कादम्बरी /83
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
अपरसागरशङ्किभिः सलिलमादातुमवतीर्णैर्जलघरैरिव बहलपङ्कमलिनैर्वनकरिभिरनवरतमा-
पीयमानसलिलम्, अगाधमनन्तमै प्रतिममपां निधानं पम्पाभिधानं पद्मसरः। यत्रै च
विकचकुवलयप्रभाइयामायमानपक्षपुटान्यद्यापि मूर्तिमद्रामशापग्रस्तानीव मध्यचारिणामालो-
क्यन्ते चक्रवाकनाम्नां मिथुनानि ।
तस्यैवंविधस्य सरसः पश्चिमे तीरे राघवशर प्रहारजर्ज रितबालतरखण्डस्य च समीपे
दिग्गजकरदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव, तुङ्ग स्कन्धा-
वलम्बिभिरनिलवेल्लितैर हिनिर्मोकै धृतोत्तरीय इव, दिक्चक्रवालपरिमाणमिव गृह्णता भुवनान्त-
।
परिमलो गन्धस्तं वहन्तीत्यवंशीलास्तास्तथा ताभिः । वनेति । वनदेवता अरण्याधिष्ठात्र्यस्ताभिः स्वश्वासेन
स्वकीयश्वासवातेन वासिताभिरिव भाविताभिरिव । अन्वयस्तु प्रागोवोक्तः । पुनः सरो विशेषयन्नाह – वनेति ।
वनकरिभिररण्यगजैरनवरतं निरन्तरमा समन्तात्पीयमानं सलिलं यस्य तत्तथा । अथ करिणो विशिनष्टि -
बहलेति । बहलो निबिडो यः पङ्कः कर्दमस्तेन मलिनैः श्यामैः । कैरिव । जलधरैरिव मेघैरिव । तान्वि-
शिनष्टि – अपरेति । अपरो भिन्नो यः सागरः समुद्रस्तदाशङ्किभिस्तद्धान्तिकारिभिः सलिलमम्भ आदातुं
ग्रहीतुमवतीर्णैराकाशादुत्तरितैः । अगाधमलब्धतलमनन्तमपरिमितपारमप्रतिमं स्वप्रतिनिधिरहितमपां पानी-
यानां निधानं शेवधिभूतम् । अक्षयजलत्वात्तदुपमानम् । अभिधानं तु प्राक् प्रतिपादितमेव न पुनः प्रो-
च्यते । यत्र चेति । यस्मिन्सरसि चक्रवाकनाम्नां रथाजाह्वानां मिथुनानि द्वन्द्वानि मध्यचारिणा वनान्तर्भ्रमण-
कारिणा । 'पथि चारिणा' इति पाठे पथिकेनेत्यर्थः आलोक्यन्त इत्यन्वयः । चक्रवाकमिथुनानि विशेषयन्नाह-
विकचेति । विकचानि विकस्वराणि यानि कुवलयानि नीलाम्बुजन्मानि तेषां या प्रभा कान्तिस्तद्वच्छया-
मायमानानि श्यामवदाचरमाणानि पक्षपुटानि येषां तानि । पुनः कीदृशानीव । अद्याप्येतावत्कालपर्यन्तमपि
मूर्तिमान्स्फुरद्रूपो यो रामस्य शापः शपनं तेन ग्रस्तानीव गृहीतानीव ।
तस्येति । तस्य सरस एवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य पद्मसर इत्यभिधानस्य पश्चिमे पश्चिमदि-
ग्वर्तिनि तीरे तटे महान्महीयाञ्जीर्णश्चिरकालीनः शाल्मलीवृक्षः रोचनो द्रुमोऽस्तीत्यन्त्रयः । तस्य स्थानाभि-
व्यक्त्या आह - राघवेति । राघवस्य रामस्य ये शरा बाणास्तेषां प्रहार उपघातस्तेन जर्जरिता विसंस्थुला ये
बालास्तुणराजास्तरवो वृक्षास्तेषां यत्खण्डं वनं तस्य समीपे निकटे दिशां गजाः हस्तिनस्तेषां ये करदण्डाः
शुण्डादण्डास्ताननुकुर्वन्तीत्येवंशीलास्तदनुकारिणस्तेन जरञ्जरीयान्योऽजगरचक्रमण्डलस्तेन सततं निरन्तरमा-
वैष्टितं यन्मूलं स्थलं तस्य भावस्तत्ता तया बद्धं नद्धं महन्महीय आलवालमावालं यस्मिन्स तथा । पुनः
कीदृश इव । धृतमुत्तरीयमुपसंव्यानं येन स तथा । कैः । अहीनां सर्पाणां निर्मोकैः कनुकैः । निर्मोकं
विशिनष्टि—अनिलेति । अनिलो वायुस्तेन वेल्लितैः' कम्पितैः । 'वेल्लिते कम्पिताधूत - ' इति कोशः । तुङ्ग
इति । तुङ्ग उच्चो यः स्कन्धः । प्रकाण्डस्तत्रावलम्बिभिरवलम्बमानैः । अत एवोत्तरीयस्योपमानता । पुनः
किं कुर्वतेव । दिगिति । दिशां चक्रवालं मण्डलं तस्य परिमाणमायामस्तदिव गृढ़ता ग्रहणं कुर्वता । केन ।
भुवनानामन्तरालं मध्यभागस्तत्र विप्रकीर्णेनेतस्ततः पर्यस्तेन शाखानां लतानां संचयेन संदोहेन । 'शिखा-
टिप्प० - 1 वस्तुतस्तु मध्यचारिणामिति पाठः । पम्पासरोमध्यचारिणां चक्रवाकानां मिथुनानि
कुवलयप्रभया इयामायितानि सन्ति । तेषु श्यामतावशात् मूर्तिमतः शापस्य ग्रासोत्प्रेक्षा । पुरा हि
सीतावियोगदुःखितं रामं विलोक्य चक्रवाका जहसुः । तदवलोक्य ' भवतामपि ममेव वियोगदुःखदात्री
● रात्रिर्भविष्यति' इति रामः शशाप । 2 करदण्डम् अनुकरोति तच्छीलेन जरदजगरेण जीर्णेन महा-
सर्पेण । इत्यर्थो बोध्यः ।
पाठा० -१ आपीयमानम्. २ अप्रतिष्ठम् ३ रात्र. ४ चक्रनाम्नाम् ५ तस्यैव ६ पद्मसरसः ७ जीर्णतालतरु.
-