2023-10-21 02:52:31 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथामुखे-

 

 
वनगजकुलम्, इतो [^१]वनवराहयूथम्, इतो वनमहिषवृन्दम् इतः शिखण्डिमण्डलविरुतम्,
इतः कपिञ्जलकुलककूजितम्, इतः कुररकुलक्वणितम्, इतो मृगपतिनखभिद्यमानकुम्भकु
ञ्जररसितम्, इयमार्द्रपङ्कमलिना वै[^२]वराहपद्धतिः, इयमभिनवशष्पकवलर- सश्यामला हरिणरो-
मन्थफेनसंहतिः, इयमुन्मदगन्धगजगण्ड- कण्डूयन परिमल निलीन [^३]मुखर मधुकरविरुतिः, एषा
निपतित- रुधिर बिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एतद्द्विरदचरण- मृदित विटपपल्लवपटलम्,
एत [^४]त्ससङ्गिकुलक्रीडितम्, एष नख [^५]कोटिविकट विलिखितपत्रलेखो रुधिरपाटलः करिमौक्ति [^६]कद-
लदन्तुरीरो मृगपतिमार्गः, एषा प्रत्यग्रप्रसूतवनमृगीगर्भ रुधिरलोहिनी भूमिः, इयमटवीवेणि-
का [^७]नुकारिणी [^८]पक्षचरस्य यूथपतेर्मंदजलमलिना संचारवीथी, चमरी- पङ्क्तिरिय मनुगम्यताम्,
उच्छुष्क मृगकरीपांसुला त्वरिततर- मध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम् आलो /
 

 
,
 
-
 
 
[ टि ]--
वनवराहा वनक्रोडास्तेषां यूथं वृन्दम् । इत इति । वनमहिषाणां वृन्दं कुलम् । इत इति । शिखण्डिनां

मयूराणां मण्डलं समूहस्तस्य विरुतं कूजितम् । इत इति । कपिञ्जलानां गौरतित्तिराणां कुलं समुदायस्तस्य

कलं मधुरं कूजितं शब्दितम् । इत इति । कुरो मत्स्यनाशनस्तस्य कुलं [^1]पुत्रपौत्रादि तस्य क्वणितं शब्दितम् ।

इत इति । मृगपतिः सिंहस्तस्य नखाः पुनर्भवास्तैर्भिद्यमानो विदार्यमाणः कुम्भः शिरः पिण्डो येषामेवंभूताः

कुञ्जरा हस्तिनस्तेषां रसितमाक्रन्दितम् । इयमिति । इयं प्रत्यक्षा-
र्दो
ऽशुष्को यः पङ्कः कर्दमस्तेन मलिना मली-
मसा वराहपद्धतिर्वनकोक्रोडमार्गः । इयमिति । इयमिति पूर्ववत् । अभिनवान्यचिरोत्पन्नानि यानि शष्पाणि

बालतृणानि तेषां [^2]कवलो गुडस्तस्य रसस्तेन श्यामला मलिनैवंविधा हरिणानां मृगाणां यो रोमन्थश्चर्वितचर्वणं

स्य फेनः कफस्तस्य संहतिः समूहः । इयमिति । उन्मदा मदोन्मत्ता ये गन्ध [^3]जौंजा गन्धेभाः । सुरभिमद-

युक्ता इत्यर्थः । तेषां गण्ड: करटस्तस्य कण्ड्डूयनेन कण्डूत्या यः परिमल आमोदस्तस्मिन्निलीना आसक्ता मुखरा

वाचाला ये मधुकरा भ्रमरास्तेषां विरुतिर्झङ्कारः । एषा दृश्यमानेत्यर्थः । निपतितेति । निपतिता भूमौ सस्ता
स्रस्ता
ये रुधिरबिन्दवो रक्तपृषतास्तैः सिक्तानि सिञ्चितानि यानि शुष्कपत्राणि तैः पाटला श्वेतरक्ता रुरुपदवी मृग-

विशेषमार्गः । एतदिति । एतत्समीपतरवर्ति द्विरदा हस्तिनस्तेषां चरणाः पादास्तैमृदितं मर्दितं विटपानां
ना वृक्षाणां पल्लवपटलं किसलयसमूहो यस्मिन्नेतादृशं स्थलमित्यर्थः । एतदिति । एतद्दृश्यमानं खङ्गिनां वार्धी-
ध्रीणसानां कुलं पौत्रादि तस्य क्रीडितं चेष्टितम् । एष इति । एष प्रत्यक्षोपलक्ष्यमाणो मृगपतिमार्गो नखरायु-
धपन्थाः । कीदृक् । नखकोटिभिर्नखरा ग्रैर्विकटा विपुला विलिखिता 'निर्भिन्ना पत्रलेखा पर्णपतिर्यस्मिन्स
तथा, रुधिरैः रक्तैः पाटलः श्वेतरक्तः करिणां गजानां मौक्तिकानि मुक्ताफलानि तेषां दलानि खण्डानि तेन
दन्तुरः स्थपुः[^5]पुट: । एषेति । प्रत्यग्रप्रसूता नवप्रसविनी या वनमृग्यरण्यहरिणी तस्या गर्भो भ्रूणस्तस्य रुधिरं

रक्तं तेन लोहिनी रक्तैषा भूमिः पृथ्वी । इयमिति । इयमटव्यरण्यभूमिर्वेणिकामलकपङ्किक्तिमनुकरोतीत्येवंशीला

सा तथा । कीदृशी । पक्षचरस्य समुदायचरिणो यूथपतेर्यूथनाथस्य मदजलेन दानवारिणा मलिना श्यामा ।
अनेन वेण्या साम्यमरण्यस्य सूचितम् । संचारेति । संचारवीथ्यां गोचरमार्गे चमर्या गोविशेषस्य पङ्क्तिः

परंपरा सा अनुगम्यतामनुव्रज्यताम् । युष्माभिरिति शेषः । उच्छुष्केति । इयं वनस्थली त्वरिततरं

वेगवत्तर मध्यास्यतामधिश्रियताम् । कीदृशी । उत्प्राबल्येन शुष्कं वानं यन्मृगकरीषं हरिणच्छगणं तेन पांसुला

निन्दिता । तर्विति । तरुशिखरं वृक्षाग्रमारुह्यतामारोह विषयीक्रियताम् । इयमभिमुखा दिगालोक्यतामा•

लोकविषयीक्रियताम् । अयं शब्द आकर्ण्यतां श्रूयताम् । धनुश्चापो गृह्यतां स्वीक्रियताम् । अवहितैः साव-

टिप्प० - 1 समुदाय इत्येवोचितम् । 2 कवलो ग्रासः । 3 येषां गन्धेन अन्ये गजाः प्रद्रवन्ति

4 स्रवद्रुधिरैर्नखैर्विलिखिताः चित्रिताः पत्रलेखाः पत्राकारचिह्नानि यस्मिन् स इत्यर्थः । 5 उच्चावचः ।

6 भटव्याः वेणिकेति समस्तमेवोचितम् ।
 

 
पाठा० - १ वराहयूथम् २ वराहकुलपद्धति:. ३ आलीन. ४ शिखण्डिकुल ५ कोटि विलिखितविकपटत्रः.

६ मौक्तिकदन्तुर: ७ अनुसारिणी, ८ एकचरस्य; समीपचरस्य.