This page has not been fully proofread.

६४
 
कांदम्बरी ।
 
[ कथामुखे-
,
 
मध्ये च तस्य महतः शबरसैन्यस्य प्रथमे वयसि वर्तमानम्, अतिकर्कशत्वादायसमय-
मिव निर्मितम्, एकलव्यमिव जन्मान्तरगतम्, उद्भिद्यमानश्मथुराजितया प्रथममदलेखा-
मण्ड्यमानगण्डमित्तिमिव गजयूथपतिकुमारकम्, असितकुवलयैश्यामलेन देहप्रभाप्रवाहेण
कालिन्द्रीज लेनेव र्पूरितारण्यम्, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तलभारेण केसरिणमित्र
गजमदम लिनीकृतेन केसरकलापेनोपेतम्, आयतललाटम्, अतितुङ्गघोरघोणम्, उपनीतस्यै-
ककर्णाभरणतां भुजगफणामँणेरापाटलैरंशुभिरालोहिती कृतेन पर्णशयनाभ्यासाल्लमपल्लव
रागे-
णेब वामपार्श्वन विराजमानम्, अचिरप्रहतंगजकपोलगृहीतेन सप्तच्छद परिमलवाहिना
कृष्णागरुपङ्केनेव सुरभिणा मदेन कृताङ्गरागम्, उपरि तत्परिमलान्धेन भ्रमता मौयूरपिच्छा-

 
1
 
मध्ये चेति । तस्य पूर्वव्यावर्णितस्य महतः शबरसैन्यस्य भिल्लबलस्य मध्ये मातङ्गनामानं शबरसेना-
पतिमपश्यमद्राक्षमित्यन्वयः । तमेव विशेषयनाह– प्रथमे इति । अत्र प्राथम्यमापेक्षिकम् । तेन
वार्धकापेक्षया प्रथमं वयस्तत्र वर्तमानम् । अंतिकर्कशत्वादतिकठिनत्वादायसमयमिव लोहमयमिव निर्मितं
रचितम् । कमिव । एकेति । एकलव्यो द्रोणाचार्यशिष्यः शबरस्तमिव । कीदृशम् । जन्मेति । एक-
स्माज्जन्मनोऽन्यज्जन्मान्तरं तत्र गतं प्राप्तम् । उदिति । उद्भिद्यमानान्युत्पद्यमानानि यानि इमभूणि तेषां
राजि: पकिस्तस्या भावस्तत्ता तया प्रथमाया या मदलेखा तया मण्ड्यमानालंक्रियमाणा गण्डभित्तिः कपो-
लभित्तिर्यस्यैवंभूतो यो गजयूथपतिर्गजनायकस्तस्य कुमारकः कलभस्तमिव । असितेति । पूरितं भृतम-
रण्यं का येन स तथा तम् । केन देहस्य शरीरस्य या प्रभा कान्तिस्तस्याः प्रवाहेणौधेन । तमेव विशेष-
यन्नाह – असितैति। असितं कृष्णं यत्कुवलयं कुवेलं तद्वत् श्यामलेन श्यामेन । केनेव । कालिन्दीजले-
मेव यमुनाम्भसेव । यमुनाजलं मीलम्, शबरदेहप्रभापि तादृशी, अतस्तयोः साम्यम् । कमिव । आकुटि-
लेति । आ ईषत्कुटिलमग्रं यस्यैवंभूतेन स्कन्धावलम्बिना कुन्तलभारेण केशकलापेनोपेतं सहितं गजानां
व्यापादनलक्षणेन तन्मदेन दानवारिणा मलिनीकृतेन केसराणां कलापेन सटानां कलापेनोपेतं सहितं
केसरिणमिव सिंहमिव । आयतेति । आयतं विस्तीर्ण ललाटमलिकं यस्य स तम् । अतीति । अतितुङ्गा-
त्युच्चा घोरा रौद्रा घोणा नासिका यस्य स तम् । वामेति । वामपार्श्वन सव्यपान विराजमानं शोभमानम् ।
सदेव विशेषयन्नाह - पर्णेष्विति । पर्णेषु पत्रेषु यच्छयनं स्वापस्तत्र योऽभ्यासः परिचयस्तेन लग्नः पल्ल-
यानां राग आरुण्यं यस्मिंस्तत्तथा तेन । अत्रोत्प्रेक्षा - नायं पल्लवैररुणः किंत्वेकस्मिन्कर्णे आभरणतां
भूषणतां उपनीतस्य प्राप्तस्य भुजगफणमणेरापाटलैः श्वेतरक्तैः अंशुभिः किरणै: आलोहितीकृतेन अरुणी-
कृतेनेव । इव भिन्नक्रमः । अचिरेति । अचिरं तत्कालं प्रहतो यो गजस्तस्य कपोलाभ्यां गृहीतेन सप्तच्छ-
दानामयुक्छदानां यः परिमलो गन्धस्तं वहतीत्येवंशीलः स तथा तेन । केनेव । कृष्णागरुः काकतुण्डस्तस्य
पंडेनेव कर्दमेनेव सुरभिणा सुगन्धिना मदेन कृतोऽङ्गरागो विलेपनं येन स तथा तेन । उपरीति । तस्य
भदस्य यः परिमलो गन्धरतेनान्धेन विह्वलेनेति हेतुः । उपर्युपरिष्टाद्धमता भ्रमणं कुर्वता । मायूरेति ।
 
9
 
टिप्प० - 1 गजानां मदेन मलिनीकृतेन केसरकलापेन सटासमूहेनोपेतं केसरिणमिव सिंहमिवेति
स्पष्टोऽर्थः ।
 
पाठी १ अतिमहतः. २ आयसम्. ३ आगतम्. ४ कुमारम्. ५ श्यामेन ६ पूरयन्तमरण्यम् ७ ललाट●
भासिनम्. ८ तुङ्गघोर. ९ भुजंग. १० फणा. ११ आहत. १२ कृष्णागुरु. १३ उपरिपतत्परिमल, १४ परिभ्रमता.
१५ मायूरातपत्र; मयूरपिच्छातपत्र; मयूरपिच्छछत्र.