कादम्बरी /88
This page has been fully proofread once and needs a second look.
पूर्वभागः ।
वृक्षमूलनिपतितानि
एकदा तु प्रभातसंध्यारागलोहिते
[ टि ]-- दलनं विदारणं तेन मसृणिता संजातचिक्कणतात एव क्षीणा घृष्टोपान्त्यलेखा प्रान्तसमीपवर्तिनी राजिर्यस्यैवंभूतेन
चक्षुपुटेन त्रोटीसंपुटेन श्रमवशात्स्फुटिता स्फोटं प्राप्ता अग्रकोटि- रग्रिमतीक्ष्णतरभागो यस्य स तेन । परेति । अशक्तिवशात्परेषां नीडानि तेभ्यः पतिताः स्रस्ता याः शालिवल्लर्यस्ताभ्यस्तण्डुलकणा- नादायादाय गृहीत्वा गृहीत्वा । वृक्षेति । वृक्षमूलनिपतितानि शुकानां कुलानि तैरवदलितानि खण्डितानि फलशकलानि तानि समाहत्य एकीकृत्य परिभ्रमितुमशक्तो दूरे परिभ्रमणाशक्तो मह्यमदाद्ददौ । घुसंज्ञकदाधातोर्लुङि रूपम् । एवं प्रतिदिवसं प्रत्यहमनेन प्रकारेणानीतं भक्ष्यं मह्यं दत्त्वा मयोपभुक्तं ततः शेषमुद्वरितमात्मनाशनमकरोत् । ध्यप्रत्ययानुशासनवशाच्चतुर्थ्यर्थे तृतीया ।
एकदा त्विति । एकदैकस्मिन्समये कोलाहलमशृणवमिति दूरे- णान्वयः । प्रभेति । प्रभातस्य प्रातःकालस्य या संध्या तत्संबन्धी यो रागस्तेन लोहिते रक्ते । गगनेति । गगनतलमेव [^1]कमलिनी वियद्गङ्गा, कमलिनी वा । तस्या मधु रसस्तेनानुरक्तं पक्षपुटं छदसंपुटं यस्य तस्मिन्वृद्धहंस इव जरत्कलहंस इव मन्दाकिनी गङ्गा तस्याः पुलिनं सैकतं तस्माच्चन्द्रमसि निशानाथेऽपरो यो जलनिधिः पश्चिमसमुद्रस्तस्य तटं तीरं प्रत्यवतरत्युत्तीर्णे सति ।
परीति । परिणतः पक्वो यो रङ्कुर्मृगविशेषस्तस्य रोमाणि तनूरुहाणि तद्वत्पाण्डुनि शुभ्रे विशालतां विस्तीर्णतामाशाचक्रवाले दिक्समूहे व्रजति गच्छति सति । गजेति । गजानां हस्तिनां यद्रुधिरं तेन रक्ताः शोणिता या हरिसटाः सिंहस्कन्धकेसरास्तत्संबन्धि यल्लोम तद्वत् लोहिनीभिः आरक्ताभिः प्रतप्ता ये लाक्षिका जतु- विकारोद्भवास्तन्तवस्तद्वत्पाटलाभिः श्वेतरक्ताभिरायामिनी-
दलनं विदारणं तेन मसृणिता संजातचिक्कणतात एव क्षीणा घृष्टोपान्त्यलेखा प्रान्तसमीपवर्तिनी राजिर्यस्यैवंभूतेन
चक्षुपुटेन त्रोटीसंपुटेन श्रमवशात्स्फुटिता स्फोटं प्राप्ता अग्रकोटिरग्रिमतीक्ष्णतरभागो यस्य स तेन । परेति ।
अशक्तिवशात्परेषां नीडानि तेभ्यः पतिताः स्रस्ता याः शालिवल्लर्यस्ताभ्यस्तण्डुलकणानादायादाय गृहीत्वा गृहीत्वा ।
वृक्षेति । वृक्षमूलनिपतितानि शुकानां कुलानि तैरवदलितानि खण्डितानि फलशकलानि तानि समाहत्य एकीकृत्य
परिभ्रमितुमशक्तो दूरे परिभ्रमणाशक्तो मह्यमदाद्ददौ । धुसंज्ञकदाधातोर्लुङि रूपम् । एवं प्रतिदिवसं प्रत्यहमनेन प्रकारे-
णानीतं भक्ष्यं मह्यं दत्त्वा मयोपभुक्तं ततः शेषमुद्वरितमात्मनाशनमकरोत् । ध्यप्रत्ययानुशासनवशाच्चतुर्थ्यर्थे तृतीया ।
एकदा त्विति । एकदैकस्मिन्समये कोलाहलमशृणवमिति दूरेणान्वयः । प्रभेति । प्रभातस्य प्रातःकालस्य
या संध्या. तत्संबन्धी यो रागस्तेन लोहिते रक्ते । गगनेति । गगनतलमेव कमेलिंनी वियद्गङ्गा, कमलिनी वा ।
तस्या मधु रसस्तेनानुरक्तं पक्षपुटं छदसंपुटं यस्य तस्मिन्वृद्धहंस इव जरत्कलहंस इव मन्दाकिनी गङ्गा तस्याः
पुलिनं सैकतं तस्माञ्चन्द्रमसि निशानाथेऽपरो यो जलनिधिः पश्चिमसमुद्रस्तस्य तटं तीरं प्रत्यवतरत्युत्तीर्णे सति ।
परीति । परिणतः पक्को यो रङ्कुमृगविशेषस्तस्य रोमाणि तनूरुहाणि तद्वत्पाण्डुनि शुभ्रे विशालतां विस्तीर्णतामा-
शाचक्रवाले दिक्समूहे व्रजति गच्छति सति । गजेति । गजानां हस्तिनां यदुधिरं तेन रक्ताः शोणिता या हरिसटाः
सिंहस्कन्धकेसरास्तत्संबन्धि यल्लोम तद्वत् लोहिनीभिः आरक्ताभिः प्रतप्ता ये लाक्षिका जतुविकारोद्भवास्तन्तवस्तद्व-
त्पाटलाभिः श्वेतरक्ताभिरायामिनीभिर्विस्तारवतीभिरशिशिरा उष्णाः किरणा यस्यैवंभूतः सूर्यस्तस्य दीधितिभिर्दी-
प्तिभिः । काभिरिव । पद्मरागा लोहितकमणयस्तेषां शलाका इषीकास्तासां संमार्जनीभिरिव
र्यमाणे दूरीक्रियमाणे गगनमेव कुट्टिमं
टिप्प० -
[^1]F. गगने प्रभातसन्ध्यालोहिते सतीति पृथगन्वयः । कमलिन्या अरुणवर्णेन मकरन्दरसेन
[^2]F. कु
पाठा
•
[^१]G. निपतिताभ्यः.
[^२]G. तरु.
[^३]G. माह्यमाहारमदात्
[^४]G. मदुपयुक्तम्
[^५]G. गगनतलगगने च; गगनकमलिनी.
[^६]G. मध्वनुरक्त
[^७]G. पक्षसंपुटे.
[^८]G. आतप्तलाक्षिक; संतप्तलाक्ष; अनन्तलाक्षा.
[^९]G. आगामिनीभिः
[^१०]G. रत्नशलाका.
[^११]G. संमार्जिनीभिः.