कादम्बरी /88
This page has not been fully proofread.
शुकोत्पत्तिः ]
पूर्वभागः ।
वृक्षमूलनिपतितानि
ना चपुटेन परनीडंपतिताभ्यः शालिवल्लरीभ्यतण्डुलकणानादायादाय
च शुककुलावदलितानि फलशकलानि समाहत्य परिभ्रमितुमशक्को मह्यमदात् । प्रतिदिवस-
मात्मना च मैदुपभुक्तशेषमकरोदशनम् ।
एकदा तु प्रभातसंध्यारागलोहिते गॅगनतले, कमलिनीमधुरक्तपक्षपुढे वृद्धहंस इव मन्दौ-
किनी पुलिनादपरजलनिधितटमवतरति चन्द्रमसि, परिणतरङ्कुरोमपाण्डुनि ब्रजति विशालता-
माशाचक्रवाले, गजरुधिररक्तहरिसटालोमलोहिनीभिः प्रतप्तलाक्षिकतन्तुपाटलाभिरायामिनी-
भिरशिशिरकिरणदीधितिभिः पद्मरागैंशला कैसंमार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिम-
दलनं विदारणं तेन मसृणिता संजातचिक्कणतात एव क्षीणा घृष्टोपान्त्यलेखा प्रान्तसमीपवर्तिनी राजिर्यस्यैवंभूतेन
चक्षुपुटेन त्रोटीसंपुटेन श्रमवशात्स्फुटिता स्फोटं प्राप्ता अग्रकोटिरग्रिमतीक्ष्णतरभागो यस्य स तेन । परेति ।
अशक्तिवशात्परेषां नीडानि तेभ्यः पतिताः स्रस्ता याः शालिवल्लर्यस्ताभ्यस्तण्डुलकणानादायादाय गृहीत्वा गृहीत्वा ।
वृक्षेति । वृक्षमूलनिपतितानि शुकानां कुलानि तैरवदलितानि खण्डितानि फलशकलानि तानि समाहत्य एकीकृत्य
परिभ्रमितुमशक्तो दूरे परिभ्रमणाशक्तो मह्यमदाद्ददौ । धुसंज्ञकदाधातोर्लुङि रूपम् । एवं प्रतिदिवसं प्रत्यहमनेन प्रकारे-
णानीतं भक्ष्यं मह्यं दत्त्वा मयोपभुक्तं ततः शेषमुद्वरितमात्मनाशनमकरोत् । ध्यप्रत्ययानुशासनवशाच्चतुर्थ्यर्थे तृतीया ।
एकदा त्विति । एकदैकस्मिन्समये कोलाहलमशृणवमिति दूरेणान्वयः । प्रभेति । प्रभातस्य प्रातःकालस्य
या संध्या. तत्संबन्धी यो रागस्तेन लोहिते रक्ते । गगनेति । गगनतलमेव कमेलिंनी वियद्गङ्गा, कमलिनी वा ।
तस्या मधु रसस्तेनानुरक्तं पक्षपुटं छदसंपुटं यस्य तस्मिन्वृद्धहंस इव जरत्कलहंस इव मन्दाकिनी गङ्गा तस्याः
पुलिनं सैकतं तस्माञ्चन्द्रमसि निशानाथेऽपरो यो जलनिधिः पश्चिमसमुद्रस्तस्य तटं तीरं प्रत्यवतरत्युत्तीर्णे सति ।
परीति । परिणतः पक्को यो रङ्कुमृगविशेषस्तस्य रोमाणि तनूरुहाणि तद्वत्पाण्डुनि शुभ्रे विशालतां विस्तीर्णतामा-
शाचक्रवाले दिक्समूहे व्रजति गच्छति सति । गजेति । गजानां हस्तिनां यदुधिरं तेन रक्ताः शोणिता या हरिसटाः
सिंहस्कन्धकेसरास्तत्संबन्धि यल्लोम तद्वत् लोहिनीभिः आरक्ताभिः प्रतप्ता ये लाक्षिका जतुविकारोद्भवास्तन्तवस्तद्व-
त्पाटलाभिः श्वेतरक्ताभिरायामिनीभिर्विस्तारवतीभिरशिशिरा उष्णाः किरणा यस्यैवंभूतः सूर्यस्तस्य दीधितिभिर्दी-
प्तिभिः । काभिरिव । पद्मरागा लोहितकमणयस्तेषां शलाका इषीकास्तासां संमार्जनीभिरिव बहुकरीभिरिव समुत्सा-
र्यमाणे दूरीक्रियमाणे गगनमेव कुट्टिमं बैहिर्द्वारं तत्र यः कुसुमप्रकरः पुष्पसमूहस्तम्मिन्निव तारागणे नक्षत्रसमूहे ।
उत्तरेति । उत्तराशोदीची दिक्तामवलम्बत इत्येवंशीलः स तथा तस्मिन्सप्तर्षिमण्डले सप्तर्षिसमुदाये मानससर-
स्तीरं प्रति संध्यामुपासितुमिव सायंतनविधिं कर्तुमिवावतरति सति । अत्र रूपकम् । अत्र सतीति प्रत्येक मन्वये
टिप्प० -1 गगने प्रभातसन्ध्यालोहिते सतीति पृथगन्वयः । कमलिन्या अरुणवर्णेन मकरन्दरसेन
रक्तपक्षसंपुटो वृद्धहंसो यथा मन्दाकिनी ( वियद्गङ्गा ) पुलिनात् अपरजलनिधितटमवतीर्णो भवेत्तथा
प्रभातसन्ध्यालोहिते चन्द्रमसि अपरजलधितटमवतरति सतीति योजना । पदव्याख्या उपरि दृश्या ।
उपमालंकारः । 2 कुष्टिमं निबद्धा भूः, भूमितलमित्यर्थः ।
पाठा
• १ निपतिताभ्यः. २ तरु. ३ मामाहारमदात् ४ मदुपयुक्तम् ५ गगनतलगगने च; गगनकमलिनी.
६ मध्वनुरक्त ७ पक्षसंपुटे. ८ आतप्तलाक्षिक; संतप्तलाक्ष; अनन्तलाक्षा. ९ आगामिनीभिः १० रत्नशलाका.
११ संमार्जिनीभिः.