कादम्बरी /95
This page has been fully proofread twice.
माकुलाकुलचारिणां च पत्ररथानां [^१]कोलाहलेन, रूपानुसार
[^२]प्रधावितानां च मृगयूथानां युगपदतिरभस [^३]पादपाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्ट [^४]ज्यानां च मदकलकुररकामिनीकण्ठ- [^६]कूजितकलशबलितेन शरनिकरवर्षिणां धनुषां निनादेन, [^७]पवनाहतिक्वणितधाराणामसीनां च कठिनमहिषस्कन्ध- [^८]पीठपातिनां रणितेन, शुनां च सरभसविमुक्तघर्घरध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव [^९]तदरण्यमभवत् । अचिराच्च प्रशान्ते तस्मिन्मृगयाकलकले निर्वृष्टमूकजलधर- वृन्दानुकारिणि मथनावसानोपशान्तवारिणि सागर इव [^१०]स्तिमिततामुपगते [^११]कानने मन्दीभूतभयोऽहमुपजात- [^१२]कुतूहलः पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य [^१३]संत्रासतरलतारकः शैशवात्कि [^१४]मिद- मित्यु [^१५]पजातदिदृक्षस्तामेव दिशं चक्षुः प्राहिणवम् ।
[ टि ]--तरुशिखराणि वृक्षप्रान्तानि तेभ्यः समुत्पतितानामुड्डीनानाम् । आकुलेति । आकुलाकुलं यथा स्यात्तथा चारिणां गामिनाम् । पुनः केन । मृगेति । मृगा हरिणास्तेषां यूथानि वृन्दानि तेषां [^1]चरणशब्देन क्रमणोत्थरवेण । कीदृशानाम् । रूपेति । रूपं शक्तिस्तदनुसारेण प्रधावितानां प्रचलितानाम् । कीदृशेन चरणशब्देन । युगपदिति । युगपत् एकदैवातिरभसं वेगवत्तरं पादानां चरणानां पातः पतनं तेनाभिहताया भुवः पृथिव्याः ।
बलवद्द्रव्याघाताभावेन कम्पाभावेऽपि कम्पभ्रम इत्याह - कम्पमिवेति । जनयतोत्पादयता । पुनः केन । धनुषां निनादेन चापशब्देन । धनूंषि विशेषयन्नाह - कर्णेति । कर्णान्तं श्रोत्रपर्यन्तमाकृष्टाकर्षिता ज्या गुणो येषां तानि तथा तेषाम् । शरेति । शराणां बाणानां निकरः समूहस्तं वर्षन्तीत्येवंशीलानि यानि धनूंषि तेषाम् । चापध्वनिं विशेषयन्नाह - मदेति । मदेन कला मनोज्ञा या कुररस्य मत्स्यनाशस्य कामिनी स्त्री तस्याः कण्ठ-
कूजितं तस्य कलो मधुरो ध्वनिस्तेन शबलितेन मिश्रितेन । पुनः केन । असीति । असीनां खङ्गानां रणितेन शब्दितेन । असीन्विशेषयन्नाह - पवनेति । पवनस्य समीरणस्याहत्याहननेन क्वणिताः शब्दिता धारा येषां ते तथा तेषाम् । कठिनेति । कठिनः कठोरो यो महिषस्कन्धो लुलायभुजशिरः स एव पीठं स्थलं
तत्र पातिनां पतनशीलानाम् । पुनः केन । शुनां सारमेयाणां वनान्तरव्यापिनारण्यमध्यप्रसरणशीलेन ध्वानेन शब्देन । शुनो विशिनष्टि - सरभसेति । सरभसं सवेगं विमुक्ता घर्घरध्वनयो यैस्ते तथा तेषाम् । अचिराच्चेति । [^2]अचिरात् बहुकालेन प्रशान्ते शान्तिमुपगते मृगयाकलकलशब्दे सागर इव समुद्र इव स्ति-मिततां निश्चलतामुपगते प्राप्ते काननेऽरण्ये सति । सागरं विशेषयन्नाह - मथनेति । मथनस्य विलोडनस्यावसानं पर्यन्तस्तेनोपशान्तं स्वस्वरूपेणावस्थितं वारि जलं यस्मिन् । निर्वृष्टेति । निर्वृष्टाः कृतवर्षा मूकाः स्तनितशून्या ये जलधरा मेघास्तेषां वृन्दं तदनुकर्तुं शीलं यस्य स तस्मिन् । मन्दीति । मन्दीभूतं मन्दतां प्राप्तं भयं भीतिर्यस्य स तथा । उपेति । उपजातमुत्पन्नं कुतूहलमाश्चर्यं यस्य सोऽहं पितुर्जनकस्योत्सङ्गात्क्रो डादीषूषदिव निष्क्रम्य किंचिदिवोन्नतो भूत्वा कोटरस्थ एव शिरोधरां ग्रीवां प्रसार्य विस्तार्य संत्रासेन
भयेन तरला चञ्चला तारका कनीनिका यस्य स तथा । शैशवाद्वाबाल्यात्किमिदमिति हेतोः । तामेव दिशं
ककुभं प्रति चक्षुर्नेत्रं प्राहिणवम त्[^3]प्रैषैषम् । किमिदमदृष्टपूर्वमित्युपजाता समुत्पन्ना दिदृक्षा द्रष्टुमिच्छा यस्य सः ।
-
टिप्प० -[^1]F. वास्तवे तु - मृगयूणामित्येव पाठ उचितः । रूपाणां मृगाणामनुसारेण प्रधावितानां मृग-
यूणां किरातानाम् चरणशब्देन इति तद्व्याख्या । 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः ।
[^2]F. स्वल्प-
कालेनेत्यर्थ उचितः ।
[^3]F. प्रैषयमित्याशयः ।
पाठा० -[^१]G. निनादेन.
[^२]G. प्रस्थितानाम् .
[^३]G. मृगयूणाम् .
[^४]G. पादवातात्.
[^५]G. ज्याघोषमद.
[^६]G. कलेन; कलशबलेन;
. कलकलेनेव; कलकलशबलेन.
[^७]G. आहृत.
[^८]G. पाटितानाम् .
[^९]G. तदा .
[^१०]G. उपागते.
[^११]G. तस्मिन्कानने.
[^१२]G. मन्दीभूत-
साध्वसः• .
[^१३]G. तरलतर.
[^१]G.४ किमिति, .
[^१५]G. समुपजातविस्मयो दिदृक्षुः; समुपजातदिदृक्षः; संजातदिदृक्षः,
.
[^२]प्रधावितानां च मृगयूथानां युगपदतिरभस [^३]पादपाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्ट [^४]ज्यानां च मदकलकुररकामिनीकण्ठ- [^६]कूजितकलशबलितेन शरनिकरवर्षिणां धनुषां निनादेन, [^७]पवनाहतिक्वणितधाराणामसीनां च कठिनमहिषस्कन्ध- [^८]पीठपातिनां रणितेन, शुनां च सरभसविमुक्तघर्घरध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव [^९]तदरण्यमभवत् । अचिराच्च प्रशान्ते तस्मिन्मृगयाकलकले निर्वृष्टमूकजलधर- वृन्दानुकारिणि मथनावसानोपशान्तवारिणि सागर इव [^१०]स्तिमिततामुपगते [^११]कानने मन्दीभूतभयोऽहमुपजात- [^१२]कुतूहलः पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य [^१३]संत्रासतरलतारकः शैशवात्कि [^१४]मिद- मित्यु [^१५]पजातदिदृक्षस्तामेव दिशं चक्षुः प्राहिणवम् ।
[ टि ]--तरुशिखराणि वृक्षप्रान्तानि तेभ्यः समुत्पतितानामुड्डीनानाम् । आकुलेति । आकुलाकुलं यथा स्यात्तथा चारिणां गामिनाम् । पुनः केन । मृगेति । मृगा हरिणास्तेषां यूथानि वृन्दानि तेषां [^1]चरणशब्देन क्रमणोत्थरवेण । कीदृशानाम् । रूपेति । रूपं शक्तिस्तदनुसारेण प्रधावितानां प्रचलितानाम् । कीदृशेन चरणशब्देन । युगपदिति । युगपत् एकदैवातिरभसं वेगवत्तरं पादानां चरणानां पातः पतनं तेनाभिहताया भुवः पृथिव्याः ।
बलवद्द्रव्याघाताभावेन कम्पाभावेऽपि कम्पभ्रम इत्याह - कम्पमिवेति । जनयतोत्पादयता । पुनः केन । धनुषां निनादेन चापशब्देन । धनूंषि विशेषयन्नाह - कर्णेति । कर्णान्तं श्रोत्रपर्यन्तमाकृष्टाकर्षिता ज्या गुणो येषां तानि तथा तेषाम् । शरेति । शराणां बाणानां निकरः समूहस्तं वर्षन्तीत्येवंशीलानि यानि धनूंषि तेषाम् । चापध्वनिं विशेषयन्नाह - मदेति । मदेन कला मनोज्ञा या कुररस्य मत्स्यनाशस्य कामिनी स्त्री तस्याः कण्ठ-
कूजितं तस्य कलो मधुरो ध्वनिस्तेन शबलितेन मिश्रितेन । पुनः केन । असीति । असीनां खङ्गानां रणितेन शब्दितेन । असीन्विशेषयन्नाह - पवनेति । पवनस्य समीरणस्याहत्याहननेन क्वणिताः शब्दिता धारा येषां ते तथा तेषाम् । कठिनेति । कठिनः कठोरो यो महिषस्कन्धो लुलायभुजशिरः स एव पीठं स्थलं
तत्र पातिनां पतनशीलानाम् । पुनः केन । शुनां सारमेयाणां वनान्तरव्यापिनारण्यमध्यप्रसरणशीलेन ध्वानेन शब्देन । शुनो विशिनष्टि - सरभसेति । सरभसं सवेगं विमुक्ता घर्घरध्वनयो यैस्ते तथा तेषाम् । अचिराच्चेति । [^2]अचिरात् बहुकालेन प्रशान्ते शान्तिमुपगते मृगयाकलकलशब्दे सागर इव समुद्र इव स्ति-मिततां निश्चलतामुपगते प्राप्ते काननेऽरण्ये सति । सागरं विशेषयन्नाह - मथनेति । मथनस्य विलोडनस्यावसानं पर्यन्तस्तेनोपशान्तं स्वस्वरूपेणावस्थितं वारि जलं यस्मिन् । निर्वृष्टेति । निर्वृष्टाः कृतवर्षा मूकाः स्तनितशून्या ये जलधरा मेघास्तेषां वृन्दं तदनुकर्तुं शीलं यस्य स तस्मिन् । मन्दीति । मन्दीभूतं मन्दतां प्राप्तं भयं भीतिर्यस्य स तथा । उपेति । उपजातमुत्पन्नं कुतूहलमाश्चर्यं यस्य सोऽहं पितुर्जनकस्योत्सङ्गात्क्रो डादी
टिप्प० -
[^2]F. स्वल्प
[^3]F. प्रैषयमित्याशयः ।
[^२]G. प्रस्थितानाम्
[^३]G. मृगयूणाम्
[^४]G. पादवातात्.
[^५]G. ज्याघोषमद.
[^६]G. कलेन; कलशबलेन
[^७]G. आहृत.
[^८]G. पाटितानाम्
[^९]G. तदा
[^१०]G. उपागते.
[^११]G. तस्मिन्कानने.
[^१२]G. मन्दीभूत
[^१३]G. तरलतर.
[^१]G.४ किमिति
[^१५]G. समुपजातविस्मयो दिदृक्षुः; समुपजातदिदृक्षः; संजातदिदृक्षः