This page has not been fully proofread.

मृगयाकोलाहल: ]
 
पूर्वभागः ।
 
६१
 
क्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां
श्वान इत्यम्योग्यमंभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य
क्षोभितकाननं कोलाहलमशृणवम् ।
 
अथ नातिचिरादेवानुलेपनार्द्रमृदङ्ग निधीरेण गिरिविवरविजृम्भितप्रेतिनादगम्भीरेण शँ-
बरशरताडितानां केसरिणां निनादेन, संत्रस्तयूथमुक्तानामेका किनां च संचरतामनबरतकरास्फो-
टमिश्रेण जलधररसितानुकारिणा गजयूथपतीनां कण्ठगॅर्जितेन, सरभससारमेय विलुप्यमाना-
वयवानामालोलतरलतारकाणामेणकानां च करुणकूजितेन, निहतयूथपतीनां वियोगिनीनाम-
नुगतकैलभानां च स्थित्वा स्थित्वा समाकर्ण्य कलकलमुत्कर्णपल्लवानामितस्ततः परिभ्रमन्तीनां
प्रत्यप्रपतिविनाशशोकदीर्घेण करिणीनां चीत्कृतेन, कतिपय दिवसप्रसूतानां च खनिघेनुकानां
त्रासपरिभ्रष्टपोतकान्वेषिणीनामुन्मुक्तकैण्ठमारसन्तीनामाक्रन्दितेन, तरुशिखरसमुत्पतिताना-
धानैः स्थीयतामुपविश्यताम् । श्वानः कौलेयका विमुच्यन्तां प्रस्थाप्यन्तामित्यन्योन्यमिति पूर्वोक्त प्रकारेणान्योन्यं
परस्परमभिवदतो जल्पतो मृगयासक्तस्याखेटकासक्तस्य महतो महीयसो जनसमूहस्य जनवृन्दस्य तरूणां वृक्षाणां
गहनं निकुञ्जस्तेनान्तरितो व्यवधानीकृतो विग्रहः शरीरं यस्य स तथा तस्य क्षोभितकाननमान्दोलितारण्यं यथा
स्यात्तथा कोलाहलं कलकलम शृणवमश्रौषम् ।
 
अथेति । अथेत्यानन्तर्ये । नातिचिरादेव स्वल्पकालेनैव सर्वतोऽभितः प्रचलितमिव कम्पितमिव तदरण्य-
मभवत् । केन । अन्विति । अनुलेपनं द्रवद्रव्यं तेनार्द्रः स्विन्नो यो मृदङ्गो मुरजस्तस्य ध्वनिः शब्दस्तद्वद्धी-
रेण गम्भीरेण । गिरीति । गिरिविवरेषु पर्वतच्छिद्वेषु विजृम्भितः प्रसृतो यः प्रतिनादः प्रतिच्छन्दस्तेन
गम्भीरेण मन्द्रेण । पुनः केन । शबरेति । शबरा भिल्लास्तेषां शरा बाणास्तैस्ताडितानां व्यथितानां केसरिणा
सिंहानां निनादेन शब्देन । पुनः केन । संत्रस्तेति । संत्रस्तं चकितं यद्यूथं तेन मुक्तानामेकाकिनां च संच-
रतां गच्छतामनवरतं निरन्तरं यः करास्फोट : गुण्डाघातस्तेन मिश्रः संवलितो जलधरो मेघस्तस्य रसितं
गर्जितं तदनुकारिणा गजयूथपतीनां हस्तिसमुदायनाथानां कण्ठगार्जितेन निगरणरसितेन । पुनः केन । सरभ-
सेति । सरभसं वेगवत्तरं सारमेयैः श्वभिर्विलुप्यमाना दूरीक्रियमाणा अवयवा अपघना येषां ते तथा तेषा-
मालोलाञ्चञ्चला अत एव तरला स्फुटितो तारका कनीनिका येषामेवंविधानामेणकानां हरिणानां करुणं
करुणरसोत्पादकं यत्कूजितं शब्दितं तेन । पुनः केन । करिणीनां हस्तिनीनां चीत्कृतेन चीत्कारश-
ब्देन । कीदृशेन । प्रत्यप्रेति । प्रत्यग्रस्तत्कालीनो यः पतिविनाशशोकस्तेन दीर्घेणायतेन । हस्तिनीं विशेष-
यन्नाह — इतस्तत इति । इतस्ततः समन्ततः परिभ्रमन्तीनां परिभ्रमणं कुर्वन्तीनाम् । उत्कर्णेति । उदूर्ध्व-
कर्णपल्लवा यासां तास्तासाम् । किं कृत्वा । स्थित्वा स्थित्वा पूर्वोक्तं कलकलं समाकर्ण्य श्रुत्वा । अन्विति ।
अनुगताः पश्चाल्लम्माः कलभा यासां तास्तथा तासां वियोगिनीनां विप्रलम्भयुक्तानाम् । निहतेति । निहता
व्यापादिता यूथपतयो यासां तास्तथा तासाम् । पुनः केन । आकन्दितेन रुदितेन । कासाम् । खङ्गिधे-
नुकानां गण्डकस्त्रीणाम् । किं कुर्वतीनाम् । उन्मुक्तकण्ठं यथा स्यात्तथातिकरुणशब्दमारसन्तीनामारटन्ती-
नाम् । पुनः कीदृशीनाम् । त्रासेति । त्रासेन भयेन परिभ्रष्टो नष्टो यः पोतकः स्तनंधयस्तदन्वेषिणीनां
तद्विलोकनशीलानाम् । कतिपयेति । कतिपये कियन्तो ये दिवसा वासरास्तत्र प्रसूतं याभिस्तासाम् ।
पुनः केन । पत्रेति । पत्ररथानां पक्षिणां कोलाहलेन कलकलशब्देन । पक्षिणो विशेषयन्नाह - तर्विति ।
 
टिप्प० - 1 वास्तवे तु । आलीलकातरतारकाणामित्येव पाठः । कातरा भीता ।
 
-१ अभिददतः. २ मृगयाप्रसक्तस्य ३ इव. ४ ध्वान. ५ प्रतिनिनाद. ६ गभीरेण ७ शरताडितानाम्.
९ आलोलकातरतरलतर; विलोलकातरतरलतर. १० कलभकानाम्. ११ पोतान्वेषिणीनाम्.
१२ कण्ठकरुण; कण्ठं करुण, कण्ठमतिकरुण.
 
पाठा०-
८ गर्जितेन.