2023-10-06 12:52:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पम्पासरः ]
 
पूर्वभागः ।
 
पाशकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाण कमण्ड [^१]लुकलजलध्वनिमनोहरम्,
[^२]उन्मिषदुत्पलवनमध्यचारिभिः सवर्णतया रसितानुमेयै: [^३]कादम्बैरासेवितम्, अभिषेकावतीर्ण-
तीर्ण
पुलिन्द राज [^४]नैरीकुच चन्दनधूलिधवलित [^५]तरम्, [^६]उपान्तकेतकीरजःपटलबद्धकूलपुलिनम्,
आसन्नाश्रमागततापसक्षालिताद्वैर्द-वल्कलकषायपाटलतटजलम्, उपतट [^७]वृक्षपल्लवानिलवी जितम्,
अविरलतमाल [^९]वीध्थ्यन्ध- कारिता सिभिर्वालिनिर्वासितेन [^१०]संचरता प्रतिदिनमृष्यमूक- वासिना सुप्ग्री-
वेणावलुप्तफल [^११]लघुलताभिरुदवासितापसानां देवतार्चनोपयुक्तकुसुमाभिरुत्पतजै [^१२]ज्जलचरपक्षपुट-
विगलित- जलबिन्दुसे कसुकुमार किसलयाभिर्लतामण्डप [^१३]तलशिख- ण्डिमण्डलारब्धताण्डवाभिर-
नेककुसुमपरिमलवाहिनीभिर्वनदेव [^१४]ताभिः स्वश्वासवासिताभिरिव वनराजिर् [^१५]भिरूपरुद्ध- तीरम्,
 
9
 
४९
 

 
विशेषयनाह–एकदेशेति । एकदेश एकभागस्तत्रावतीर्णोऽन्तः प्रविष्टो यो मुनिजनस्तेनापूर्यमाणानि जलेन

श्रियमाणानि यानि कमण्डलूनि पात्रविशेषाणि तेषां कलो मधुरो यो जलध्वनिः पानीयशब्दस्तन मनोह-

रमभिरामम् । कादम्बेति । कादम्बाः कलहंसास्तैरासमन्तात्सेवितं पर्युपासितम् । अथ कादम्बान्विशि

नष्टि - उन्मिषदिति । उन्मिषन्ति विकसन्ति यान्युत्पलानि कुवलयानि तेषां वनं खण्डस्तन्मध्यचारिभिस्त-

दन्तर्गामिभिः । सवर्णेति । सवर्णतया सादृश्यतया रसितं स्खनितं तेनानुमेयैरनुमातुं योग्यैः । पुनः प्रका-

रान्तरेण सरो विशिष्टि — अभीति । अभिषेकार्थ स्नानार्थमवतीर्णा जलान्तः प्रविष्टाः पुलिन्दराजस्य

भिल्लस्वामिनो याः शबर्यः स्त्रियस्तासां कुचाः स्तनास्तेषां चन्दनं मलयजं तस्य धूलिभिः पांसुभिः धवलिततर-

मतिशयेन शुश्रीकृतम् । उपान्तेति । उपान्ते समीपे याः केतक्यो मालत्यस्तासां रजः परागस्तस्य पटलं

समूहस्तेन बद्धमानद्धं कूलं जलयुक्तं पुलिनं तटं च जलोम्भितं यस्मिंस्तत्तथा । आसन्नेति । आसन्ना

निकटवर्तिनो ये आश्रमा मुनिस्थानानि तेभ्य आगताः प्राप्ता ये तापसा ऋषयस्तैः क्षालितानि धौतान्याणि

जलाविलानि वल्कलानि । 'वल्कलम स्त्रियाम्' इत्यमरः । तै कषायं तुवरम् । 'तुवरस्तु कषायोऽस्त्री'

इत्यमरः । पाटलं च तटजलं यस्मिन् । 'श्वेतरक्तस्तु पाटलः' इत्यमरः । उपेति । तटस्य समीपमुपटं तत्र

ये वृक्षाः पादपास्तेषां पल्लवाः किसलयानि तैर्यः अनिलः वायुस्तन वीजितं व्यजनवात इवाचरितं यस्मिन् ।

बनेति । वनराजिभिः कानन श्रेणिभिरुपरुद्धमाबद्धं तीरं तटं यस्य तत्तथा । अथ वनराजिं विशिनष्टि -

अविरलेति । अविरला निबिडा या तमालानां कालस्कन्धानां वीथी पकिस्तयान्धकारिताभिः संजातान्धका-

राभिः । वालीति । सुग्रीवेण वानराधिपतिनावलुप्तानि दूरीकृतानि यानि फलानि तैलघुलता यासु ताभिः ।

कीदृशेन सुप्रीवेण । वालिनेन्द्रसुतेन निर्वासितेन स्थाना शितेन । किं कुर्वता । प्रतिदिनं प्रत्यहं संचरता

व्रजता । तत्रेति शेषः । ऋष्येति । ऋष्यमूकाभिधानो गिरिस्तत्र वासिना निवसनशीलेन । उदवासिना-

मिति । उदवासिनां तत्र स्थितिजुषां तापसानां देवतार्चने देवपूजायामुपयुक्तानि सोपयोगानि कुसुमानि

पुष्पाणि यासु ताभिः । उत्पतदिति । उत्पतन्तो ये जलचरा नकचक्रायास्तेषां पक्षपुटानि तेभ्यो विगलिताः

सस्ता ये जलबिन्दवः पानीयपृषतास्तेषां सेकेन सिञ्चनेन सुकुमाराणि सुकोमलानि किसलयानि यासु ताभिः ।

लतेति । लतानां वल्लीनां ये मण्डपा आच्छादितप्रदेशास्तेषां तलेऽधःप्रदेशे शिखण्डिमण्डलैर्मयूरसमूहैरा-

रब्धमुत्पादितं ताण्डवं नृत्यं यासु ताभिः । अनेकेति । अनेकानि विभिन्नजातीयानि कुसुमानि पुष्पाणि तेषां
 

 
टिप्प० – 1 साहइयेनेत्यर्थः । 2 तेन बद्धं कूले कूलसमीपे पुलिनं सैकतं यस्य तत् । फेतकीपुष्पा

णामियान् परागो राशीभूतो येन कूले सैकतं परागजनित: सिकतामयः प्रदेशो जात इत्यर्थः ।

3 लघवो भारशून्या लता यासु ।
 

 
पाठा०- •१ कलध्वनि. २ उन्मिषित. ३ कादम्बकदम्बकै:, कादम्बककदम्बकैः. ४ सुन्दरी. ५ तरङ्गभू.

६ उपान्तजात. ७ विटपि. ८ पुढानिल. ९ वीथिका. १० च संचरता. ११ परिलघुलताभि:. १२ जलचरपतङ्ग-

कुलपक्ष. १३ तलस्थित १४ देवतानि:श्वासं. १५ रुजू.
 

 
७ का०