कादम्बरी /90
This page has not been fully proofread.
प्रभातवर्णनम् ]
पूर्वभागः ।
दजलकणापहारिणि बनमहिषरोमन्थफेन बिन्दुवाहिनि चलितपल्लवलतालास्योपदेशव्यसनिनि
विघटमानक मलखण्डमधुसीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसानजातज-
डिन्नि मन्दमन्दसंचारिणि प्रवाति प्राभातिके मातरिश्वनि, केमलवनप्रबोधमङ्गलपाठकानामिभ-
• गण्डडिण्डिमानां मधुलिहां कुमुदोदरेषु घटमानंदलपुट निरुद्ध पक्षसंह ती ना मुञ्चरत्सु हुंका-
रेषु, प्रभातशिशिरवाय्वाहँतमुत्तप्तजतुरसालिष्टपक्ष्ममालमिव सशेषनिद्रा जिह्नतारं चक्षुरु-
न्मीलयत्सु शनैः शनैरूपर शय्या धूसरक्रोडरोमँराजिषु वनमृगेषु, इतस्ततः संचरत्सु वनचरेषु,
विजृम्भमाणे श्रोत्रहारिणि पम्पासर : कलहंसकोलाहले, समुल्लसति नर्तित शिखण्डिनि मनोहरे
वनेति । वनमहिषाः सैरिभास्तेषां रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य बिन्दवः पृषन्ति तान्वहती-
त्येवंशीलः स तस्मिन् । चलितेति । चलिताः कम्पिता: पल्लवाः किसलयानि यासामेवंविधा या लता वल्लय-
तासां लास्यं नृत्यं तस्योपदेशः शिक्षणं तस्य व्यसनं विद्यते यस्य स तस्मिन् । विघटेति । विघटमानानि
विकाश प्राप्यमाणानि यानि कमलखण्डानि नलिनवनानि तेषां मधु रसस्तस्य सीकरा वाताक्षिप्तकणास्तेषा-
मासारो वेगवान्वर्षो विद्यते यस्मिन्स तथा तस्मिन् । कुसुमामोदेति । कुसुमानामामोदः परागस्तेन
तर्पितं प्रीणितमलिजालं भ्रमरसमूहो येन स तस्मिन् । निशेति । निशाया रात्रेर्यदवसानं प्रान्तस्तेन जाता
जडिमा जडत्वं यस्मिन्स तथा तस्मिन् । अत एव मन्दं मन्दं संचरत इत्येवंशीलः स तथा तस्मिन् । पुनः
केषु । कुमुदोदरेषु कैरवान्तरेषु मधुलिहां हुंकारेष्वव्यक्तशब्देषूच्चरत्सु ब्रुवत्सु सत्सु । इतो मधुलिहो विशेष-
यन्नाह–कमलेति । कमलवनानां प्रबोधपाठका मङ्गलपाठकास्तेषाम् । तथेभगण्ड' एव हस्तिकरट एव
डिण्डिमः पटहो येषां ते तथा तेषां मधुलिहां भ्रमराणां विघटमानानि संकोचं प्राप्यमाणानि यानि दलानि
पत्राणि तेषां पुटानि कोशानि तेषु निरुद्धावरुद्धा पक्षसंहतिश्छदसमूहो येषां ते तथा तेषाम् । पुनः केषु
सत्सु । वनमृगेति । वनमृगेष्वरण्यहरिणेषु शनैः शनैश्चक्षुर्नेत्रमुन्मीलयत्सु विकासयत्सु । अथ चक्षुर्विशेषय-
नाह - प्रभातेति । प्रभातं प्रत्यूषस्तस्य यः शिशिरः शीतलो वायुः समीरस्तेनाहतं पीडितम् । उत्तप्तेति ।
उत्तप्त उष्णीकृतो यो जतुरसो लाक्षारसस्तेनाश्लिष्टालिङ्गिता पक्ष्ममाला नेत्ररोमपर्यिस्य तदिव । सशेषेति ।
सशेषोरिता या निद्रा तया जिह्मा कुटिला तारा कनीनिका यस्य तत् । कीदृशेषु वनमृगेषु । ऊष-
रेति । ऊषरा तृणरहिता या शय्या शयनस्थलं तेन धूसरा धूम्रवर्णा क्रोडरोमराजिर्हृदयलोमपतिर्येषां तेषु ।
पुनः कीदृशेषु । इतस्ततः समन्ततो वनचरेष्वरण्यचारिषु संचरत्सु गच्छत्सु । पुनः केषु सत्सु । विजृम्भेति ।
श्रोत्रहारिणि कर्णमनोहरे पम्पानाम्नः सरसः कलहंसकोलाहले कादम्बकलकले विजृम्भमाणे प्रसृते सति । पुनः
केषु सत्सु । समुल्लसतीति । नर्तिताः शिखण्डिनो मैयूरा येन तस्मिन्मनोहरे रुचिरे वनगजानामरण्यकरिणां
कर्णा एव ताला वाद्यविशेषास्तेषां शब्दो ध्वनिस्तस्मिन्समुल्लसति सति सम्यक्प्रकारेण प्रसरति सति ।
।
टिप्प० - 1 इभगण्डेषु डिण्डिमानान्, डिण्डिमैर्यथा राजादीनामागमनादेः सगौरवं घोषणा क्रियते,
तथा भ्रमरगुअनेन गजराजानामागमन-जागरांदे: सूचना दीयत इति डिण्डिमत्वम् ( रूपकम् ) । न
भ्रमरास्तं वादयन्ति येन इभगण्डस्य डिण्डिमत्वं स्यात् ।
2 घटमानैः सूर्योदयारम्भात् संकुचद्भिः
दलपुटैः निरुद्धा पक्षसंहतिर्येषाम् इत्येवार्थः । विघटनं हि विश्लेषो न संकोचः । 3 कर्णतालशब्द
मेघध्वनि शास्वा हर्षेण ते नृत्यन्तीति भ्रान्तिमान् ।
पाठा० -१ स्वेदजलकणिका; स्वेदकणिका. २ कमलप्रबोध. ३ मधुलिहां पटलेषु. ४ विघटमान; घनघटमान.
५ निबद्ध. ६ झकारेषु; टङ्कारेषु. ७ मारुताहत ८ पक्षमजालम् ९ जिमिततारम् ; जितितारकम् १० राजिषु च.
११ कलहंसकुल १२ शिखण्डिमण्डले.
८ का०