कादम्बरी /96
This page has been fully proofread once and needs a second look.
अभिमुख [^१]मापतच्च तस्माद्वनान्तरादर्जुनभुजदण्डसहस्र- विप्रकीर्णमिव नर्मदाप्रवाहम्, [^२]अनिल [^३]चलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसंघातम्, अञ्जनशिलास्तम्भसंभारमिव क्षितिकम्पविघूर्णितम्, अन्धकार [^४]पुञ्जमिव रविकिरणा [^५]कुलितम्, अन्तकपरिवार-
मित्र परिभ्रमन्तम्, अवदारितरसातलो [^६]द्भूतमिव दानवलोकम् अशुभकर्मसमूहमिवैकत्र समागतम्, [^७]अनेकदण्डका [^८]रण्यवासिमुनिजनशापसार्थमिव संचरन्तम्, अनवरतशरनिकरवर्षिराम [^९]निहतखरदूषण [^१०]बलनिवहमिव तदपध्यानात्पिशाचता [^११]मुपगतम्, कलिकालबन्धु [^१२]वर्गमिवैकत्र संगतम्, [^१३]अवगाह- प्रस्थितमिव वनमहिषयूथम्, अचल [^१३]शिखरस्थित- केसरिकराकृष्टि [^१४]पतनविशीर्णमिव [^१६]कालाभ्रपटलम्, अखिलरूपविनाशाय धूमकेतुजालमिव समुद्गतम्, अन्धकारित- [^१७]काननम्, अनेकसहस्रसंख्यम्, अतिभ [^१८]यजनक- मुत्पातवेतालनातमिव शबरसैन्यमद्राक्षम् ।
[ टि ]-- अभीति । तस्माद्वनान्तरान्ममाभिमुखं संमुखमापतदा- गच्छच्छबरसैन्यं भिल्लानीकम् । तदहमद्राक्षमित्यप्ग्रि-
मेणान्वयः । तत्सैन्यं विशेषयन्नाह --अर्जुनेति । सहस्रार्जुनस्य राज्ञो भुजदण्डसहस्रं बाहुसहस्रं तेन विप्रकीर्ण-
मितस्ततः पर्यस्तं नर्मदाप्रवाहमिव मेकलाद्रिजास्रोत इव । अनिलवशाद्वायु- वशाच्चलितमितस्ततः पर्यस्तं
तमालानां तापिच्छानां काननं वनमिव । एकीभूतं मिश्रीभूतं कालरात्रीणां तमस्विनीनां याम- [^1]संघातमिव ।
अञ्जनशिलानां श्यामशिलानां ये स्तम्भाः स्थूणास्तेषां संभारमिव व्रातमिव । क्षितीति । क्षितिकम्पेन
पृथ्वीत्रं [^2]प्रचलितेन विघूर्णितं मूर्च्छितम् । अन्धकारपुञ्जमिव ध्वान्तपटलमिव । रवीति । रविकिरणैः सूर्यरश्मि -
भिराकुलितं व्याकुलीभूतम् । अन्तकस्य यमस्य परिवारमिव परिच्छदमिव । किं कुर्वन्तम् । परिभ्रमन्तमितस्तत: पर्यन्तम् । अत । अवदा-
ः पर्यन्तम् । अत । अवदा रिताद्विदीर्णासातलाद्भूतलादुद्भूतं प्रकटीभूतं दानवलोकमिव लोक-
मिव । अशुभेति । एकत्र समागतं मिलितमशुभकर्मणैः [^3]कर्मण: पापप्रकृतेः समूहमिव संघातमिव । अनेकेति ।
अनेके च ये दण्डकारण्यवासिमुनिजनास्तेषां शापानां सार्थ: समूहस्तमिव । किं कुर्वन्तम् । संचरन्तं व्रजन्तम् ।
अनवरतेति । अनवरतं निरन्तरं शरनिकरं बाणसमूहं वर्षतीत्येवंशीलो यो रामो दशरथात्मजस्तेन निहतो
व्यापादितः खर [^4]दूषणस्यैय पाताललङ्काधिपतेर्बलनिवहः सैन्यसमूहस्तमिव । कीदृशम् । तस्मिन्रामचन्द्रेऽपध्यानं
दुश्चिन्तनं तस्मात्पपिशाचतां भूततामुपगतं प्राप्तम् । कलीति । कलिकालः कलियुगस्तस्य बन्धुवर्गगं सहचरस-
मुदायमिव । एकत्रेति । एकत्र एकस्मिन्नेव स्थले संगतं मिलितम् । अवेति । अवगाहो मज्जनं तदर्थ
थं प्रस्थितं वनमहिषयूथमिव गवलवृन्दमिव । अचलेति । अचलः पर्वतस्तस्य शिखरं शृङ्गं तत्र स्थितो यः केसरी
महा- [^5]नागस्तस्य करौ हस्तौ ताभ्यामाकृष्टिराकर्षणं तस्माद्यत्पतनं भ्रंशस्तेन विशीर्णणं विशरारुतां प्राप्तं कालाभ्रपटलमिव
मेघमालामिव । अखिलेति । अखिलानां समग्राणांयर्दू[^6]यद्रूपं तस्य विनाशाय नाशनाय समुद्गतमुदयं प्राप्तं धूम-
केतुजालमिव केतुसमूहमिव । अन्धेति । अन्धकारितं संजातान्धकारं काननं येन तादृशम् । अनेकेति ।
अनेकानि सहस्राणि संख्या यस्य तत्तथा । अतीति । अतिभयमुत्कृष्टभीतिस्तस्य जनकमुत्पादकम् । किमिव ।
[^7]उत्पातोऽजन्यं तस्य वेतालवातं देव विशेषसमूहमिव भयोत्पादकमित्यर्थः । अन्वयस्तु प्रागेवोक्तः ।
टि[^1]F. प्प० -1 प्रहरसमूह मिव । मिव ।
[^2]F. प्रचलनेन, भूकम्पेनेत्यर्थः ।
[^3]F. कर्थणामिति बहुलमुचिदम् ।
इम् ।
[^4 ]F.खरदूषणयोः तन्नामकयोर्दण्डकारण्यसमीपस्थरावणसेनाधि-पत्योः बलनिवहमिवेत्यर्थः ।
[^5]F. सिंह इत्यर्थः
।
[^6]F. वस्तुतस्तु अखिलानां रूपाणां मृगाणां विनाशाय धूमकेतुसमूहमिवेत्यर्थः । 'रूपं मृगेऽपि विज्ञेयम्'
इति हलायुधः
[^7]F. उत्पाताय अमङ्गलाय यो वेतालव्रातः भूताविष्टशव- समूहस्तमिव । इत्यर्थो बोध्यः ।
[^१० बलमित्र. ११ उपगतम्.
पाठा.
> --- १]G. आपतन्तं च; आपतितम् .
[^२]G. अनिलबल; अनिलवशाल ; अनिलवंश .
[^३]G. संचलित .
[^४]G. पूरम्;
बलम्.
[^५]G. आकुलम्.
[^६]G. उद्रतमिव. गतमिव.
[^७]G. अशेष.
[^८]G. वासित.
[^९]G. निहतम् ; हत.
[^१०]G. बलमिव.
[^११]G. उपगतम्.
[^१२]G. वर्गमिव समुद्गतम् ; वर्गमिव संगतम्.
[^१३]G. अवगाह्योत्थित
[^१४]G. शिखरस्थ सिंह.
[^१५]G. शीर्णम्.
[^१६]G. कालमेघ.
[^१७]G. अशेषकाननम्. १८ जननम्.
१५ शीर्णम्. १६ कालमेघ.
मित्र परिभ्रमन्तम्, अवदारितरसातलो [^६]द्भूतमिव दानवलोकम् अशुभकर्मसमूहमिवैकत्र समागतम्, [^७]अनेकदण्डका [^८]रण्यवासिमुनिजनशापसार्थमिव संचरन्तम्, अनवरतशरनिकरवर्षिराम [^९]निहतखरदूषण [^१०]बलनिवहमिव तदपध्यानात्पिशाचता [^११]मुपगतम्, कलिकालबन्धु [^१२]वर्गमिवैकत्र संगतम्, [^१३]अवगाह- प्रस्थितमिव वनमहिषयूथम्, अचल [^१३]शिखरस्थित- केसरिकराकृष्टि [^१४]पतनविशीर्णमिव [^१६]कालाभ्रपटलम्, अखिलरूपविनाशाय धूमकेतुजालमिव समुद्गतम्, अन्धकारित- [^१७]काननम्, अनेकसहस्रसंख्यम्, अतिभ [^१८]यजनक- मुत्पातवेतालनातमिव शबरसैन्यमद्राक्षम् ।
[ टि ]-- अभीति । तस्माद्वनान्तरान्ममाभिमुखं संमुखमापतदा- गच्छच्छबरसैन्यं भिल्लानीकम् । तदहमद्राक्षमित्य
पृथ्वी
ः पर्यन्तम् । अत । अवदा
दुश्चिन्तनं तस्मात्
मेघमालामिव । अखिलेति । अखिलानां समग्राणां
[^7]उत्पातोऽजन्यं तस्य वेतालवातं देव विशेषसमूहमिव भयोत्पादकमित्यर्थः । अन्वयस्तु प्रागेवोक्तः ।
[^2]F. प्रचलनेन, भूकम्पेनेत्यर्थः ।
[^3]F. कर्थणामिति बहुलमुचि
[^4
[^5]F. सिंह इत्यर्थः
[^6]F. वस्तुतस्तु अखिलानां रूपाणां मृगाणां विनाशाय धूमकेतुसमूहमिवेत्यर्थः । 'रूपं मृगेऽपि विज्ञेयम्'
[^7]F. उत्पाताय अमङ्गलाय यो वेतालव्रातः भूताविष्टशव- समूहस्तमिव । इत्यर्थो बोध्यः ।
[^१
पाठा.
> --- १
[^२]G. अनिलबल; अनिलवशाल ; अनिलवंश
[^३]G. संचलित
[^४]G. पूरम्;
[^५]G. आकुलम्.
[^६]G. उद्
[^७]G. अशेष.
[^८]G. वासित.
[^९]G. निहतम् ; हत.
[^१०]G. बलमिव.
[^११]G. उपगतम्.
[^१२]G. वर्गमिव समुद्गतम् ; वर्गमिव संगतम्.
[^१३]G. अवगाह्योत्थित
[^१४]G. शिखरस्थ
[^१५]G. शीर्णम्.
[^१६]G. कालमेघ.
[^१७]G. अशेषकाननम्. १८ जननम्.