कादम्बरी /86
This page has been fully proofread once and needs a second look.
डेषु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयः, मद [^१]कलबलभद्रहल [^२]मुखाक्षेपवि [^३]कीर्णबहुस्रोतस- मम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलितविगल- दाकाशगङ्गाकमलिनीशङ्का [^४]मुत्पादयन्तः, दिवसकररथतुरंग- [^५]प्रभानुलिप्तमिव गगनतलं [^६]प्रदर्शयन्तः, संचारिणीमिव मरकतस्थलीं विडम्बयन्तः, शैवलपल्लवावलीमिवाम्बरसरसि प्रसारयन्तः, [^७]गगनावततैः पक्षपुढैः कदलीदलैरिव [^८]दिनकरखरकरनिकर [^९]परिखेदितान्याशामुखानि [^१०]वीजयन्तः, वियति [^११]विसारणीम् शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति [^१२]स्म ।
कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान्फलरसान्कल [^१३]मञ्जरीविकारांश्च प्रहतहरिणरुधिरा- [^१४]नुरक्तशार्दूलनखकोटिपाटलेन चञ्चपुटेन दत्त्वा दत्त्वा- धरीकृत-
[ठiटि ]-- न्कालो द्योत्यते । आहारस्य भक्षणस्यान्वेषणं विलोकनं तस्मै नभस्याकाशे विरचिता विहिता पङ्क्तिः श्रेणी
यैस्ते । मदेति । मदेन कलो मनोज्ञो यो बलभद्रो हली तस्य यद्धबलं सीरं तस्य यन्मुखमग्र प्रदेश स्तेन य
आक्षेप आकर्षणं तेन विकीर्णानि पर्यस्तानि बहूनि स्रोतांसि यस्य एवंभूतामम्बरतल आकाशतले कलिन्द-
कन्यामिव यमुनामिव दर्शयन्त आलोकनीयतां प्रापयन्तः । सुरेति । सुराणां देवानां गजो हस्ती तेनो-
न्मूलितोत्पाटिता विगलन्त्यधःपतन्ती याऽऽकाशगङ्गा स्वर्धुनी तस्याः कमलिनी नै[^1]नलिनी तस्याः शङ्कां भ्रान्ति-
मुत्पादयन्तः परेषां जनयन्तः । दिवसेति । दिवसकरः सूर्यस्तस्य यो रथः स्यन्दनस्तस्य ये तुरगा अश्वा
स्तेषां या प्रभा [^2]सैव नीला । हरितहयरथवत्त्वात्सूर्यस्य । तयानुलिप्तमिव लेपनविषयीकृतमिव गगनतलं
नभस्तलं प्रदर्शयन्तो ज्ञापयन्तः । संचारिणीति । संचारिणी भ्रमणशीला मरकतस्याश्मगर्भस्य या स्थली
तामिव विडम्वबन्तस्तिरस्कुर्वन्तः । शैवल इति । शैवलस्य शैवालस्य या पल्लवावली किसलयश्रेणी तामि-
वाम्बर सरसि व्योमतटाके प्रसारयन्तो विस्तारयन्तः । पुनः किं कुर्वन्तः । गगनेति । गगनेऽवततैर्विस्तृतैः
पक्षपुटैः पक्षच्छदैः कदलीनां रम्भाणां दलैरिव । नीलत्वसाम्यात्तदुपमानम् । दिनकरस्य सूर्यस्य खरास्तीक्ष्णा
ये कराः किरणास्तेषां निकर: समूहस्तेन परिखेदितानि संक्लामितानि यान्याशामुखानि दिग्वदनानि वीजयन्तो
व्यजनवातकर्म कुर्वन्तः । पुनः किं कुर्वन्तः । वियतीति । वियत्याकाशे विसारिणीं विस्तारिणीं शष्पवीथीं
बालतृणोपयुक्त- पद्धतिमिवारचयन्तो विरचयन्तः । सेन्द्रायुधमिति । इन्द्रायुधं शक्रधनुस्तेन सहवर्त -
मानमिवान्तरिक्षं गगनमादधानाः कुर्वाणाः । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतो विहित आहारो
भोजनं यैस्ते क्षपास्त्रियामाः क्षपयन्ति स्मेत्यनेनान्वयः । 'क्षिप प्रेरणे' णिजन्तस्य रूपम् । किं कृत्वा ।
पुनरिति । स्वतृप्यनन्तरं प्रतिनिवृत्त्य परावृत्त्य । आत्मेति । आत्मीयाः स्वकीया ये कुलाया नीडानि तत्रा-
वस्थितेभ्य उषितेभ्यः शावकेभ्यः पोतेभ्यो विविधान्नानाप्रकारान्फलरसान्सस्य- निर्यासान् । कलमेति । कलमः
[^3]कलामकस्तस्य मञ्जयर्यो वल्लर्यस्तासां विकाराः परिपाकविशेषेण परिणताः कणास्तांस्तथा- पत्येषु संतानेषु यत्प्रेम
स्नेहस्तैतेन । कीदृशेन । अधरीति । ।अधरीकृतो न्यूनत्वमापादितः सर्ववस्तुसंबन्धी स्नेहो येन स तथा तेन ।
टिप्प० -[^1]F. आकाशे उड्डीयमानान् शुकशकुनीन् दृष्ट्वा सुरगजेन उन्मूलितायाः कमलिन्या हरितानां
पत्राणां शङ्का भवतीत्याशयः । श्
भ्रान्तिमा उनलंकारः ।
[^2]F. सूर्यरथाश्वानां या ( हरिता) प्रभा तथा विच्छु-
रितमिव गगनं दर्शयन्त इत्याशयः ( वस्तूत्प्रेक्षा ) ।
[^3]F. तण्डुलानां या मअञ्जर्यः कणिशाः, 'बाल' इति
ख्याताः ।
पाठा० -[^१]G. हलधर.
[^२]G. मुखोत्क्षेप .
[^३]G. विप्रकीर्ण.
[^४]G. उपजनयन्तः
[^५]G. अनुलिप्तगगनतलम् .
[^६]G. उपपादयन्तः
.
[^७]G. गगनविततैः.
[^८]G. दिनकरकर .
[^९]G. परिखेदिताशामुखानि .
[^१०]G. परिवीजयन्तः.
[^११]G. विस्तारिणीम् .
[^१२ स्म.]G. स्म शुक-
शकुनयः .
[^१३]G. फलविकाराम्.
[^१४]G. प्रसक्त.
。
कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान्फलरसान्कल [^१३]मञ्जरीविकारांश्च प्रहतहरिणरुधिरा- [^१४]नुरक्तशार्दूलनखकोटिपाटलेन चञ्चपुटेन दत्त्वा दत्त्वा- धरीकृत-
[
भ्रान्तिमा
[^2]F. सूर्यरथाश्वानां या ( हरिता) प्रभा तथा विच्छु
[^3]F. तण्डुलानां या म
[^२]G. मुखोत्क्षेप
[^३]G. विप्रकीर्ण.
[^४]G. उपजनयन्तः
[^५]G. अनुलिप्तगगनतलम्
[^६]G. उपपादयन्तः
[^७]G. गगनविततैः.
[^८]G. दिनकरकर
[^९]G. परिखेदिताशामुखानि
[^१०]G. परिवीजयन्तः.
[^११]G. विस्तारिणीम्
[^१२
[^१३]G. फलविकाराम्.
[^१४]G. प्रसक्त.