगलं द्वन्द्वमुपहसन्तमिव
तिरस्कुर्वन्तमिव । लाक्षेति । लाक्षया जतुना लोहितं रक्तीकृतं यत्कौशेयं कृमिकोशोत्थं तदेव परिधानम-
धशुकं यस्य स तथा तम् । अकारेति । अकारणेऽपि क्रोधाभावेऽपि क्रूरतया दुष्टतयां बद्धा त्रिपताका त्रिवलि-
र्ययैवंभूता या भ्रुकुटिर्भृकुटिस्तया कृत्वा कराले विकराले ललाटफलकेऽलिकपट्टे प्रबलभक्त्याराधितयात्युत्कृष्टभ-
क्तिवशीकृतया कात्यायन्या भवान्या मत्परिग्रहोऽयमिति मदीयोऽयमिति त्रिशूलेन शस्त्रविशेषेणाङ्कितमिव
चिह्नितमिव । श्वभिरिति । श्वभिः श्वानैरनुगम्यमानमनुव्रज्यमानम् । शुनो विशेषयन्नाह - उपेति । उप-
जातः समुत्पन्नः परिचयः सांगत्यं यैस्ते तथा तैः । अन्विति । अनु पश्चात् गच्छद्भिः गामिभिः । आवे-
द्येति । आवेद्यमानोऽन्येभ्यो ज्ञाप्यमानः खेदो विषण्णता यैः । काभिः जिह्वाभी रसनाभिः । एता विशि-
नष्टि – श्रमेति । श्रमवशात्खेदमाहात्म्यान्मुखाद्दूरं विनिर्गताभिर्निःसृताभिः । स्वभावेति । स्वभावो जाति-
स्वभावस्तेन पाटलतया श्वेतरक्ततया शुष्काभिरपि निर्लेपाभिरपि हरिणशोणितं मृगरुधिरं क्षरन्तीभिरिव
स्रुवन्तीभिरिव । किं कुर्वद्भिस्तैः । विवृतेति । विवृतं विदीर्ण यन्मुखं तस्य भावस्तत्ता तया सक्कभागा-
नौष्ठप्रान्तदेशान् । 'दन्तवस्त्रं चं तत्प्रान्तौ सक्किणी' इति कोशः । उद्वहद्भिरुत्प्राबल्येन वहमानैः । तान्विशेषय-
नाह – स्पष्टमिति । स्पष्टं प्रकटं दृष्टा अवलोकिता दन्तांशवो दशनत्विषो येषु ते तथा तान् । कामिव ।
दंष्ट्रान्तराले दाढामध्ये लग्ना या केसरिसटा सिंहस्कैन्धकेसरा तामिव । स्थूलेति । स्थूला स्थविष्ठा ये वराटकाः
कपर्दकास्तेषां मालिका मालास्ताभिः परिगतः सहितः कण्ठो येषां ते तथा तैः । महेति । महावराहा वनक्रो-
डास्तेषां दंष्ट्रा दाढास्तासां प्रहारा अभिघातास्तैर्जर्जरैः शिथिलाङ्गैः । अल्पेति । अल्पकायैः स्खल्पशरीरैरपि
महाशक्तित्वात्प्रौढपराक्रमत्वादनुपजात केसरैरनुत्पन्नसटैः केशरिकिशोरकैरिव सिंहशावकैरिव । मृगेति । मृगव-
धूनां हरिणपत्नीनां यद्वैधव्यदीक्षादानं विगतभर्तृकात्वव्रतदानं तत्र दक्षैर्निपुणैः । अनेकेति । अनेके बहवो
वर्णा रक्तपीतादयो येषु ते तथा तैः पुनः काभिः । अतीति । अतिप्रमाणाभिः प्रचण्डाभिः केसरिणां
सिंहानामभयप्रदानं जीवरक्षणं तस्य याचना प्रार्थना तदर्थ आगताभिः प्राप्ताभिः सिंहीभिरिव कौलेयककुटु-
टिप्प० – 1 कृशत्वेन उल्लेखयोग्यीकृतं कृशमित्यर्थः । 2 कीडशान् सुलभागान् ? येषु दुन्तांशवः
स्पष्टं हृदयमानाः सन्ति । अत एव ते ईडशाः प्रतीयन्ते यथा एषां दंष्ट्रान्तरादे कसरिणः सदैव लग्ना
भवेत् । दन्तकिरणेषु लग्नायाः केसरसटाया उत्प्रेक्षेत्याशयः ॥
VI
पाठा० -१ क्रूरजातितया २ त्रिपताकाग्रञ्जुकुटि ३ प ४ दर. ५ दृष्टदष्टांशुभ्दन्तान्तराल ६ सटानिव..
७ किशोरैः. ८ वैषण्यदान.