2023-10-08 17:38:27 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकानां निवासादि ]
 
पूर्वभागः ।
 
डेषु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयः, मदकले [^१]कलबलभद्रहल [^२]मुखा-
क्षेपवि [^३]कीर्ण बहुस्रोतस- मम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलितविगल- दाकाश-
गङ्गा कमलिनीशङ्का [^४]मुत्पादयन्तः, दिवसकररथतुरंग- [^५]प्रभानुलिप्तमिव गगनतलं [^६]प्रदर्शयन्तः,
संचारिणीमिव मरकतस्थलीं विडम्बयन्तः, शैवलपल्लवावली मिवाम्बरसरसि प्रसारयन्तः, गगँ-
[^७]गगनावततैः पक्षपुढैः कदलीदलैरिव [^८]दिनकरखरकरनिकरपे [^९]परिखेदितान्याशामुखानि [^१०]वीजयन्तः,
 
वियति [^११]विसारणीम् शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्मे ।
[^१२]स्म ।
कृताहाराश्च पुनः प्रतिनिवृत्त्यात्म कुलायास्थितेभ्यः शावकेभ्यो विविधान्फलरसान्कलमम-
[^१३]मञ्जरीविकारांश्च प्रहतहरिणरुधिरा- [^१४]नुरक्तशार्दूलनखकोटिपाटलेन चञ्चपुटेन दत्त्वा दत्त्वा- धरीकृत-
५३
 

 

 
कालो द्योत्यते । आहारस्य भक्षणस्यान्वेषणं विलोकनं तस्मै नभस्याकाशे विरचिता विहिता पतिः श्रेणी

यैस्ते । मदेति । मदेन कलो मनोज्ञो यो बलभद्रो हली तस्य यद्धलं सीरं तस्य यन्मुखमग्र प्रदेश स्तेन य

आक्षेप आकर्षणं तेन विकीर्णानि पर्यस्तानि बहूनि स्रोतांसि यस्य एवंभूतामम्बरतल आकाशतले कलिन्द-

कन्यामिव यमुनामिव दर्शयन्त आलोकनीयतां प्रापयन्तः । सुरेति । सुराणां देवानां गजो हस्ती तेनो-

न्मूलितोत्पाटिता विगलन्त्यधःपतन्ती याऽऽकाशगङ्गा स्वर्धुनी तस्याः कमलिनी नैलिनी तस्याः शङ्कां भ्रान्ति-

मुत्पादयन्तः परेषां जनयन्तः । दिवसेति । दिवसकरः सूर्यस्तस्य यो रथः स्यन्दनस्तस्य ये तुरगा अश्वा

स्तेषां या प्रभा सैव नीला । हरितहयरथवत्त्वात्सूर्यस्य । तयानुलिप्तमिव लेपनविषयीकृतमिव गगनतलं

नभस्तलं प्रदर्शयन्तो ज्ञापयन्तः । संचारिणीति । संचारिणी भ्रमणशीला मरकतस्याश्मगर्भस्य या स्थली

तामिव विडम्वन्तस्तिरस्कुर्वन्तः । शैवल इति । शैवलस्य शैवालस्य या पल्लवावली किसलयश्रेणी तामि-

वाम्बर रसि व्योमतटाके प्रसारयन्तो विस्तारयन्तः । पुनः किं कुर्वन्तः । गगनेति । गगनेऽवततैर्विस्तृतैः

पक्षपुटैः पक्षच्छदैः कदलीनां रम्भाणां दलैरिव । नीलत्वसाम्यात्तदुपमानम् । दिनकरस्य सूर्यस्य खरास्तीक्ष्णा

ये कराः किरणास्तेषां निकर: समूहस्तेन परिखेदितानि संक्लामितानि यान्याशामुखानि दिग्वदनानि वीजयन्तो

व्यजनवातकर्म कुर्वन्तः । पुनः किं कुर्वन्तः । वियतीति । वियत्याकाशे विसारिणीं विस्तारिणीं शष्पवीथीं

बालतृणोपयुक्तपद्धतिमिवारचयन्तो विरचयन्तः । सेन्द्रायुधमिति । इन्द्रायुधं शक्रधनुस्तेन सहवर्त -

मानमिवान्तरिक्षं गगनमादधानाः कुर्वाणाः । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतो विहित आहारो

भोजनं यैस्ते क्षपास्त्रियामाः क्षपयन्ति स्मेत्यनेनान्वयः । 'क्षिप प्रेरणे' णिजन्तस्य रूपम् । किं कृत्वा ।

पुनरिति । स्वतृप्यनन्तरं प्रतिनिवृत्त्य परावृत्त्य । आत्मेति । आत्मीयाः स्वकीया ये कुलाया नीडानि तत्रा-

वस्थितेभ्य उषितेभ्यः शावकेभ्यः पोतेभ्यो विविधान्नानाप्रकारान्फलरसान्सस्यनिर्यासान् । कलमेति । कलमः

कलामकस्तस्य मञ्जय वल्लर्यस्तासां विकाराः परिपाकविशेषेण परिणताः कणास्तांस्तथापत्येषु संतानेषु यत्प्रेम

स्नेहस्तैन । कीदृशेन । अधरीति । अधरीकृतो न्यूनत्वमापादितः सर्ववस्तुसंबन्धी स्नेहो येन स तथा तेन ।
 

 
टिप्प० -1 आकाशे उड्डीयमानान् शुकशकुनीन् दृष्ट्वा सुरगजेन उन्मूलितायाः कमलिन्या हरितानां

पत्राणां शङ्का भवतीत्याशयः । श्रान्तिमा उलंकारः । 2 सूर्यरथाश्वानां या ( हरिता) प्रभा तथा विच्छु-

रितमिव गगनं दर्शयन्त इत्याशयः ( वस्तूत्प्रेक्षा ) । 3 तण्डुलानां या मअर्यः कणिशाः, 'बाल' इति

ख्याताः ।
 

 
पाठा० -१ हलधर. २ मुखोत्क्षेप ३ विप्रकीर्ण. ४ उपजनयन्तः ५ अनुलिप्तगगनतलम् ६ उपपादयन्तः

७ गगनविततैः. ८ दिनकरकर ९ परिखेदिताशामुखानि १० परिवीजयन्तः. ११ विस्तारिणीम् १२ स्म. शुक-

शकुनयः १३ फलविकाराम्. १४ प्रसक्त.