2023-10-21 15:33:58 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

वनगजकुलम्, इतो [^१]वनवराहयूथम्, इतो वनमहिषवृन्दम् इतः शिखण्डिमण्डलविरुतम्, इतः कपिञ्जलकुलककूजितम्, इतः कुररकुलक्वणितम्, इतो मृगपतिनखभिद्यमानकुम्भकुञ्जररसितम्, इयमार्द्रपङ्कमलिना [^२]वराहपद्धतिः, इयमभिनवशष्पकवलर- सश्यामला हरिणरोमन्थफेनसंहतिः, इयमुन्मदगन्धगजगण्ड- कण्डूयनपरिमलनिलीन [^३]मुखरमधुकरविरुतिः, एषा निपतित- रुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एतद्द्विरदचरण- मृदितविटपपल्लवपटलम्, एत [^४]त्ससङ्गिकुलक्रीडितम्, एष नख [^५]कोटिविकटविलिखितपत्रलेखो रुधिरपाटलः करिमौक्ति [^६]कदलदन्तुरो मृगपतिमार्गः, एषा प्रत्यग्रप्रसूतवनमृगीगर्भ रुधिरलोहिनी भूमिः, इयमटवीवेणिका [^७]नुकारिणी [^८]पक्षचरस्य यूथपतेर्मदजलमलिना संचारवीथी, चमरी- पङ्क्तिरियमनुगम्यताम्, उच्छुष्कमृगकरीषपांसुला त्वरिततर- मध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम् आलो-
 
 
[ टि ]-- वनवराहा वनक्रोडास्तेषां यूथं वृन्दम् । इत इति । वनमहिषाणां वृन्दं कुलम् । इत इति । शिखण्डिनां
मयूराणां मण्डलं समूहस्तस्य विरुतं कूजितम् । इत इति । कपिञ्जलानां गौरतित्तिराणां कुलं समुदायस्तस्य
कलं मधुरं कूजितं शब्दितम् । इत इति । कुरो मत्स्यनाशनस्तस्य कुलं [^1]पुत्रपौत्रादि तस्य क्वणितं शब्दितम् ।
इत इति । मृगपतिः सिंहस्तस्य नखाः पुनर्भवास्तैर्भिद्यमानो विदार्यमाणः कुम्भः शिरः पिण्डो येषामेवंभूताः
कुञ्जरा हस्तिनस्तेषां रसितमाक्रन्दितम् । इयमिति । इयं प्रत्यक्षा-
र्दोऽशुष्को यः पङ्कः कर्दमस्तेन मलिना मलीमसा वराहपद्धतिर्वनक्रोडमार्गः । इयमिति । इयमिति पूर्ववत् । अभिनवान्यचिरोत्पन्नानि यानि शष्पाणि
बालतृणानि तेषां [^2]कवलो गुडस्तस्य रसस्तेन श्यामला मलिनैवंविधा हरिणानां मृगाणां यो रोमन्थश्चर्वितचर्वणं
तस्य फेनः कफस्तस्य संहतिः समूहः । इयमिति । उन्मदा मदोन्मत्ता ये गन्ध [^3]गजा गन्धेभाः । सुरभिमद-
युक्ता इत्यर्थः । तेषां गण्ड: करटस्तस्य कण्डूयनेन कण्डूत्या यः परिमल आमोदस्तस्मिन्निलीना आसक्ता मुखरा
वाचाला ये मधुकरा भ्रमरास्तेषां विरुतिर्झङ्कारः । एषा दृश्यमानेत्यर्थः । निपतितेति । निपतिता भूमौ स्रस्ता
ये रुधिरबिन्दवो रक्तपृषतास्तैः सिक्तानि सिञ्चितानि यानि शुष्कपत्राणि तैः पाटला श्वेतरक्ता रुरुपदवी मृग-
विशेषमार्गः । एतदिति । एतत्समीपतरवर्ति द्विरदा हस्तिनस्तेषां चरणाः पादास्तैमृदितं मर्दितं विटपाना वृक्षाणां पल्लवपटलं किसलयसमूहो यस्मिन्नेतादृशं स्थलमित्यर्थः । एतदिति । एतद्दृश्यमानं खङ्गिनां वार्ध्रीणसानां कुलं पौत्रादि तस्य क्रीडितं चेष्टितम् । एष इति । एष प्रत्यक्षोपलक्ष्यमाणो मृगपतिमार्गो नखरायुधपन्थाः । कीदृक् । नखकोटिभिर्नखराग्रैर्विकटा विपुला विलिखिता 'निर्भिन्ना पत्रलेखा पर्णपतिर्यस्मिन्स तथा, रुधिरैः रक्तैः पाटलः श्वेतरक्तः करिणां गजानां मौक्तिकानि मुक्ताफलानि तेषां दलानि खण्डानि तेन दन्तुरः स्थ[^5]पुट: । एषेति । प्रत्यग्रप्रसूता नवप्रसविनी या वनमृग्यरण्यहरिणी तस्या गर्भो भ्रूणस्तस्य रुधिरं
रक्तं तेन लोहिनी रक्तैषा भूमिः पृथ्वी । इयमिति । इयमटव्यरण्यभूमिर्वेणिकामलकपङ्क्तिमनुकरोतीत्येवंशीला
सा तथा । कीदृशी । पक्षचरस्य समुदायचरिणो यूथपतेर्यूथनाथस्य मदजलेन दानवारिणा मलिना श्यामा । अनेन वेण्या साम्यमरण्यस्य सूचितम् । संचारेति । संचारवीथ्यां गोचरमार्गे चमर्या गोविशेषस्य पङ्क्तिः
परंपरा सा अनुगम्यतामनुव्रज्यताम् । युष्माभिरिति शेषः । उच्छुष्केति । इयं वनस्थली त्वरिततरं
वेगवत्तर मध्यास्यतामधिश्रियताम् । कीदृशी । उत्प्राबल्येन शुष्कं वानं यन्मृगकरीषं हरिणच्छगणं तेन पांसुला
निन्दिता । तर्विति । तरुशिखरं वृक्षाग्रमारुह्यतामारोह विषयीक्रियताम् । इयमभिमुखा दिगालोक्यतामा-
लोकविषयीक्रियताम् । अयं शब्द आकर्ण्यतां श्रूयताम् । धनुश्चापो गृह्यतां स्वीक्रियताम् । अवहितैः साव-
टिप्प० -
[^
1]F. समुदाय इत्येवोचितम् ।
[^
2]F. कवलो ग्रासः ।
[^
3]F. येषां गन्धेन अन्ये गजाः प्रद्रवन्ति

[^
4]F. स्रवद्रुधिरैर्नखैर्विलिखिताः चित्रिताः पत्रलेखाः पत्राकार- चिह्नानि यस्मिन् स इत्यर्थः ।
[^
5]F. उच्चावचः ।
[^6]F. अटव्याः वेणिकेति समस्तमेवोचितम् ।
 
पाठा० - [^]G. वराहयूथम् .
[^
]G. वराहकुलपद्धति:.
[^
]G. आलीन.
[^
]G. शिखण्डिकुल .
[^
]G. कोटि विलिखितविकपटत्रः.
[^]G. मौक्तिकदन्तुर: .
[^
]G. अनुसारिणी, .
[^
]G. एकचरस्य; समीपचरस्य.