2023-09-02 15:39:34 by Lakshmainarayana achar

This page has been fully proofread twice.

विधे भूमावुपविशति । भृत्याश्च तं तारापीडादनन्तरमवबुध्यन्ते । अप्सरः संभूतानां विद्याधरपत्नीनां गौरी- कादम्बरी - मदिरेत्यादीनि नामानि । एतासां सेवकाः शृङ्गारानुकूलाक्षराः केयूरकमदलेखादयः । देशदेशान्तरेषु संवादवाहकः 'करभकः' ।
शृङ्गारमनश्लीलं प्रेक्षामहे । 'औचित्योपनिबन्धस्तु रसस्योपनिषत्परा' इति ध्वनिकृत् । तत्रापि शृङ्गारो रसः परमोज्ज्वलः । अस्यौचित्येन निर्वाहोऽनेन सफलतया कृतः । यद्यपि कुमारीपुरे 'अतिरिक्तं सुरतमिवाभ्यस्यन्तीनाम्' इत्याद्युच्यते (पृ. ३८१) किन्तु शृङ्गारभूमिकारम्भाय, कुमारीणां प्राप्तयौवनत्वसूच-
नाय, तन्न तथाऽश्लीलम् । प्रत्युत कुमारस्य शृङ्गारोद्भवाय उपयुक्तमेव तत् ।
 
लोकचरित्रावेक्षणम्
 
लोकावेक्षणमपूर्वं बाणस्य । श्रूयते यदयं स्वतन्त्रचरित्रैर्मित्रै: सह भूयांसं कालं स्वतन्त्रतया लोकानां 'वचनीयतामिवावहन् पर्यन्ततो यथेच्छं बभ्राम । एतस्य मित्रेषु सर्वविधा एव कलाज्ञातारोऽभूवन् ।
आक्षिक-नर्तक-संवाहक-ताम्बूलिकानारभ्य महाकविप्रभृतयः सर्व एवाऽभवन् । ज्ञानानुभवाय सोयं प्रघट्टक उल्लिख्यतेऽधस्तात् -
 
"अभवंश्चास्य वयसा समानाः सुहृदः सहायाश्च । तद्यथा- भ्रातरौ पारशवौ चन्द्रसेनभ्रातृषेणौ, भाषाकविरीशानः परं मित्रम् । प्रणयिनौ रुद्रनारायणौ । विद्वांसौ वारबाणवासवानौ । वर्णकनिवि- र्वेणीभारतः प्राकृतकृत्कुलपुत्रो वायुविकारः । बन्दिनाव- भङ्गबाणसूचीबाणौ । कात्यायनिका चक्रवाकिका । जाङ्गुलिको
मयूरकः । ताम्बूलदायकश्चण्डकः । भिषक्पुत्रो मन्दारकः । पुस्तकवाचकः सुदृष्टिः । कलादश्चामीकरः । हैरिकः सिन्धुसेनः । लेखको गोविन्दकः । चित्रकृद्वीरवर्मा । पुस्तककृत्कुमारदत्तः । मार्दङ्गिको जीमूतः । गायनौ सोमिलग्रहादित्यौ । सैरन्ध्री कुरङ्गिका । वांशिकौ मधुकरपारावतौ । गान्धर्वोपाध्यायो दर्दुरकः ।
संवाहिका केरलिका । लासकयुवा ताण्डविकः । आक्षिक आखण्डलक: । कितवो भीमकः । शैलालियुवा
शिखण्डकः । नर्तकी हरिणिका । पाराशरी सुमतिः । क्षपणको वीरदेवः । कथको जयसेनः । शैवो वक्रघोणः । मन्त्रसाधकः करालः । असुरविवरव्यसनी लोहिताक्षः । धातुवादविद्विहङ्गमः । दार्दुरिको दामोदरः । ऐन्द्रजालिकश्चकोराक्षः । मस्करी ताम्रचूडः ।" [ पीटर्सन् इन्ट्रोडक्शन् ]
 
कविः किल गुणदोषादीनां सर्वेषामेव मार्मिको भवतीति प्रसिद्ध्यनुसारं सर्वमेव लोकचरित्रमयमेतेषां संगत्या संजग्राह । एतस्य प्रतिफलमस्य काव्येषु स्पष्टमुपलभ्यते । गृहस्थस्य कार्याणि [ जन्मारभ्य पालनपर्यन्तानि - यथा प्रसूतायाः किं किं संविधानकमिति मध्ये अतिप्रगल्भाः कुलवृद्धाः स्त्रियोपि न जानीयु-
र्यानि किल बाणेन चन्द्रापीडप्रसवे वर्णितानि ] । संतानार्थं के के व्रत-देवताभ्यर्थनादिकाः क्रियन्ते तेषां सर्वाङ्गपूर्ण: कोष इव दर्शितः ( चन्द्रापीडकथायाम् ) । रुग्णस्य कथमुपचर्या, कानि कान्यरिष्टलक्षणानि, रुग्णावस्थायां रोगिणः का परिस्थितिश्चेष्टा चेति सर्वमविकलं चित्रयामास ( हर्षचरिते ) । तान्त्रिकाः स्वस्य
सिद्धिप्राप्तये, निध्यादीनामुपलम्भाय च कीदृशीमुत्कटां लालसां वहन्ति, कश्च तेषामुपायसंरम्भ इति सर्वाण्यपि साकल्येनोपनिबबन्ध ( 'जरद्द्रविडधार्मिकस्य' चरिते ) । एतदेव सर्वविधं लोकनैपुण्यमवेक्ष्य बाणस्याग्रे कस्यापि कवेः प्रतिभा नाधिकं प्रतिभासते । न च कादम्बर्याः संमुखे किंचिदपि 'कथा' काव्य-
मुत्कर्षं लभते, लेभे च । एतस्य रोचकतामुपलक्ष्यैव हि 'कादम्बरीरसज्ञेभ्य आहारोपि न रोचते' इति सहृदयसमाजे प्रासिध्यत् ।
 
बाणश्चान्ये गद्यकाराश्च
 
गद्यकाव्यकृत्सु सुबन्धुर्दुरूहश्लेषयमकादिशब्दचमत्कारविषये कदाचित्प्रभवेत्परम् औचित्यनिर्वाहे कथासंघटनायां च न बाणतः कथमप्युत्कृष्यत इति पूर्वमुक्तमेव, अतो न पुनः प्रपञ्चनमावश्यकम् । ये पुनर्द्वण्डिरचनां बाणलेखनीत उत्कृष्टा- मुल्लपन्तः श्रूयन्ते ते तु रचनापरीक्षणे न मार्मिका इति प्रतिभाति ।
अत