2023-10-08 17:28:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५२
 
कादम्बरी ।
 
[ कथामुखे-
पात:, नै[^१]नलिननाभ इव वनमालोपगूढः, नवजलधरव्यूह इव नभसि दे[^२]दर्शितोन्नतिः, अखिलभु-
वनतलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववन-

स्पतीनाम्, सखेव [^३]विन्ध्यस्य, शाखाबाहुर्भि [^४]रुपगुह्येव विन्ध्याटवीं [^५]स्थितो महाञ्जीर्णः [^६]शाल्मली।

तत्र च शाखायेग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंधिषु जीर्णवॅ- [^७]वल्क विवरे [^८]षु महावकाश-
तया विस्रब्धविरचित- कुलायसहस्राणि दुरारोहतया विगै[^९]विगतभयानि नानादेश- समागतानि शुक-
शकुनिकुलानि प्रतिवसन्ति स्म । यैः परिणामविरलद्लँ [^१०]दलसंहतिरपि स वनस्पतिरविरलद्लनि-
[^११]यंश्यामल इवोपलक्ष्यते दिवानिशं निलीनैः । ते च [^१२]तस्मिन्नतिवाँयाति [^१३]वाह्यातिवाह्य [^१४]निशामा [^१५]त्मनी-

 
[ टि ]--
कृतः शकुनीनां पक्षिणां पक्षाणां छदानां पातो यस्मिन्स तथा । पक्षे शकुनौ मातुले पक्षपातोऽङ्गीकारो यस्येति
विग्रहः । नलिनेति । नलिननाभः कृष्णस्तद्वदिव । उभयोः सादृश्यमाह - वनेति । वनमालया वनश्रेण्योपगूढ
आच्छादितः । पक्षे वनमाला भूषणविशेषस्तेनोपगूढ आलिङ्गितः । नवेति । नवा नूतना ये जलधरा मेघास्तेषां
व्यूहः समूहस्तद्वदिव । उभयोः साम्यमाह - नभसीति । नभस्याकाशे दर्शितोन्नतिर्येन स तथा । उभयोः

साम्य [^1]त्वादभङ्गश्लेषः । अखिलेति । अखिलानि समग्राणि यानि भुवनतलानि तेषामवलोकनं निरीक्षणं तदर्थं
प्रासादो देवगृहं स इव । कासाम् । वनदेवतानामरण्याधिष्ठात्रीणां सुरीणाम् । दण्डक इति । दण्डकनाम्नोऽरण्य
स्य वनस्याधिपतिरिव स्वामीव । नायकेति । नायक इवाध्यक्ष इव । कासाम् । सर्वेति । पुष्पं विना फलं येषां ते
वनस्पतयस्तेषां सर्वेषाम् । सखेति । सखेव मित्रमिव । कस्येत्यपेक्षायामाह – विन्ध्यस्येति । विन्ध्यस्य जल-
बालकस्य । शाखेति । शाखा एव बाहवो भुजास्तैः विन्ध्याटवीं विन्ध्यभूमि- मुपगुह्येवालिङ्ग्येव स्थित आश्रितः ।
 

 
तत्र चेति । तस्मिन्त्रवृक्षे शुकाः कीराः शकुनयोऽन्ये पतन्त्त्रिणस्तेषां कुलानि संतानानि प्रतिवसन्ति स्मेत्य-
न्वयः । अथ निवासस्था- नान्याह- शाखाग्रेष्विति । शाखानां शालानामग्राणि प्रान्ताः तेषु कोटराणां
निष्कुहाणामुदरेषु मध्येषु पल्लवाः किसलयानि तेषामन्तरेषु मध्येषु स्कन्धः प्रकाण्डस्तस्य ये संधयो बन्धास्तेषु

जीर्णानि पुरातनानि यानि वल्कानि चोचानि तेषां विवराणि छिद्राणि तेषु । अथ शकुनिकुलानि विशेष-
यन्नाह — महेति । महान्महीयोऽवकाशोऽन्तर्विस्तारस्तस्य भावस्तत्ता तया विस्रब्धं निःशङ्कं विरचितानि निर्मि-
तानि कुलायसहस्राणि यैस्तानि । दूरेति । दुःखेनारोहो दुरारोहस्तस्य भावस्तत्ता तया विगतं भयं येभ्य-
स्तानि । नानेति । नानादेशेभ्यो भिन्नभिन्नप्रदेशेभ्यः समागतान्येकीभूतानि । यैरेति । यैः शकुनिकुलैर्दि-
वानिशमहर्निशं निलीनैः स्थितैः परिणामेन वार्धक्येन विरलानि तुच्छानि दलानि पत्राणि तेषां संहतिः समूहो
यस्मिन्नेवंविधोऽपि स वनस्पतिरविरलानि निबिडानि यानि दलानि पत्राणि तेषां निचयः संदोहस्तेन
श्यामल इव कृष्ण इवोपलक्ष्यते दृश्यते । ते चेति । अग्रे विचरन्ति स्मेत्यप्ग्रेतनेनान्वयः । तस्मिञ्शल्मलीवृक्ष
आत्मनीडेषु स्वस्वकुलायेषु निशां रात्रिमति- वाह्यातिवाह्यातिक्रम्य प्रतिदिनं प्रत्यहमुत्थायोत्थाय । वीप्सया भूया -
 
टिप्प० –

 
[^
1]F. साम्यादित्याशयः । -
[^
2]F. संताना इति तात्पर्यम् ।
 
पाठा० -

 
[^
]G. पद्मनाभ.
[^
]G. कृतोन्नति : . .
[^
]G. विन्ध्याचलस्य.
[^
]G. उपगृह्य; अवगुह्य.
[^
]G. अवस्थितः .
[^
]G. शाल्मलीवृक्ष:.

[^
]G. वल्कल.
[^
]G. विवरेषु च .
[^
]G. विगलितविनाशभयानि, विगतविनाशभयानि .
[^
१०]G. संतति:
[^
११]G. श्यामः . .
[^
१२]G. तस्मिन्वन-
स्पतौ.
[^
१३]G. अतिवाय. ह्य.
[^
१४]G. रजनीम्.
[^
१५]G. आत्मनो नीडेषु.