This page has not been fully proofread.

कादम्बरी ।
 
[ कथामुखे-
कुसुमप्रकरे तारागणे, संध्यामुपासितुमुत्तराशावलम्बिनि मानससरस्ती र मिषो॑वतरति सप्तर्षि -
मण्डले, तटगतविषैट्टितशुक्तिसंपुट विप्रकीर्णम रुणकरप्रेरणाधोगलितमुडुगणमिव मुक्ताफलनि-
करमुद्रहति धवलितपुलिममुदन्वति पूर्वेतरे, तुषारबिन्दुवर्षिणि विबुद्धशिखिकुले विजृम्भमा-
णकेसरिणि करिणीकदम्बकप्रबोध्य मानसमदकरिणि क्षपाजलजडकेसरं कुसुम निकर
मुदयगिरि-
शिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः समुत्सृजति कानने, रासभरोमधूसरासु
वनदेवताप्रासादानां तरूणां शिखरेषु पारावतमालायमानासु धर्मपताकाखिव समुन्मिषन्तीषु
तपोवनाग्निहोत्रधूमलेखासु, अवश्यायसीकरिणि लुलितकमलवने रैंतखिन्नशबरसीमन्तिनीखे-
योजनीयम् । पुनः कस्मिन्सति । तटेति । तटगतानि तीरप्राप्तानि विघट्टितानि स्फुटितानि यानि शुक्तिसंपुटान्य.
ब्धिमण्डूकीपुटानि तेभ्यो विप्रकीर्ण पर्यस्तम् । कीदृशमिव । अरुणस्य सूर्यस्य ये कराः किरणास्तेषां प्रेरणा नोदना
तस्मादधो गलितमधः पतितं उडुगणमिव । धवलितं शुभ्रीकृतं पुलिनं जलोज्झितं तटं येनैवंभूतं मुक्ताफलानां
निकरं समूहमुद्वहति धारयत्युदन्वति समुद्रे सति । पूर्व इतरो यस्मादिति बहुव्रीहिः । तस्मान्न सर्वादित्वम् । पश्चिम-
समुद्रे सतीत्यर्थः । यद्वा पूर्वस्मान्नीचः पूर्वेतरः । 'इतरस्त्वन्यनीचयोः' इत्यमरः । तस्मिन् । अतो नीचार्थवाचि-
त्वान्न सर्वादित्वम् । पुनः कस्मिन्सति । कानने सति । अथ काननं विशेषयन्नाह - तुषारेति । तुषारस्य तुहिनस्य
विजृम्भमाणा
बिन्दूनां पृषतां वर्षो यस्मिंस्तत्तथा तस्मिन् । विबुद्धेति । विबुद्धं शिखिकुलं मयूरकुलं यस्मिंस्तत्तथा,
जृम्भायुक्ताः केसरिणः सिंहा यस्मिंस्तत्तथा । करिणीति । करिणीनां हस्तिनीनां कदम्बकं समूहस्तेन प्रबोध्यमाना
जागरावस्थां प्राप्यमाणाः समदा मदेन सह वर्तमानाः करिणो हस्तिनो यस्मिन् । क्षपेति । क्षपाजलेन रात्रिसंब-
न्धितुषारेण जडानि स्तम्भितानि केसराणि किञ्जल्कानि यस्यैतादृशं कुसुमनिकरं पुष्पसमूहम् । उदयेति । उदय-
गिरिरुदयाद्रिस्तस्य शिखरं शृङ्गं तत्र स्थितं सवितारं श्रीसूर्यमिवोद्दिश्याश्रित्य । पल्लवेति । पल्लवा एव किसलया-
न्येवाञ्जलयस्तैः समुत्सृजति प्रयच्छति सति । पुनः कासु सत्सु । रासभेति । रासभस्य बालेयस्य रोमाणि तनू-
रुहाणि तद्वद्धूसरासु धूम्रवर्णासु । वनेति । वनदेवताः काननाधिष्ठात्र्यस्तासां प्रासादाश्चैत्यानि तेषां तरूणां च शिख-
रेषु प्रान्तेषु पारावतानां कपोतानां माला श्रेणिस्तद्वदाचरन्तीति ण्यन्तत्वाच्छानच् । तासु । धर्मेति । धर्मे यज्ञादौ
पताका वैजयन्त्यस्तास्विव समुन्मिषन्तीषु समुत्सर्पन्तीषु । तप इति । तपोवने यदग्निहोत्रमभ्याधानं तस्य धूम-
लेखा धूमस्तोमपङ्क्रयस्तासु । पुनः कस्मिन्सति । प्राभातिकेति । प्राभातिके प्रत्यूषसंबन्धिनि मातरिश्वनि वायौ ।
'मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः' इति कोशः । प्रवाति प्रवहमाने सति । कीदृशे । अवेति । अवश्यायो
हिमं तस्य सीकरा यस्मिन् । 'वातास्तं वारि सीकर : ' इति कोशः । वायुं विशेषयन्नाह – लुलितेति । लुलितं
कम्पितं कमलानां नलिनानां वनं खण्डं येन स तस्मिन् । रतेति । रतं मैथुनं तत्र खिन्नाः खेदं प्राप्ता
याः शबरसीमन्तियो भिल्लवध्वस्तासां यत्स्वेदजलं प्रस्खेदवारि तस्य कणा बिन्दवस्तेषामपहारिणि हरणशीले ।
 
टिप्प० - 1 अत्रापि टीकाकर्तुअंमः । वनदेवतानां कृते ये प्रासादाः ( हव ) विहारहर्म्याणि तेषां
तपोवनतरूणां शिखरेषु पारावतमालायमानासु [ राजप्रासादानामुपरि कपोता विश्राम्यन्तीति प्रसिद्धम् ।
एवमेव वनदेवताप्रासादेषु वृक्षेषु अग्निहोत्रधूमलेखास्तथा प्रतीयन्ते यथा कपोतमाला एव स्थिताः
स्थुरित्याशयः, ( क्यङ्गता लुप्तोपमा ) ] धर्मपता काखिव रासभरोमधूसरासु तपोवनाझिधूमलेखासु
समुन्मिषन्तीषु सतीष्विति योजना ।
 
पाठा
 
•१ मानससरस:. २ अम्बरादवतरति ३ विघटित ४ पुलिनतटम्; पुलिनतलम् ५ मानमदकरिणी
स्पष्टे च जाते प्रभाते. ६ स्थित ७ उत्सृजति ८ धूसरासु वनराजिषु ९ पताकासु. १० रति ११ स्विन.