कादम्बरी /84
This page has not been fully proofread.
शाल्मलीतरुः ]
पूर्वभागः ।
५१
रालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुज सहस्रमुडुपतिशेखरमिव विडम्ब -
यितुमुद्यतः, पुराणतया पतनभयादिव वायुस्कन्धलग्नः, निखिलशरीरव्यापिनीभिरतिदूरोन्न-
ताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः, जरातिलकबिन्दुभिरिव कैण्टकैराचिततनुः,
इतस्ततः परिपीतसागरसलिलैगगनागतैः पत्रथैरिव शाखान्तरेषु निलीयमानैः क्षणमम्बुभा-
रालसैराकृत पल्लवैर्जलघरपट
लैरप्यदृष्टर्शिखरः, तुझ्तया नन्दनवनश्रियमिवावलोकयितुम-
भ्युद्यतः स्वसमीपवर्तिनामुपरि संचरतां गंगनतलगमनखेदायासितानां रविरथतुरङ्गमाणां
सृकपरिसुतैः फेनपटलैः संदेहिततूलराशिभिर्धवलीकृतशिखरशाखः, वनगजकपोलकण्डूयन-
लमैमदनिली नमत्तमधुकरमालेन लोहशृङ्गलाबन्धननिश्चलेनेव कल्पस्थायिना भूलेन समुपेतः,
कोटराभ्यन्तरनिविष्टैः स्फुरद्भिः सजीव इव मधुकरपटलैः, दुर्योधन इवोपलक्षितशकुनिपक्ष-
शाखालताः समाः' इत्यमरः । प्रलय इति । प्रलयकाले संहारसमये ताण्डवे नृत्ये प्रसारित मूवकृतं भुजसहस्रं
बाहुसहस्रं येन स तथा तम् । अथ चोडुपतिश्चन्द्रः शेखरे यस्यैवंविधं महादेवं विडम्बयितुमुद्यत इव कृतप्रयत्न
इव बहुशाखावत्त्वेनात्युञ्चत्वेन शशिनोऽपि तच्छिरोवर्तित्वेन च तद्विडम्बकत्वमिति भावः । पुराणेति । पुराण-
तया जीर्णतया पतनभयादिव प्रपातशङ्कयेव वायोः स्कन्धे लग्नो यस्यैवंभूत इव । अनेन शाखासु महावाप्रवेगेण
प्रकम्पः सूचितः । तिरस्कर्तुं च वायोः स्कन्धे लग्न इत्यपि केचियाख्यानयन्ति । निखिलेति । व्रततिभिर्लताभिः ।
'वल्ली तु व्रततिर्लता' इति कोशः । परिगतः परिवेष्टितः । अथ व्रततीर्विशेषयन्नाह — निखिलेति । निखिलं
समग्रं यच्छरीरं तव्याप्तुं शीलं यासां ताभिः । अतीति । अतिदूरमतिविप्रकृष्टमुन्नताभिः । काभिरिव । जीर्णतया
वार्धक्येन शिराभिरिवास्थिबन्धनैरिव । जरेति । कण्टकैराचिता व्याप्ता तनुर्यस्य स तथा । कैरिव । जराया
विस्रसाया ये तिलकंबिन्दवस्तैरिव । अतिवार्धक्ये शरीरे कृष्णबिन्दवो जायन्त इति लोकप्रसिद्धिः । जलेति ।
जलधरपटलैर्मे घसमूहैरप्यदृष्टमनवलोकितं शिखरं प्रान्तप्रदेशो यस्य स तथा । मेघपटलं विशेषयन्नाह - इत
इति । इतस्ततः समन्तात्परिपीतं सागरसलिलं समुद्रपानीयं यैस्तै तथा तैः । अथ च गगनागतैः । कैरिव ।
शाखान्तरेषु शालान्तरेषु निलीयमानैर्गुप्ततया तिष्ठद्भिः पत्ररथैरिव पक्षिभिरिव । क्षणमिति । क्षण क्षणमात्रं
यावदम्बुभारालसैर्जलभारेण मन्दगामिभिः । आर्द्राति । आर्द्राकृता जलेन स्विन्नाः पलवा यैस्ते तथा तैः ।
तुङ्गेति । तुङ्गतयोच्चतया नन्दनवनमिन्द्रोद्यानं तस्य या श्रीस्तामिव अवलोकयितुं द्रष्टुं अभ्युद्यत उद्यतः । स्वस-
मीपेति । धवलीकृताः शुश्रीकृताः शिखरस्याग्रस्य शाखा यस्य स तथा । कैः । फेनपटलैः कफसमूहैः । कीदृशैः ।
संदेहितः संदेहविषयीकृतस्तुल राशिराबीजकार्पासकपिण्डो यैस्तै तथा तैः । स्वेति । स्वस्य समीपवर्तिनां निज-
निकटवर्तिनामुपर्ध्वं संचरतां गच्छताम् । अथ च गगनतलमाकाशतलं तत्र यद्गमनं संचरणं तेन यः खेदः
प्रयासस्तेनायासितानां खिन्नानां रविरथतुरङ्गमाणां सूर्यरथाश्वानां कमोष्ठप्रान्तस्ततः परिस्रुतैः पतितैः फेनपटलैः ।
वनेति । वनगजा अरण्यकरिणस्तेषां कपोलयोः कण्डूयनेन खर्जूयनेन लग्नो यो मदो दानं तत्र निलीना लग्ना ये
मत्ता मधुकरा भ्रमरास्तेषां माला यस्यैवंभूतेन । 'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः । अतो नैल्यसाम्याल्लोहस्य
या शृङ्खलान्दुकस्तेन बन्धनं नियन्त्रणं तेन निश्चलेनेव स्थिरेणेवात एव कल्पस्थायिना कल्पान्तं तिष्ठता । एतेन
स्वस्यातिवृद्धत्वेन शैथिल्यनिवृत्त्यै भ्रमरवेष्टनस्य कटिबन्धनत्वं प्रदर्शितमिति भावः । एतादृशेन मूलेन बुध्नेन
समुपेतः संयुक्तः । कोटरेति । कोटरो निष्कुहस्तस्याभ्यन्तरं मध्यभागस्तत्र निविष्टैः प्रविष्टैः स्फुरद्भि-
प्यमानैर्मधुकरपटलैर्भ्रमर समूहै: सजीव इव श्वासादिप्राणयुक्त इव । । भ्रमराणामन्तश्चारित्वेन तदुपमानम् ।
दुर्योधनेति । दुर्योधनो गान्धारीतनयस्तद्वदिव । उभयोः सादृश्यमाह - उपेति । उपलक्षितो दृग्विषयी-
टिप्प०-1 वस्तुतस्तु 'गगनस्कन्धलग्नः' इत्येव पाठः । पतनभयात् ( उच्चतया ) गगनस्य स्कन्धे
लग्न इव इत्यर्थः ।
पाठा० - १ उडुपतिशकलशेखर २ पवन, गगन. ३ निजकण्टकैः . ४ जलै : ५ शाखान्तदेशेषु. ६ शिखरदेशः.
७ उत्तुङ्ग तया. ८ आलोकयितुम् ९ समीप १० अम्ब्रतल. ११ मदसलिल १२ बन्ध, १३ पतद्भिः.