2023-10-09 06:11:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

डेषु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयः, मद [^१]कलबलभद्रहल [^२]मुखाक्षेपवि [^३]कीर्णबहुस्रोतस- मम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलितविगल- दाकाशगङ्गाकमलिनीशङ्का [^४]मुत्पादयन्तः, दिवसकररथतुरंग- [^५]प्रभानुलिप्तमिव गगनतलं [^६]प्रदर्शयन्तः, संचारिणीमिव मरकतस्थलीं विडम्बयन्तः, शैवलपल्लवावलीमिवाम्बरसरसि प्रसारयन्तः, [^७]गगनावततैः पक्षपुढैः कदलीदलैरिव [^८]दिनकरखरकरनिकर [^९]परिखेदितान्याशामुखानि [^१०]वीजयन्तः, वियति [^११]विसारणीम् शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति [^१२]स्म ।
कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान्फलरसान्कल [^१३]मञ्जरीविकारांश्च प्रहतहरिणरुधिरा- [^१४]नुरक्तशार्दूलनखकोटिपाटलेन चञ्चपुटेन दत्त्वा दत्त्वा- धरीकृत-
 
[ ठiकालो द्योत्यते । आहारस्य भक्षणस्यान्वेषणं विलोकनं तस्मै नभस्याकाशे विरचिता विहिता पतिः श्रेणी
यैस्ते । मदेति । मदेन कलो मनोज्ञो यो बलभद्रो हली तस्य यद्धलं सीरं तस्य यन्मुखमग्र प्रदेश स्तेन य
आक्षेप आकर्षणं तेन विकीर्णानि पर्यस्तानि बहूनि स्रोतांसि यस्य एवंभूतामम्बरतल आकाशतले कलिन्द-
कन्यामिव यमुनामिव दर्शयन्त आलोकनीयतां प्रापयन्तः । सुरेति । सुराणां देवानां गजो हस्ती तेनो-
न्मूलितोत्पाटिता विगलन्त्यधःपतन्ती याऽऽकाशगङ्गा स्वर्धुनी तस्याः कमलिनी नैलिनी तस्याः शङ्कां भ्रान्ति-
मुत्पादयन्तः परेषां जनयन्तः । दिवसेति । दिवसकरः सूर्यस्तस्य यो रथः स्यन्दनस्तस्य ये तुरगा अश्वा
स्तेषां या प्रभा सैव नीला । हरितहयरथवत्त्वात्सूर्यस्य । तयानुलिप्तमिव लेपनविषयीकृतमिव गगनतलं
नभस्तलं प्रदर्शयन्तो ज्ञापयन्तः । संचारिणीति । संचारिणी भ्रमणशीला मरकतस्याश्मगर्भस्य या स्थली
तामिव विडम्वन्तस्तिरस्कुर्वन्तः । शैवल इति । शैवलस्य शैवालस्य या पल्लवावली किसलयश्रेणी तामि-
वाम्बर रसि व्योमतटाके प्रसारयन्तो विस्तारयन्तः । पुनः किं कुर्वन्तः । गगनेति । गगनेऽवततैर्विस्तृतैः
पक्षपुटैः पक्षच्छदैः कदलीनां रम्भाणां दलैरिव । नीलत्वसाम्यात्तदुपमानम् । दिनकरस्य सूर्यस्य खरास्तीक्ष्णा
ये कराः किरणास्तेषां निकर: समूहस्तेन परिखेदितानि संक्लामितानि यान्याशामुखानि दिग्वदनानि वीजयन्तो
व्यजनवातकर्म कुर्वन्तः । पुनः किं कुर्वन्तः । वियतीति । वियत्याकाशे विसारिणीं विस्तारिणीं शष्पवीथीं
बालतृणोपयुक्तपद्धतिमिवारचयन्तो विरचयन्तः । सेन्द्रायुधमिति । इन्द्रायुधं शक्रधनुस्तेन सहवर्त -
मानमिवान्तरिक्षं गगनमादधानाः कुर्वाणाः । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतो विहित आहारो
भोजनं यैस्ते क्षपास्त्रियामाः क्षपयन्ति स्मेत्यनेनान्वयः । 'क्षिप प्रेरणे' णिजन्तस्य रूपम् । किं कृत्वा ।
पुनरिति । स्वतृप्यनन्तरं प्रतिनिवृत्त्य परावृत्त्य । आत्मेति । आत्मीयाः स्वकीया ये कुलाया नीडानि तत्रा-
वस्थितेभ्य उषितेभ्यः शावकेभ्यः पोतेभ्यो विविधान्नानाप्रकारान्फलरसान्सस्यनिर्यासान् । कलमेति । कलमः
कलामकस्तस्य मञ्जय वल्लर्यस्तासां विकाराः परिपाकविशेषेण परिणताः कणास्तांस्तथापत्येषु संतानेषु यत्प्रेम
स्नेहस्तैन । कीदृशेन । अधरीति । अधरीकृतो न्यूनत्वमापादितः सर्ववस्तुसंबन्धी स्नेहो येन स तथा तेन ।
 
टिप्प० -1 आकाशे उड्डीयमानान् शुकशकुनीन् दृष्ट्वा सुरगजेन उन्मूलितायाः कमलिन्या हरितानां
पत्राणां शङ्का भवतीत्याशयः । श्रान्तिमा उलंकारः । 2 सूर्यरथाश्वानां या ( हरिता) प्रभा तथा विच्छु-
रितमिव गगनं दर्शयन्त इत्याशयः ( वस्तूत्प्रेक्षा ) । 3 तण्डुलानां या मअर्यः कणिशाः, 'बाल' इति
ख्याताः ।
 
पाठा० -१ हलधर. २ मुखोत्क्षेप ३ विप्रकीर्ण. ४ उपजनयन्तः ५ अनुलिप्तगगनतलम् ६ उपपादयन्तः
७ गगनविततैः. ८ दिनकरकर ९ परिखेदिताशामुखानि १० परिवीजयन्तः. ११ विस्तारिणीम् १२ स्म. शुक-
शकुनयः १३ फलविकाराम्. १४ प्रसक्त.