2023-10-10 13:04:02 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शबरमृगया ]
 
पूर्वभागः ।
 
भीतकरिपोतचीत्कार-
वने संत्रासितसकलवनचरः [^१]सरभससमुत्पतत्पतत्रिपक्षपुट- शब्दसंततः
भीतकरिपोतचीत्कारपीवरः प्रे[^२]प्रचलितलताकुल- मत्तालिकुलकणितमांसलः परिभ्रमदुद्घोणवन [^३]वनवराहरवघर्घरो गिरिगु-
हासुप्त प्रबुद्धा संसिं[^४]निनादोपबृंहितः कम्पयन्निव तरून्भगी [^५]रथावतार्यमाणगङ्गाप्रवाह कलकलव-
कलकलवहलो भीतवनदेवताकर्णितो मृगयाकोलाहलध्वनिरुदचरत् । [^६]आकर्ण्य च तमहमश्रुतपूर्वमुप
जातवेपथुरर्भकतया जर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकारबुड्द्ध्या [^७]जरा-
शिथिलपक्षपुटान्तरमचिशम् ।
 

 
अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः, इतः क्रोडकुलदश्यमानभ-
द्रमुस्तारसामोदः, इतः करिकलभभज्यमान- सल्लकीकषायगन्धः, इतो निपतितशुष्क पत्रमर्मर-
पत्रमर्मरध्वनिः, इतो वनमहिषविषाणको टिकुलिशभिद्य मानवल्मीकधूलिः, इतो मृग- कदम्ब कम्, इतो
 

 

 
[ टि ]--
अथ ध्वनिं विशेषयन्नाह - संत्रासितेति । संत्रासिता भयं प्रापिताः सकलवनचराः समग्रारण्यचारिणो येन
स तथा । सरभसेति । [^1]सरभसेन वेगेन समुत्पतन्तो ये पतत्रिणः पक्षिणस्तेषां पक्षपुटानि छदपुटानि तेषां
शब्दो निनादस्तेन सम्यक्प्रकारेण ततो विस्तीर्णः । भीतेति । भीतास्त्रस्ता ये करिपोताः कॅलभास्तेषां चीत्काराः
शब्दविशेषास्तैः पीवरः पुष्टः । प्रचलितेति । प्रचलिताः कम्पिता या लता वृल्लयस्तास्वाकुला व्याकुला ये
मत्तालयो मत्तभ्रमरास्तेषां कुलानि तेषां क्वणितेन शब्दितेन मांसलः पुष्टः । परीति । परिभ्रमन्त इतस्ततः
संचरन्त उद्घोणा उच्चनासा ये वनवराहा अरण्यशूकरास्तेषां रवः शब्दस्तेन घर्घरः कठोरः । गिरीति ।
गिरिगुहासु शैलकन्दरा पूर्वं सुप्ताः पश्चात्प्रबुद्धा उत्थिता ये सिंहाः केसरिणस्तेषां यो निनादः शब्दस्तेनो-
पबृंहितो वृद्धं प्राप्तः । पुनः किं कुर्वन्निव । तरुन्वृक्षान्क- म्पयन्निव चालयन्निव । भगीति । भगीरथेन राज्ञावतार्यमा-
वतार्यमा
णोऽधस्तादानीयमानो यो गङ्गाप्रवाहः स्वर्धुनीसोस्रोतस्तस्य यः कलकलस्तद्वद्हलः प्रभूतः । भीतेति ।
भीता भयं प्राप्ता या वनदेवतास्ताभिराकर्णितः श्रवणविषयीकृतः । आकर्ण्य चेति । अहमश्रुतपूर्वं तं
शब्दमाकर्ण्य श्रुत्वा प्रतीकारबुद्ध्या भर्यानेयनि- वृत्त्युपायधिया समीपवर्तिनो निकटस्थस्य पितुर्जनकस्य जरया

विस्रसया यच्छिथिलं श्लथं पक्षपुटं तस्यान्तरं मध्यमविशं प्रविष्टोऽभवम् । कीदृशोऽहम् । उपेति । उपजा-
तवेपथुः संजातकम्पोऽर्भकतया बालतया तादृशशब्दश्रवणादेव जर्जरितं प्रतिरुद्धं कर्णयोः श्रवणयोर्षिवर
विवरं छिद्रं यस्य स तथा ।
 
1
 

 

 
अनन्तरं चेति । पितुः पक्षपुटान्तर प्रवेशानन्तरम् । चकारः पूर्वसमुच्चये । कोलाहलमशृणवमित्यप्ग्रेतनेन
संबन्धः । तदेव दर्शयति — सरभसमित्यादि । इतोऽस्मिन्प्रदेशे सरभसं वेगवत्तरं गजयूथपतिना लुलिता
मर्दिता या कमलिनी नलिनी तस्याः परिमल आमोदः । इत इति पूर्ववत् । क्रोडकुलैररण्यशूकर समुदायैर्दश्य-

माना भक्ष्यमाणा या भद्रमुस्ता गुन्द्रास्तासां रसो द्रवस्तस्यामोदः परिमलः । इत इति प्राग्वत् । करिणां कल-
भा [^2]स्त्रिंशदब्दका- स्तैर्भज्यमाना आमर्द्यमाना याः सल्लक्यो गजप्रियास्तासां कषायः तुवरो गन्धः । इत इति प्राग्वत् ।
इतःप्रदेशे निपतितानि पर्यस्तानि यानि शुष्कपत्राणि तेषां मर्मरध्वनिर्मर्मर इति शब्दः । 'मर्मरो वस्त्र-

पत्रादेः' इति कोशः । इत इति । वनमहिषा गवलास्तेषां विषाणानि शृङ्गाणि तेषां कोटिरमंग्रं तदेव कुलिशं
वज्रम् । अमेभेद्यत्वात्तदुपमानम् । तेन भिद्यमानं छिद्यमानं यद्वल्मीकं शक्र [^3]शिरैस्तस्य धूलिः पांसुः । इत इति ।
मृगाणां हरिणानां कदम्बकं समुदायः । इत इति । वनगजानामरण्यहस्तिनां कुलं समुदायः । इत इति ।
टिप्प० -

 
[^
1]F. सरभसं भयवशात्सवेगम् उत्पतन्त इत्युचितम् ।
[^
2]F. करिशावका इत्येवोचितम्,
त्रिंशदब्देति परिगणनं स्थूलम् ।
[^
3]F. सर्पादिगर्तः, कीटराशीकृतमृत्तिकास्तूपो वा ।
 
पाठा० -

 
[^
]G. सततम्.
[^
]G. प्रचलितलताकुलित; प्रचलितमत्तालिकुल .
[^
]G. वराहघर्घरकठोर : .
[^
]G. नाद.
[^
]G. आवार्यमाण.

[^
]G. आकर्ण्य तम्.
[^
]G. जरातिशिथिल,