2023-10-09 06:59:21 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[ कथामुखे-
क्षेपाः क्षप-
५४
 
कादम्बरी ।
 
सर्व स्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा तै[^१]तस्मिन्नेव क्रोडान्तर्निहिततनयाः
 
यन्ति स्म ।
 
[^२]क्षपा: क्षपयन्ति स्म ।
 
एकस्मिमिंश्च जीर्णकोटरे जायया सह निर्व॑[^३]निर्वसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुर-
हॅ
[^४]हमेको विधिवशात्सूनुरभवम् । अति [^५]प्रैबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया

जननी मे [^६]परलोकमगमत् । [^७]मत् ।अभिमतजायाविनाश- शोकदुःखितोऽपि खलु तातः सुतस्नेहां [^९]हा-
भ्यन्तरे निरुध्य पटुप्रसरमपि शो [^१०]कमेकाकी मत्संवर्धनपर एवाभवत् । [^११]अतिपरिणतवयाश्च
कुशची रानुकारिणीमल्पावशिष्ट- जीर्णपिच्छजालजै [^१२]जर्जरामवस्त्रस्तांसं [^१३]देशै शिथिलामप- गतोत्पतन-
संस्कारां [^१४]पक्षसंततिमुद्हन्, उपारूढ- [^१५]कम्पतया संतापकारिणीमङ्गलमांग्नां जरामिव विधुन्वन्नकठो-

रशेफालिकार्कै [^१६]कुसुमनालपिञ्जरेण कलममञ्जरीदलनमसृणि- [^१७]तक्षीणो [^१८]पान्त्यलेखेन स्फुटिताग्र कोटि-

 
[ टि ]--
पुनः कीदृशेन । असाधारणेन तन्मात्रवृत्तिना गुरुणा परावृत्तेने तथा प्रहतो व्यापादितो यो हरिणो मृगस्तस्य रुधिरं

रक्तं तेनानुरक्तारुणीकृता या शार्दूलस्य सिंहस्य नखकोटिर्नखराधं तद्वत्पाटलेन श्वेतरक्तेन चक्षुपुटेन त्रोटीसंपुटेन

दत्त्वा दत्त्वा । वारंवारं तेभ्यो भक्ष्यदानं वितीर्येत्यर्थः । ततो दिवसकार्यानन्तरम् । तस्मिन्निति । तस्मिन्वृक्ष-

कुहरे क्रोड उत्सङ्गस्तदन्तर्निहितास्तन्मध्यस्थापितास्तनया अपत्यानि यैस्ते तथा । अन्वयस्तु पूर्वमुक्तः ।
 

 
एकस्मिंश्चेति । एकस्मिञ्जीर्णकोटरे चिरकालीननिष्कुहे जायया पत्त्या सह निवसत आसेदुषः पश्चिमे

प्रान्त्ये वयसि दायां वर्तमानस्य स्थितवतः कथमपि महता कष्टेन पितुर्जनकस्य विधिवशाद्दैववशात् । अह

मित्यात्मनिर्देशः । एको नापरः सूनुः सुतोऽभवमजनिषैम् । अतिप्रबलेति । मम जायमानस्यैवोत्पद्यमानस्यैव

अतिप्रबलया अत्यन्तया प्रसववेदनया प्रसूतिव्यथयाभिभूता पीडिता सती मे मम जननी परलोकं भवान्तरम

गमदासीत् । अभिमतेति । अभिमताया अभीष्टाया जायाया विनाशेन मरणेन रोदनादिरूपः शोक

दुःखितोऽपि । अपिः स्नेहदार्ढ्यसूचकः । खलु निश्चितम् । तातः पिता, पटुः स्पष्टः प्रसरो विस्तारो यस्यैवं-

भूतमपि शोकं दुःखं मम सुतस्य पुत्रस्य स्नेहादभ्यंन्तर एव मध्य एव निरुध्यावरुध्यैकाकी पत्नीवि-

युक्तो ममैव यत्संवर्धनं वृद्धिस्तस्यामेव परः तत्परोऽभवत् । अतीति । अतिपरिणतमत्यन्तं पक्कं वयो

यस्य स तथा । अतिजरीयानित्यर्थः । किं कुर्वन् । एतादृशीं पक्षसंततिं वाजसमूहमुद्वहन्दधत् । इतः पक्ष-

संततिं विशेषयन्नाह—कुशेति । कुशो दर्भधीर जीर्णवस्त्रखण्डं तदनुकरोति तत्सादृश्यं भजति या सा ताम् ।

वार्धक्यवशादल्पानि स्तोकान्य व शिष्टान्युर्वरितानि जीर्णानि पुरातनानि पिच्छानि बर्हाणि तेषां जालं तेन

जर्जरां विशीर्णाम् । अवेति । अवस्रस्तो गलितोंऽसदेशो यस्याः सा ताम् । अथवा स्कन्धदेशादवस्रस्तां-

देशा तामत एव शिथिलां लथामदृढावयवसंयोगाम् । अपेति । अपगतो दूरीभूत उत्पतने वियद्गमने

संस्कारः शक्तिविशेषो यस्याः सा ताम् । उपेति । उपारूढः प्राप्तो यः कम्पश्चलनं तस्य भावस्तत्ता तया ।

चः समुच्चये । संतापकारिणीं दुःखदायिनीमङ्गलनां जरां वृद्धावस्थामिव बिधुन्वैन्परित्यजन्निवाकठोरं यच्छेफा-

लिका निर्गुण्डी तस्याः कुसुमं पुष्पं तस्य यन्नालं तद्वत्पिञ्जरेण । कलमेति ! कलमस्य या मञ्जरी तस्या
 

 
टिप्प० -1 गुरुणा महता अपत्यप्रेरणा संतानस्त्रेहेनेत्याशयः । 2 अन्तिमे इत्यर्थः । 3 अजनिषी-

त्याशयः । 4 वृद्धावस्थया यः वीरीरकम्पो भवति तत्रोत्प्रेक्षा - अङ्गलमां जरामिव विधुन्वन् कम्पयन्

इति । जरा संतापकारिणी, अत एव शरीरं कम्पयित्वा तां निपातयितुमिच्छतीत्याशयः ।
 

 
पाठा० -१ स्वस्मिन्नेव. २ सुखं क्षपाः ३ तत्र निवसतः ४ अहमेवैकः ५ प्रबलतया.
 

 
.
 

 
६ लोकान्तरम्.
 

 
.
 

 
७ अगच्छत्॰ ८ दुःखदुःखितः ९ अन्तर्निगृह्य. १० शोकवेगम्. ११ अतिपरिणततया च १२ जर्जरीम्. १३ देशाम्.

१४ संहतिम्. १५ कम्पतया च. १६ कुसुमपिअरेण, १७ क्षीर. १८ उपान्त.