2023-10-23 12:26:51 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६४
 
कांदम्बरी ।
 
[ कथामुखे-
,
 
मध्ये च तस्य [^१]महतः शबरसैन्यस्य प्रथमे वयसि वर्तमानम्, अतिकर्कश [^२]त्वादायसमय-
मिव निर्मितम्, एकलव्यमिव जन्मान्तर [^३]गतम्, उद्भिद्यमानश्मथुश्रुराजितया प्रथममदलेखा-

मण्ड्यमानगण्डमिभित्तिमिव गजयूथपति [^४]कुमारकम्, असितकुवलयै [^५]लयश्यामलेन देहप्रभाप्रवाहेण
कालिन्द्रीदी लेनेव र्[^६]पूरितारण्यम्, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तलभारेण केसरिणमित्र
गजमदम लिनीकृतेन केसरकलापेनोपेतम्, आयत [^७]ललाटम्, [^८]अतितुङ्गघोरघोणम्, उपनीतस्यैककर्णा-
ककर्णा
भरणतां [^९]भुजगफणामँ [^१०]मणेरापाटलैरंशुभिरालोहिती- कृतेन पर्णशयनाभ्यासाल्लग्नपल्लव
रागे-
णे वामपार्श्वेन विराजमानम्, अचिरप्र [^११]तंगजकपोलगृहीतेन सप्तच्छद- परिमलवाहिना
[^१२]कृष्णागरुपङ्केनेव सुरभिणा मदेन कृताङ्गरागम्, [^१३]उपरि तत्परिमलान्धेन [^१४]भ्रमता मौ[^१५]मायूरपिच्छा-

 
1
 

 
[ टि ]--
मध्ये चेति । तस्य पूर्वव्यावर्णितस्य महतः शबरसैन्यस्य भिल्लबलस्य मध्ये मातङ्गनामानं शबरसेनापतिमपश्य-
पतिमपश्य
मद्राक्षमित्यन्वयः । तमेव विशेषयन्नाह– प्रथमे इति । अत्र प्राथम्यमापेक्षिकम् । तेन
वार्धकापेक्षया प्रथमं वयस्तत्र वर्तमानम् । अंतिकर्कशत्वादतिकठिनत्वादायसमयमिव लोहमयमिव निर्मितं

रचितम् । कमिव । एकेति । एकलव्यो द्रोणाचार्यशिष्यः शबर- स्तमिव । कीदृशम् । जन्मेति । एक-
स्माज्जन्मनोऽन्यज्जन्मान्तरं तत्र गतं प्राप्तम् । उदिति । उद्भिद्यमानान्युत्पद्यमानानि यानि इमभूश्मश्रूणि तेषां
राजि: पकिङ्क्तिस्तस्या भावस्तत्ता तया प्रथमाया या मदलेखा तया मण्ड्यमानालंक्रियमाणा गण्डभित्तिः कपो-
लभित्तिर्यस्यैवंभूतो यो गजयूथपतिर्गजनायकस्तस्य कुमारकः कलभस्तमिव । असितेति । पूरितं भृतम-
रण्यं काननं येन स तथा तम् । केन देहस्य शरीरस्य या प्रभा कान्तिस्तस्याः प्रवाहेणौधेघेन । तमेव विशेष-
यन्नाह – असितैतेति। असितं कृष्णं यत्कुवलयं कुवेलं तद्वत् श्यामलेन श्यामेन । केनेव । कालिन्दीजले-
मेव
नेव । यमुनाम्भसेव । यमुनाजलं मीनीलम्, शबरदेहप्रभापि तादृशी, अतस्तयोः साम्यम् । कमिव । आकुटि-
लेति । आ ईषत्कुटिलमग्रं यस्यैवंभूतेन स्कन्धावलम्बिना कुन्तलभारेण केशकलापेनोपेतं सहितं गजानां
[^1]व्यापादनलक्षणेन तन्मदेन दानवारिणा मलिनीकृतेन केसराणां कलापेन सटानां कलापेनोपेतं सहितं
केसरिणमिव सिंहमिव । आयतेति । आयतं विस्तीर्णं ललाटमलिकं यस्य स तम् । अतीति । अतितुङ्गा-
त्युच्चा घोरा रौद्रा घोणा नासिका यस्य स तम् । वामेति । वामपार्श्वेन सव्यपार्श्वेन विराजमानं शोभमानम् ।
देव विशेषयन्नाह - पर्णेष्विति । पर्णेषु पत्रेषु यच्छयनं स्वापस्तत्र योऽभ्यासः परिचयस्तेन लग्नः पल्ल-
या
वानां राग आरुण्यं यस्मिंस्तत्तथा तेन । अत्रोत्प्रेक्षा - नायं पल्लवैररुणः किंत्वेकस्मिन्कर्णे आभरणतां

भूषणतां उपनीतस्य प्राप्तस्य भुजगफणमणेरापाटलैः श्वेतरक्तैः अंशुभिः किरणै: आलोहितीकृतेन अरुणी-
कृतेनेव । इव भिन्नक्रमः । अचिरेति । अचिरं तत्कालं प्रहतो यो गजस्तस्य कपोलाभ्यां गृहीतेन सप्तच्छ-
दानामयुक्छदानां यः परिमलो गन्धस्तं वहतीत्येवंशीलः स तथा तेन । केनेव । कृष्णागरुः काकतुण्डस्तस्य
पंडे

पङ्के
नेव कर्दमेनेव सुरभिणा सुगन्धिना मदेन कृतोऽङ्गरागो विलेपनं येन स तथा तेन । उपरीति । तस्य
दस्य यः परिमलो गन्धस्तेनान्धेन विह्वलेनेति हेतुः । उपर्युपरिष्टाद्भ्रमता भ्रमणं कुर्वता । मायूरेति ।
 
9
 
टिप्प० -

 
[^
1]F. गजानां मदेन मलिनीकृतेन केसरकलापेन सटासमूहेनोपेतं केसरिणमिव सिंहमिवेति
स्पष्टोऽर्थः ।
 
पाठी

 
[^
]G. अतिमहतः.
[^
]G. आयसम्.
[^
]G. आगतम्.
[^
]G. कुमारम्.
[^
]G. श्यामेन .
[^
]G. पूरयन्तमरण्यम् .
[^
]G. ललाट
भासिनम्.
[^
]G. तुङ्गघोर.
[^
]G. भुजंग.
[^
१०]G. फणा.
[^
११]G. आहत.
[^
१२]G. कृष्णागुरु.
[^
१३]G. उपरिपतत्परिमल, .
[^
१४]G. परिभ्रमता.

[^
१५]G. मायूरातपत्र; मयूरपिच्छातपत्र; मयूरपिच्छछत्र.