2023-10-10 12:38:41 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
कादम्बरी ।
[ कथामुखे-
वनगजकर्णतालशब्दे, क्रमेण व गंच [^१]गगनतलमवतरतो दिवसकरवारणस्याव [^२]चूलचामरकलाप
इवोपलक्ष्यमाणे म
मञ्जिष्ठारागलोहिते किरणजाले, शनैः शनैरुदिते भगवति सवितरि, पम्पासरः-
पर्यन्ततरुशिखरसं [^३]चारिण्यध्यासितगिरिशिखरे दिवसकरजन्मनि हृततारे पुनरिव कपीश्वरे
वनमभिपतति बालातपे, स्पष्टे जाते प्रत्यूषसि, नचिरादिव दिवसा [^४]ष्टम भागभाजि स्पष्टभासि
भास्वति भूते, प्रयातेषु [^५]च यथाभिमतानि दिगन्तराणि शुककुलेषु, [^६]कुलायनिलीन निभृतशुकशावक-
शावक सनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पतौ, स्वनीडाव स्थित एव ताते, मयि च
शैश [^७]वादसंजातबलसमुद्भिद्यमानपक्षपुढे टे [^८]पितुः समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महा-
५८
[ टि ]-- क्रमेणेति । क्रमेण परिपाट्या गगनतलमाकाशमार्ग- मवतरतोऽधिरोहतो दिवसकरवारणस्य सूर्यगजस्य । अवचू-
लेति । अवचूलोऽधोमुखकूर्चको यश्चामरकलापस्तस्मिन्निवोप- लक्ष्यमाणे दृश्यमाने म[^1]मञ्जिष्ठस्य वस्तुविशेषस्य रागो
रक्तिमा तेन लोहिते रक्तीभूते किरणजाले रश्मिसमूहे सति शनैः शनैर्नातिशीघ्रं भगवति माहात्म्यवति सवितरि
श्रीसूर्य उदिते उदयं प्राप्ते सति । कीदृशे । पम्पेति । पम्पासरः पर्यन्तानि यानि तरुशिखराणि तेषु संचारो
विद्यते यस्य स तथा तस्मिन् । अध्येति । अध्यासितान्याश्रितानि गिरिशिखराणि पर्वत शृङ्गाणि येन स तस्मिन् ।
अथ बालातपं विशेषयन्नाह - दिवसेति । दिवसकरात्सूर्याज्जन्म यस्य स तथा तस्मिन् । हृता दूरीकृता तारा
येन स तथा तस्मिन् । पुनस्तदनन्तरं कपीश्वरे सुग्रीव इव । तरुशिखरचारित्वात्तद्धृत [^2]तारत्वाच्च तदुपमानम् ।
तं वृक्षं पूर्वोक्तमभिपतति व्याप्नुवति बालातपे नवीनालोके सति । तथा प्रत्यूषसि प्रभाते स्पष्टे व्यक्ते जाते सति
नचिरादिव स्तोककालेनेव दिवसस्याष्टमो भागश्चतुर्घटिकात्मकस्तं भजतीति भाक् । ण्विप्रत्ययान्तः । तस्मिन्स्पष्टा
भा कान्तिर्यस्य स तथा तस्मिन्भास्वति श्रीसूर्ये भूते जाते सति । पुनः केषु । शुककुलेषु कीरव्रजेषु यथाभिम-
तानि यथेप्सितानि दिगन्तराणि दिग्विभागान् प्रयातेषु गतेषु सत्सु । कुलायेति । कुलाया नीडानि तेषु
निलीनाः सुप्ता निभृतमत्यन्तं शुकशावकाः कीरशिशवस्तैः सनाथेऽपि संयुक्तेऽपि बालकाना- मेकाकित्वेन भयवशा-
न्निःशब्दतया तस्मिन्वनस्पतौ शाल्मलीवृक्षे शून्य इव सति । स्वेति । स्वस्य नीडं कुलायस्तत्रावस्थित
पर एव ताते पितरि मयि चेति । चः पुनरर्थे । मयि पितुर्जनकस्य समीपवर्तिनि निकटवर्तिनि सति । अथ शिशुं
विशेषयन्नाह–कोटरेति । कोटरगते निष्कुहस्थिते । शैशवादिति । शैशवाद्वाबाल्यादै[^3]दसंजातमनुत्पन्नं यद्वबलं
तेन समुद्भिद्यमानं विलीयमानं पक्षपुटं यस्य स तथा तस्मिन् । विधेयमाह - सहसैवेति । तस्मिन्पू-
र्वोक्ते महावने सहसैवाकस्मा- देव मृगयाखेटकस्तस्याः कोलाहलध्वनिः कलकललक्षणः शब्द उदरदुदतिष्ठत् ।
टिप्प० -
[^1]F. मञ्जिष्ठेत्युचितम् 'मञ्जिष्ठा विकसा जिङ्गी'त्यमरः । 'मँजीठ' इति भाषा ।
[^2]F. न केवलं
विशेषणद्वयमेव बालातपसुग्रीवयोरन्वितम्, अपि तु सर्वाण्येव । सुग्रीवोपि अध्यासितं गिरि (ऋष्यमूक).
शिखरं येन तादृक् । वालिभयाच्च अग्रे न गत्वा पम्पासरः पर्यन्त तरुशिखरेषु संचारी । सूर्यात् जन्म
यस्य तस्मिन्निति उभयत्र समानम् । हृताः लोपिताः ताराः नक्षत्राणि येन ( बालातपे ), हृता तन्नान्म्नी
वानरी येन इति सुग्रीवे । सुग्रीवे इव बालातपे पुनः वनमभिपतति सतीति योजना ।
[^3]F. शैशवात्
असंजातबले, समुद्भिद्यमानम् क्रमशः उत्पद्यमानं पक्षपुटं पतत्रयुगलं यस्य एताहोदृशे, मयि पितुः समीप-
वर्तिनि कोटरगते सतीत्यर्थः । उद्भिद्यमानं विलीयमानम्, असंजातं यद् बलमित्युक्तिर्भ्रमः ।
पाठा० -
[^१]G. गगनतलमार्गः; गगनमार्ग .
[^२]G. अवधृत .
[^३]G. संचारिणां.
[^४]G. अष्टभाग.
[^५]G. तेषु.
[^६]G. कुलायनिभृतशावक.
[^७]G. असंजातवबले.
[^८]G. तातस्य समीप; तातसमीप.