This page has not been fully proofread.

५२
 
कादम्बरी ।
 
[ कथामुखे-
पात:, नैलिननाभ इव वनमालोपगूढः, नवजलधरव्यूह इव नभसि देर्शितोन्नतिः, अखिलभु-
•वनतलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववन-
स्पतीनाम्, सखेव विन्ध्यस्य, शाखाबाहुर्भिरुपगुह्येव विन्ध्याटवीं स्थितो महाञ्जीर्णः शाल्मली।
तत्र च शाखायेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंधिषु जीर्णवॅल्क विवरेषु महावकाश-
तया विस्रब्धविरचितकुलायसहस्राणि दुरारोहतया विगैतभयानि नानादेशसमागतानि शुक-
शकुनिकुलानि प्रतिवसन्ति स्म । यैः परिणामविरलद्लँसंहतिरपि स वनस्पतिरविरलद्लनि-
चयंश्यामल इवोपलक्ष्यते दिवानिशं निलीनैः । ते च तस्मिन्नतिवाँयातिवाह्य निशामात्मनी-
कृतः शकुनीनां पक्षिणां पक्षाणां छदानां पातो यस्मिन्स तथा । पक्षे शकुनौ मातुले पक्षपातोऽङ्गीकारो यस्येति
विग्रहः । नलिनेति । नलिननाभः कृष्णस्तद्वदिव । उभयोः सादृश्यमाह - वनेति । वनमालया वनश्रेण्योपगूढ
आच्छादितः । पक्षे वनमाला भूषणविशेषस्तेनोपगूढ आलिङ्गितः । नवेति । नवा नूतना ये जलधरा मेघास्तेषां
व्यूहः समूहस्तद्वदिव । उभयोः साम्यमाह - नभसीति । नभस्याकाशे दर्शितोन्नतिर्येन स तथा । उभयोः
साम्यत्वादभङ्गश्लेषः । अखिलेति । अखिलानि समग्राणि यानि भुवनतलानि तेषामवलोकनं निरीक्षणं तदर्थं
प्रासादो देवगृहं स इव । कासाम् । वनदेवतानामरण्याधिष्ठात्रीणां सुरीणाम् । दण्डक इति । दण्डकनाम्नोऽरण्य
वनस्याधिपतिरिव स्वामीव । नायकेति । नायक इवाध्यक्ष इव । कासाम् । सर्वेति । पुष्पं विना फलं येषां ते
वनस्पतयस्तेषां सर्वेषाम् । सखेति । सखेव मित्रमिव । कस्येत्यपेक्षायामाह – विन्ध्यस्येति । विन्ध्यस्य जल-
बालकस्य । शाखेति । शाखा एव बाहवो भुजास्तैः विन्ध्याटवीं विन्ध्यभूमिमुपगुह्येवालिङ्गयेव स्थित आश्रितः ।
 
तत्र चेति । तस्मिन्त्र शुकाः कीराः शकुनयोऽन्ये पतन्त्रिणस्तेषां कुलानि संतानानि प्रतिवसन्ति स्मेत्य-
न्वयः । अथ निवासस्थानान्याह- शाखाग्रेष्विति । शाखानां शालानामग्राणि प्रान्ताः तेषु कोटराणां
निष्कुहाणामुदरेषु मध्येषु पल्लवाः किसलयानि तेषामन्तरेषु मध्येषु स्कन्धः प्रकाण्डस्तस्य ये संधयो बन्धास्तेषु
जीर्णानि पुरातनानि यानि वल्कानि चोचानि तेषां विवराणि छिद्राणि तेषु । अथ शकुनिकुलानि विशेष-
यन्नाह — महेति । महान्महीयोऽवकाशोऽन्तर्विस्तारस्तस्य भावस्तत्ता तया विस्रब्धं निःशङ्कं विरचितानि निर्मि-
तानि कुलायसहस्राणि यैस्तानि । दूरेति । दुःखेनारोहो दुरारोहस्तस्य भावस्तत्ता तया विगतं भयं येभ्य-
स्तानि । नानेति । नानादेशेभ्यो भिन्नभिन्नप्रदेशेभ्यः समागतान्येकीभूतानि । यैरेति । यैः शकुनिकुलैर्दि-
वानिशमहर्निशं निलीनैः स्थितैः परिणामेन वार्धक्येन विरलानि तुच्छानि दलानि पत्राणि तेषां संहतिः समूहो
यस्मिन्नेवंविधोऽपि स वनस्पतिरविरलानि निबिडानि यानि दलानि पत्राणि तेषां निचयः संदोहस्तेन
श्यामल इव कृष्ण इवोपलक्ष्यते दृश्यते । ते चेति । अग्रे विचरन्ति स्मेत्यप्रेतनेनान्वयः । तस्मिञ्शलमलीवृक्ष
आत्मनीडेषु स्वस्वकुलायेषु निशां रात्रिमतिवाह्यातिवाह्यातिक्रम्य प्रतिदिनं प्रत्यहमुत्थायोत्थाय । वीप्सया भूया -
 
टिप्प० – 1 साम्यादित्याशयः । - 2 संताना इति तात्पर्यम् ।
 
पाठा० -१ पद्मनाभ. २ कृतोन्नति : . ३ विन्ध्याचलस्य. ४ उपगृह्य; अवगुह्य. ५ अवस्थितः ६ शाल्मलीवृक्ष:.
७ वल्कल. ८ विवरेषु च ९ विगलितविनाशभयानि, विगतविनाशभयानि १० संतति: ११ श्यामः . १२ तस्मिन्वन-
स्पतौ. १३ अतिवाय. १४ रजनीम्. १५ आत्मनो नीडेषु.