2023-10-09 12:00:04 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथामुखे-
कुसुमप्रकरे तारागणे, संध्यामुपासितुमुत्तराशावलम्बिनि [^१]मानससरस्तीमिषो॑ [^२]वावतरति सप्तर्षि -
मण्डले, तटगतविषै- [^३]घट्टितशुक्तिसंपुट विप्रकीर्णम रुणकरप्रेरणाधोगलितमुडुगण- मिव मुक्ताफलनि-
करमुद्हति धव [^४]लितपुलिमुदन्वति पूर्वेतरे, तुषारबिन्दुवर्षिणि विबुद्धशिखिकुले विजृम्भमा-
णकेसरिणि करिणीकदम्बकप्रबोध्य [^५]मानसमदकरिणि क्षपाजलजडकेसरं कुसुम निकर
मुदयगिरि-
[^६]शिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः [^७]समुत्सृजति कानने, रासभरोम [^८]धूसरासु

वनदेवताप्रासादानां तरूणां शिखरेषु पारावतमालायमानासु [^९]धर्मपताकाखिस्विव समुन्मिषन्तीषु
तपोवनाग्निहोत्रधूमलेखासु, अवश्यायसीकरिणि लुलितकमलवने रैंत[^१०]रत [^११]खिन्नशबर- सीमन्तिनीखे-

 
[ टि ]--
योजनीयम् । पुनः कस्मिन्सति । तटेति । तटगतानि तीरप्राप्तानि विघट्टितानि स्फुटितानि यानि शुक्तिसंपुटान्य.
-
ब्धिमण्डूकीपुटानि तेभ्यो विप्रकीर्णं पर्यस्तम् । कीदृशमिव । अरुणस्य सूर्यस्य ये कराः किरणास्तेषां प्रेरणा नोदना

तस्मादधो गलितमधः पतितं उडुगणमिव । धवलितं शुभ्रीकृतं पुलिनं जलोज्झितं तटं येनैवंभूतं मुक्ताफलानां
निकरं समूहमुद्वहति धारयत्युदन्वति समुद्रे सति । पूर्व इतरो यस्मादिति बहुव्रीहिः । तस्मान्न सर्वादित्वम् । पश्चिम-
समुद्रे सतीत्यर्थः । यद्वा पूर्वस्मान्नीचः पूर्वेतरः । 'इतरस्त्वन्यनीचयोः' इत्यमरः । तस्मिन् । अतो नीचार्थवाचि-
त्वान्न सर्वादित्वम् । पुनः कस्मिन्सति । कानने सति । अथ काननं विशेषयन्नाह - तुषारेति । तुषारस्य तुहिनस्य

बिन्दूनां पृषतां वर्षो यस्मिंस्तत्तथा तस्मिन् । विबुद्धेति । विबुद्धं शिखिकुलं मयूरकुलं यस्मिंस्तत्तथा,
विजृम्भमाणा
बिन्दूनां पृषतां वर्षो यस्मिंस्तत्तथा तस्मिन् । विबुद्धेति । विबुद्धं शिखिकुलं मयूरकुलं यस्मिंस्तत्तथा,
जृम्भायुक्ताः केसरिणः सिंहा यस्मिंस्तत्तथा । करिणीति । करिणीनां हस्तिनीनां कदम्बकं समूहस्तेन प्रबोध्यमाना
जागरावस्थां प्राप्यमाणाः समदा मदेन सह वर्तमानाः करिणो हस्तिनो यस्मिन् । क्षपेति । क्षपाजलेन रात्रिसंब-
न्धितुषारेण जडानि स्तम्भितानि केसराणि किञ्जल्कानि यस्यैतादृशं कुसुमनिकरं पुष्पसमूहम् । उदयेति । उदय-
गिरि- रुदयाद्रिस्तस्य शिखरं शृङ्गं तत्र स्थितं सवितारं श्रीसूर्यमिवो- द्दिश्याश्रित्य । पल्लवेति । पल्लवा एव किसलया-
न्येवाञ्जलयस्तैः समुत्सृजति प्रयच्छति सति । पुनः कासु सत्सु । रासभेति । रासभस्य बालेयस्य रोमाणि तनू-
रुहाणि तद्वद्धूसरासु धूम्रवर्णासु । वनेति । वनदेवताः काननाधिष्ठात्र्यस्तासां प्रासादाश्चैत्यानि तेषां तरूणां [^1]च शिख-
रेषु प्रान्तेषु पारावतानां कपोतानां माला श्रेणिस्तद्वदाचरन्तीति ण्यन्तत्वाच्छानच् । तासु । धर्मेति । धर्मे यज्ञादौ
पताका वैजयन्त्यस्तास्विव समुन्मिषन्तीषु समुत्सर्पन्तीषु । तप इति । तपोवने यदग्निहोत्रमभ्याधानं तस्य धूम-
लेखा धूमस्तोमपङ्क्यस्तासु । पुनः कस्मिन्सति । प्राभातिकेति । प्राभातिके प्रत्यूषसंबन्धिनि मातरिश्वनि वायौ ।
'मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः' इति कोशः । प्रवाति प्रवहमाने सति । कीदृशे । अवेति । अवश्यायो
हिमं तस्य सीकरा यस्मिन् । 'वातास्तं वारि सीकर : ' इति कोशः । वायुं विशेषयन्नाह – लुलितेति । लुलितं

कम्पितं कमलानां नलिनानां वनं खण्डं येन स तस्मिन् । रतेति । रतं मैथुनं तत्र खिन्नाः खेदं प्राप्ता
याः शबरसीमन्तिन्यो भिल्लवध्व- स्तासां यत्स्वेदजलं प्रस्खेवेदवारि तस्य कणा बिन्दवस्तेषामपहारिणि हरणशीले ।
 
टिप्प० -

 
[^
1]F. अत्रापि टीकाकर्तुअंर्भ्रमः । वनदेवतानां कृते ये प्रासादाः
( हव इव) विहारहर्म्याणि तेषां
तपोवनतरूणां शिखरेषु पारावत- मालायमानासु [ राजप्रासादानामुपरि कपोता विश्राम्यन्तीति प्रसिद्धम् ।
एवमेव वनदेवताप्रासादेषु वृक्षेषु अग्निहोत्रधूमलेखा-
स्तथा प्रतीयन्ते यथा कपोतमाला एव स्थिताः
स्थु
स्युरित्याशयः,
( क्यङ्गता लुप्तोपमा ) ] धर्मपता काखिस्विव रासभरोमधूसरासु तपोवनाझिग्निधूमलेखासु
समुन्मिषन्तीषु सतीष्विति योजना ।
 
पाठा
 

 
[^
]G. मानससरस:.
[^
]G.अम्बरादवतरति .
[^
]G. विघटित .
[^
]G. पुलिनतटम्; पुलिनतलम् .
[^
]G. मानमदकरिणी
स्पष्टे च जाते प्रभाते.
[^
]G. स्थित .
[^
]G. उत्सृजति .
[^
]G. धूसरासु वनराजिषु .
[^
]G. पताकासु.
[^
१० रति ]G. रति.
[^
११]G. स्विन्न.