2023-10-09 12:25:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

प्रभातवर्णनम् ]
 
पूर्वभागः ।
 
[^१]दजलकणापहारिणि नमहिषरोमन्थफेन बिन्दुवाहिनि चलितपल्लवलतालास्योपदेशव्यसनिनि
विघटमानक मलमल- खण्डमधुसीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसानजातज-
डिन्म्नि मन्दमन्दसंचारिणि प्रवाति प्राभातिके मातरिश्वनि, के[^२]कमलवनप्रबोधमङ्गलपाठकानामिभ-
गण्ड- डिण्डिमानां [^३]मधुलिहां कुमुदोदरेषु घटमानं [^४]मानदलपुट - [^५]निरुद्ध पक्षसंह ती ना मुञ्च्चरत्सु [^६]हुंका-
रेषु, प्रभातशिशिर- वाय्वाहँ [^७]हतमुत्तप्तजतुरसा [^८]श्लिष्टपक्ष्ममालमिव सशेषनिद्रा [^९]जिह्तारं चक्षुरु-
न्मीलयत्सु शनैः शनैरूपर षरशय्या- धूसरक्रोड [^१०]रोमँराजिषु वनमृगेषु, इतस्ततः संचरत्सु वनचरेषु,

विजृम्भमाणे श्रोत्रहारिणि पम्पासर : [^११]कलहंसकोलाहले, समुल्लसति नर्तित [^१२]शिखण्डिनि मनोहरे
 

 
[ टि ]--
वनेति । वनमहिषाः सैरिभास्तेषां रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य बिन्दवः पृषन्ति तान्वहती-
त्येवंशीलः स तस्मिन् । चलितेति । चलिताः कम्पिता: पल्लवाः किसलयानि यासामेवंविधा या लता वल्लय-
स्तासां लास्यं नृत्यं तस्योपदेशः शिक्षणं तस्य व्यसनं विद्यते यस्य स तस्मिन् । विघटेति । विघटमानानि
विकाशं प्राप्यमाणानि यानि कमलखण्डानि नलिनवनानि तेषां मधु रसस्तस्य सीकरा वाताक्षिप्तकणास्तेषा-
मासारो वेगवान्वर्षो विद्यते यस्मिन्स तथा तस्मिन् । कुसुमामोदेति । कुसुमानामामोदः परागस्तेन

तर्पितं प्रीणितमलिजालं भ्रमरसमूहो येन स तस्मिन् । निशेति । निशाया रात्रेर्यदवसानं प्रान्तस्तेन जाता
जडिमा जडत्वं यस्मिन्स तथा तस्मिन् । अत एव मन्दं मन्दं संचरत इत्येवंशीलः स तथा तस्मिन् । पुनः
केषु । कुमुदोदरेषु कैरवान्तरेषु मधुलिहां हुंकारेष्वव्यक्तशब्देषूच्चरत्सु ब्रुवत्सु सत्सु । इतो मधुलिहो विशेष-

यन्नाह–कमलेति । कमलवनानां प्रबोधपाठका मङ्गलपाठका- स्तेषाम् । तथेभ [^1]गण्ड' एव हस्तिकरट एव
डिण्डिमः पटहो येषां ते तथा तेषां मधुलिहां भ्रमराणां विघटमानानि संकोचं [^2]प्राप्यमाणानि यानि दलानि
पत्राणि तेषां पुटानि कोशानि तेषु निरुद्धावरुद्धा पक्षसंहतिश्छदसमूहो येषां ते तथा तेषाम् । पुनः केषु
सत्सु । वनमृगेति । वनमृगेष्वरण्यहरिणेषु शनैः शनैश्चक्षुर्नेत्र- मुन्मीलयत्सु विकासयत्सु । अथ चक्षुर्विशेषय-
न्नाह - प्रभातेति । प्रभातं प्रत्यूषस्तस्य यः शिशिरः शीतलो वायुः समीरस्तेनाहतं पीडितम् । उत्तप्तेति ।
उत्तप्त उष्णीकृतो यो जतुरसो लाक्षारस- स्तेनाश्लिष्टालिङ्गिता पक्ष्ममाला नेत्ररोमपर्यिङ्क्तिर्यस्य तदिव । सशेषेति ।
सशेषोर्वरिता या निद्रा तया जिह्मा कुटिला तारा कनीनिका यस्य तत् । कीदृशेषु वनमृगेषु । ऊष-
रेति । ऊषरा तृणरहिता या शय्या शयनस्थलं तेन धूसरा धूम्रवर्णा क्रोडरोम- राजिर्हृदयलोमपङ्क्तिर्येषां तेषु ।
पुनः कीदृशेषु । इतस्ततः समन्ततो वनचरेष्वरण्यचारिषु संचरत्सु गच्छत्सु । पुनः केषु सत्सु । विजृम्भेति ।
श्रोत्रहारिणि कर्णमनोहरे पम्पानाम्नः सरसः कलहंसकोलाहले कादम्बकलकले विजृम्भमाणे प्रसृते सति । पुनः

केषु सत्सु । समुल्लसतीति । नर्तिताः शिखण्डिनो मै[^3]मयूरा येन तस्मिन्मनोहरे रुचिरे वनगजानामरण्यकरिणां
कर्णा एव ताला वाद्यविशेषास्तेषां शब्दो ध्वनिस्तस्मिन्समुल्लसति सति सम्यक्प्रकारेण प्रसरति सति ।
 

 
टिप्प० -

 
 
[^
1]F. इभगण्डेषु डिण्डिमानान्, डिण्डिमैर्यथा राजादीना- मागमनादेः सगौरवं घोषणा क्रियते,
तथा भ्रमरगुञ्जनेन गजराजाना मागमन-जागरांरादे: सूचना दीयत इति डिण्डिमत्वम्
( रूपकम् ) । न
भ्रमरास्तं वादयन्ति येन इभगण्डस्य डिण्डिमत्वं स्यात् ।

[^
2]F. घटमानैः सूर्योदयारम्भात् संकुचद्भिः
दलपुटैः निरुद्धा पक्षसंहतिर्येषाम् इत्येवार्थः । विघटनं हि विश्लेषो न संकोचः ।
[^
3]F. कर्णतालशब्
दं मेघध्वनि शास्निं ज्ञात्वा हर्षेण ते नृत्यन्तीति भ्रान्तिमान् ।
 
पाठा० -

 
[^
]G. स्वेदजलकणिका; स्वेदकणिका.
[^
]G. कमलप्रबोध.
[^
]G. मधुलिहां पटलेषु.
[^
]G. विघटमान; घनघटमान.

[^
]G. निबद्ध.
[^
]G. झकारेषु; टङ्कारेषु.
[^
]G. मारुताहत .
[^
]G. पक्षमजालम् .
[^
]G. जिमिततारम् ; जितितारकम् .
[^
१०]G. राजिषु च.

[^
११]G. कलहंसकुल .
[^
१२]G. शिखण्डिमण्डले.
 

 
८ का०