कादम्बरी /96
This page has not been fully proofread.
शबरसैन्यवर्णनम् 1
पूर्वभागः ।
अभिमुखमापतञ्च तस्माद्वनान्तरादर्जुनभुजदण्ड सहस्रविप्रकीर्णमिव नर्मदाप्रवाहम्, अनि
लचलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसंघातम्, अञ्जनशिलास्तम्भ-
संभारमिव क्षितिकम्पविघूर्णितम्, अन्धकारपुञ्जमिव रविकिरणाकुलितम्, अन्तकपरिवार-
मित्र परिभ्रमन्तम् अवदारितरसातलोद्भूतमिव दानवलोकम् अशुभकर्मसमूहमिवैकत्र
समागतम्, अनेकदण्डकारण्यवासि मुनिजनशापसार्थमिव संचरन्तम्, अनवरतशरनिकरवर्षि-
रामनिहेतखरदूषणबलंनिवह मिव तदपध्यानात्पिशाचतामुपगतम्, कलिकालबन्धुवर्गमिवैकत्र
संगतम्, अवगाहप्रस्थितमिव वनमहिषयूथम्, अचलशिखरस्थितकेसरिकराकृष्टिपतन विशी-
र्णमिव कालाभ्रपटलम्, अखिलरूपविनाशाय धूमकेतुजालमिव समुद्रतम्, अन्धकारितका-
ननम्, अनेकसहस्रसंख्यम्, अतिभयर्जनकमुत्पातवेतालनातमिव शबरसैन्यमद्राक्षम् ।
."
अभीति । तस्माद्वनान्तरान्ममाभिमुखं संमुखमापतदागच्छच्छबरसैन्यं भिल्लानीकम् । तदहमद्राक्षमित्यप्रि-
मेणान्वयः । तत्सैन्यं विशेषयन्नाह --अर्जुनेति । सहस्रार्जुनस्य राज्ञो भुजदण्डसहस्रं बाहुसहस्रं तेन विप्रकीर्ण-
मितस्ततः पर्यस्तं नर्मदाप्रवाहमिव मेकलाद्रिजास्रोत इव । अनिलवशाद्वायुवशाच्चलितमितस्ततः पर्यस्तं
तमालानां तापिच्छानां काननं वनमिव । एकीभूतं मिश्रीभूतं कालरात्रीणां तमस्विनीनां यामसंघातमिव ।
अञ्जनशिलानां श्यामशिलानां ये स्तम्भाः स्थूणास्तेषां संभारमिव व्रातमिव । क्षितीति । क्षितिकम्पेन
पृथ्वीत्रंचलितेन विघूर्णितं मूच्छितम् । अन्धकारपुञ्जमिव ध्वान्तपटलमिव । रवीति । रविकिरणैः सूर्यरश्मि -
भिराकुलितं व्याकुलीभूतम् । अन्तकस्य यमस्य परिवारमिव परिच्छदमिव । किं कुर्वन्तम् । परिभ्रमन्तमि-
ः पर्यन्तम् । अत । अवदारिताद्विदीर्णासातलाद्भूतलादुद्भूतं प्रकटीभूतं दानवलोकमिव लोक-
मिव । अशुभेति । एकत्र समागतं मिलितमशुभकर्मणैः पापप्रकृतेः समूहमिव संघातमिव । अनेकेति ।
अनेके च ये दण्डकारण्यवासिमुनिजनास्तेषां शापानां सार्थ: समूहस्तमिव । किं कुर्वन्तम् । संचरन्तं व्रजन्तम् ।
अनवरतेति । अनवरतं निरन्तरं शरनिकरं बाणसमूहं वर्षतीत्येवंशीलो यो रामो दशरथात्मजस्तेन निहतो
व्यापादितः खरदूषणस्यै पाताललङ्काधिपतेर्बलनिवहः सैन्यसमूहस्तमिव । कीदृशम् । तस्मिन्रामचन्द्रेऽपध्यानं
दुश्चिन्तनं तस्मात्पशाचतां भूततामुपगतं प्राप्तम् । कलीति । कलिकालः कलियुगस्तस्य बन्धुवर्ग सहचरस-
मुदायमिव । एकत्रेति । एकत्र एकस्मिन्नेव स्थले संगतं मिलितम् । अवेति । अवगाहो मज्जनं तदर्थ
प्रस्थितं वनमहिषयूथमिव गवलवृन्दमिव । अचलेति । अचलः पर्वतस्तस्य शिखरं शृङ्गं तत्र स्थितो यः केसरी
महानागस्तस्य करौ हस्तौ ताभ्यामाकृष्टिराकर्षणं तस्माद्यत्पतनं भ्रंशस्तेन विशीर्ण विशरारुतां प्राप्तं कालाभ्रपटलमिव
मेघमालामिव । अखिलेति । अखिलानां समग्राणां यर्दूपं तस्य विनाशाय नाशनाय समुद्गतमुदयं प्राप्तं धूम-
केतुजालमिव केतुसमूहमिव । अन्धेति । अन्धकारितं संजातान्धकारं काननं येन तादृशम् । अनेकेति ।
अनेकानि सहस्राणि संख्या यस्य तत्तथा । अतीति । अतिभयमुत्कृष्टभीतिस्तस्य जनकमुत्पादकम् । किमिव ।
उत्पातोऽजन्यं तस्य वेतालवातं देव विशेषसमूहमिव भयोत्पादकमित्यर्थः । अन्वयस्तु प्रागेवोक्तः ।
टिप्प० -1 प्रहरसमूह मिव । 2 प्रचलनेन, भूकम्पेनेत्यर्थः । 3 कर्थणामिति बहुलमुचिदम् ।
4 खरदूषणयोः तन्नामकयोर्दण्डकारण्यसमीपस्थरावणसेनाधिपत्योः बलनिवहमिवेत्यर्थः । 5 सिंह इत्यर्थः
6 वस्तुतस्तु अखिलानां रूपाणां मृगाणां विनाशाय धूमकेतुसमूहमिवेत्यर्थः । 'रूपं मृगेऽपि विज्ञेयम्'
इति हलायुधः
7 उत्पाताय अमङ्गलाय यो वेतालव्रातः भूताविष्टशवसमूहस्तमिव । इत्यर्थो बोध्यः ।
१० बलमित्र. ११ उपगतम्.
पाठा.
> --- १ आपतन्तं च; आपतितम् २ अनिलबल; अनिलवशाल ; अनिलवंश ३ संचलित ४ पूरम्;
बलम्. ५ आकुलम्. ६ उद्रतमिव. ७ अशेष. ८ वासित. ९ निहतम् ; हत.
१२ वर्गमिव समुद्गतम् ; वर्गमिव संगतम्. १३ अवगायोत्थित १४ शिखरस्थ सिंह.
१७ अशेषकाननम्. १८ जननम्.
१५ शीर्णम्. १६ कालमेघ.