This page has not been fully proofread.

कादम्बरी ।
 
[ कथामुखे-
माकुलाकुलचारिणां च पत्ररथानां कोलाहलेन, रूपानुसार
प्रेधावितानां च मृगयूथानां युगप-
दतिरभसपादपाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्टज्यानां च
मदकलकुररकामिनीकण्ठकूजितकलशबलितेन शरनिकरवर्षिणां धनुषां निनादेन, पवनाहति-
कणितधाराणामसीनां च कठिनमहिषस्कन्धपीठपातिनां रणितेन, शुनां च सरभसविमुक्तघ-
घरध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव तंदुरण्यमभवत् । अचिराच
प्रशान्ते तस्मिन्मृगयाकलकले निर्वृष्टमूकजलधरवृन्दानुकारिणि मथनावसानोपशान्तवारिणि
सागर इव स्तिमिततामुपगते कानने मन्दीभूतभयोऽहमुपजातकुतूहलः पितुरुत्सङ्गादी दिव
निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य संत्रासतरलतारकः शैशवात्किर्मिर्दे मित्यु पजातदि-
दृक्षस्तामेव दिशं चक्षुः प्राहिणवम् ।
 
६२
 
तरुशिखराणि वृक्षप्रान्तानि तेभ्यः समुत्पतितानामुड्डीनानाम् । आकुलेति । आकुलाकुलं यथा स्यात्तथा
चारिणां गामिनाम् । पुनः केन । मृगेति । मृगा हरिणास्तेषां यूथानि वृन्दानि तेषां चरणशब्देन क्रमणोत्थरवेण ।
कीदृशानाम् । रूपेति । रूपं शक्तिस्तदनुसारेण प्रधावितानां प्रचलितानाम् । कीदृशेन चरणशब्देन । युगप
दिति । युगपत् एकदैवातिरभसं वेगवत्तरं पादानां चरणानां पातः पतनं तेनाभिहताया भुवः पृथिव्याः ।
बलवद्रव्याघाताभावेन कम्पाभावेऽपि कम्पभ्रम इत्याह - कम्पमिवेति । जनयतोत्पादयता । पुनः केन ।
धनुषां निनादेन चापशब्देन । धनूंषि विशेषयन्नाह - कर्णेति । कर्णान्तं श्रोत्रपर्यन्तमाकृष्टाकर्षिता ज्या गुणो
येषां तानि तथा तेषाम् । शरेति । शराणां बाणानां निकरः समूहस्तं वर्षन्तीत्येवंशीलानि यानि धनूंषि तेषाम् ।
चापध्वनिं विशेषयन्नाह - मदेति । मदेन कला मनोज्ञा या कुररस्य मत्स्यनाशस्य कामिनी स्त्री तस्याः कण्ठ-
कूजितं तस्य कलो मधुरो ध्वनिस्तेन शबलितेन मिश्रितेन । पुनः केन । असीति । असीनां खङ्गानां रणि-
तेन शब्दितेन । असीन्विशेषयन्नाह - पवनेति । पवनस्य समीरणस्याहत्याहननेन कणिताः शब्दिता धारा
येषां ते तथा तेषाम् । कठिनेति । कठिनः कठोरो यो महिषस्कन्धो लुलायभुजशिरः स एव पीठं स्थलं
तत्र पातिनां पतनशीलानाम् । पुनः केन । शुनां सारमेयाणां वनान्तरव्यापिनारण्यमध्यप्रसरणशीलेन
ने शब्देन । नो विशिनष्टि - सरभसेति । सरभसं सवेगं विमुक्ता घर्घरध्वनयो यैस्ते तथा तेषाम् ।
अचिराञ्चेति । अचिरीत् बहुकालेन प्रशान्ते शान्तिमुपगते मृगयाकलकलशब्दे सागर इव समुद्र इव स्ति-
मिततां निश्चलतामुपगते प्राप्ते काननेऽरण्ये सति । सागरं विशेषयन्नाह - मथनेति । मथनस्य विलोडनस्याव-
सानं पर्यन्तस्तेनोपशान्तं स्वस्वरूपेणावस्थितं वारि जलं यस्मिन् । निर्वृष्टेति । निर्वृष्टाः कृतवर्षा मूकाः स्तनि-
तशून्या ये जलधरा मेघास्तेषां वृन्दं तदनुकर्तुं शीलं यस्य स तस्मिन् । मन्दीति । मन्दीभूतं मन्दतां प्राप्तं
भयं भीतिर्यस्य स तथा । उपेति । उपजातमुत्पन्नं कुतूहलमाश्चर्य यस्य सोऽहं पितुर्जनकस्योत्सङ्गात्कोडा
दीषूदिव निष्क्रम्य किंचिदिवोन्नतो भूत्वा कोटरस्थ एव शिरोधरां ग्रीवां प्रसार्य विस्तार्य संत्रासेन
भयेन तरला चञ्चला तारका कनीनिका यस्य स तथा । शैशवाद्वाल्यात्किमिदमिति हेतोः । तामेव दिशं
ककुभं प्रति चक्षुर्नेत्रं प्राहिणवम त्रैषैम् । किमिदमदृष्टपूर्वमित्युपजाता समुत्पन्ना दिदृक्षा द्रष्टुमिच्छा यस्य सः ।
 
-
 
टिप्प० - 1 वास्तवे तु - मृगयूणामित्येव पाठ उचितः । रूपाणां मृगाणामनुसारेण प्रधावितानां मृग-
यूणां किरातानाम् चरणशब्देन इति तद्व्याख्या । 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः । 2 स्वल्प-
कालेनेत्यर्थ उचितः । 3 प्रैषयमित्याशयः ।
 
पाठा० -१ निनादेन. २ प्रस्थितानाम् ३ मृगयूणाम् ४ पादवातात्. ५ ज्याघोषमद. ६ कलेन; कलशबलेन;
कलकलेनेव; कलकलशबलेन. ७ आहृत. ८ पाटितानाम् ९ तदा १० उपागते. ११ तस्मिन्कानने. १२ मन्दीभूत-
साध्वसः• १३ तरलतर. १४ किमिति, १५ समुपजातविस्मयो दिदृक्षुः; समुपजातदिदृक्षः; संजातदिदृक्षः,