कादम्बरी /91
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
वनगजकर्णतालशब्दे, क्रमेण व गंगनतलमवतरतो दिवसकरवारणस्यावचूलचामरकलाप
इवोपलक्ष्यमाणे मजिष्ठारागलोहिते किरणजाले, शनैः शनैरुदिते भगवति सवितरि, पम्पासरः-
पर्यन्ततरुशिखरसंचारिण्यध्यासितगिरिशिखरे दिवसकरजन्मनि हृततारे पुनरिव कपीश्वरे
वनमभिपतति बालातपे, स्पष्टे जाते प्रत्यूषसि, नचिरादिव दिवसाष्टम भागभाजि स्पष्टभासि
भास्वति भूते, प्रयातेषु च यथाभिमतानि दिगन्तराणि शुककुलेषु, कुलायनिलीन निभृतशुक-
शावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पतौ, स्वनीडाव स्थित एव ताते, मयि च
शैशवादसंजातबलसमुद्भिद्यमानपक्षपुढे पितुः समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महा-
५८
क्रमेणेति । क्रमेण परिपाट्या गगनतलमाकाशमार्गमवतरतोऽधिरोहतो दिवसकरवारणस्य सूर्यगजस्य । अवचू-
लेति । अवचूलोऽधोमुखकूर्चको यश्चामरकलापस्तस्मिन्निवोपलक्ष्यमाणे दृश्यमाने मजिष्ठस्य वस्तुविशेषस्य रागो
रक्तिमा तेन लोहिते रक्तीभूते किरणजाले रश्मिसमूहे सति शनैः शनैर्नातिशीघ्रं भगवति माहात्म्यवति सवितरि
श्रीसूर्य उदिते उदयं प्राप्ते सति । कीदृशे । पम्पेति । पम्पासरः पर्यन्तानि यानि रुशिखराणि तेषु संचारो
विद्यते यस्य स तथा तस्मिन् । अध्येति । अध्यासितान्याश्रितानि गिरिशिखराणि पर्वत शृङ्गाणि येन स तस्मिन् ।
अथ बालातपं विशेषयन्नाह - दिवसेति । दिवसकरात्सूर्याज्जन्म यस्य स तथा तस्मिन् । हृता दूरीकृता तारा
येन स तथा तस्मिन् । पुनस्तदनन्तरं कपीश्वरे सुग्रीव इव । तरुशिखरचारित्वात्तद्धृत तारत्वाच्च तदुपमानम् ।
तं वृक्षं पूर्वोक्तमभिपतति व्याप्नुवति बालातपे नवीनालोके सति । तथा प्रत्यूषसि प्रभाते स्पष्टे व्यक्ते जाते सति
नचिरादिव स्तोककालेनेव दिवसस्याष्टमो भागश्चतुर्घटिकात्मकस्तं भजतीति भाक् । ण्विप्रत्ययान्तः । तस्मिन्स्पष्टा
भा कान्तिर्यस्य स तथा तस्मिन्भास्वति श्रीसूर्ये भूते जाते सति । पुनः केषु । शुककुलेषु कीरव्रजेषु यथाभिम-
तानि यथेप्सितानि दिगन्तराणि दिग्विभागान् प्रयातेषु गतेषु सत्सु । कुलायेति । कुलाया नीडानि तेषु
निलीनाः सुप्ता निभृतमत्यन्तं शुकशावकाः कीरशिशवस्तैः सनाथेऽपि संयुक्तेऽपि बालकानामेकाकित्वेन भयवशा-
निःशब्दतया तस्मिन्वनस्पतौ शाल्मलीवृक्षे शून्य इव सति । स्वेति । स्वस्य नीडं कुलायस्तत्रावस्थित
पर ति । चः पुनरर्थे । मयि पितुर्जनकस्य समीपवर्तिनि निकटवर्तिनि सति । अथ शिशुं
विशेषयन्नाह–कोटरेति । कोटरगते निष्कुहस्थिते । शैशवादिति । शैशवाद्वाल्यादैसंजातमनुत्पन्नं यद्वलं
तेन समुद्भिद्यमानं विलीयमानं पक्षपुटं यस्य स तथा तस्मिन् । विधेयमाह - सहसैवेति । तस्मिन्पू-
र्वोक्ते महावने सहसैवाकस्मादेव मृगयाखेटकस्तस्याः कोलाहलध्वनिः कलकललक्षणः शब्द उदरदुदतिष्ठत् ।
टिप्प० - 1 मञ्जिष्ठेत्युचितम् 'मञ्जिष्ठा विकसा जिङ्गी'त्यमरः । 'मँजीठ' इति भाषा ।
2 न केवलं
विशेषणद्वयमेव बालातपसुग्रीवयोरन्वितम्, अपि तु सर्वाण्येव । सुग्रीवोपि अध्यासितं गिरि (ऋष्यमूक).
शिखरं येन तादृक् । वालिभयाच्च अग्रे न गत्वा पम्पासरः पर्यन्त तरुशिखरेषु संचारी । सूर्यात् जन्म
यस्य तस्मिन्निति उभयत्र समानम् । हृताः लोपिताः ताराः नक्षत्राणि येन ( बालातपे ), हृता तन्नान्नी
वानरी येन इति सुग्रीवे । सुग्रीवे इव बालातपे पुनः वनमभिपतति सतीति योजना । 3 शैशवात्
असंजातबले, समुद्भिद्यमानम् क्रमशः उत्पद्यमानं पक्षपुटं पतत्रयुगलं यस्य एताहो, मयि पितुः समीप-
वर्तिनि कोटरगते सतीत्यर्थः । उद्भिद्यमानं विलीयमानम्, असंजातं यद् बलमित्युक्तिर्भ्रमः ।
पाठा० - १ गगनतलमार्गः; गगनमार्ग २ अवधृत ३ संचारिणां. ४ अष्टभाग. ५ तेषु. ६ कुलायनिभृतशावक.
७ असंजातवले. ८ तातस्य समीप; तातसमीप.